24008: क्षुद्रजन्तवः

Padacheda: क्षुद्र-जन्तवः | S | 1 | 3 |

Sutrartha


Vasu English Summary

A द्वन्द compound of words signifying small animals, is singular.

Vasu English Translation

A द्वन्द compound of words signifying small animals, is singular. Thus यूकालिक्षम् ‘the louse and the nil’; दंशमशकम् ‘the bug and the mosquito.’ The word क्षुद्रजन्तु means an animal of a very small size. Some say that animals not having bones are called क्षुद्रजन्तु, (invertebrates); others say, those which are small in size; others say, all below the mongoose are kshudrajantu.

Bhashya

क्षुद्रजन्तवः (539) (340 एकवद्भावसूत्रम् ॥ 2.4.1 आ. 5) (क्षुद्रजन्तुत्वनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) क्षुद्रजन्तव इत्युच्यते। के क्षुद्रजन्तवः? (समाधानभाष्यम्) क्षोत्तव्या जन्तवः क्षुद्रजन्तवः ॥ (आक्षेपभाष्यम्) यद्येवं यूकालिक्षं कीटपिपीलिकं दंशमशकमिति न सिध्यति ॥ (समाधानभाष्यम्) एवं तर्ह्यनस्थिकाः क्षुद्रजन्तवः ॥ (लक्षणान्तरभाष्यम्) अथ वा येषां स्वं शोणितं नास्ति ते क्षुद्रजन्तवः ॥ (लक्षणान्तरभाष्यम्) अथ वा येषामासहस्रादञ्जलीर्न पूर्यते ते क्षुद्रजान्तवः ॥ (लक्षणान्तरभाष्यम्) अथ वा येषां गोचर्ममात्रं राशिं हत्वा न पतति ते क्षुद्रजन्तवः ॥ (सिद्धान्तलक्षणम्) अथ वा नकुलपर्यन्ताः क्षुद्रजन्तवः ॥ क्षुद्रजन्त ॥ 8 ॥

Kashika

अपचितपरिमाणः क्षुद्रः। क्षुद्रजन्तुवाचिनां द्वन्द्व एकवद् भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तव इति किम्? ब्राह्मणक्षत्रियौ।

क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः।

शतं वा प्रसृतौ येषां केचिदा नकुलादपि॥

आ नकुलादपीतीयमेव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात्॥

Siddhanta Kaumudi

एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥

Balamanorama

क्षुद्रजन्तवः - क्षुद्रजन्तवः । एतेषां द्वन्द्व एकबदित्यर्थः । फलितमाह — एषां समाहारे [एव ]द्वन्द्व इति । यूकालिक्षमिति । यूकाश्च लिक्षाश्चेति विग्रहः । केशबहुले शिरःप्रदेसे स्वेदजा जन्तविशेषा यूकाः । लिक्षाश्च प्रसिद्धाः । एकवत्त्वं, नपुंसकह्रस्वत्वं च । आ नकुलादिति ।नकुलपर्यन्ताः क्षुद्रजन्तवः॑ इति भाष्यादिति भावः ।

Tattvabodhini

क्षुद्रजन्तवः - क्षुद्र । अपचितपरिमाणत्वं क्षुद्रत्वम् । तच्चापेक्षिकत्वादनवस्थितम् । यच्च स्मर्यते -॒क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः । शतं वा प्रसृतौ येषां, केचिदानकुलादपि॑इति । तत्र सर्वपक्षसाधारण्येनोदाहरति — यूकालिक्षमिति । आ नकुलादिति । नकुलपर्यन्ता इत्यर्थः ।

Padamanjari

क्षुद्रजन्तवः॥ क्षुद्रशब्दोऽयमस्त्येव कृपणे - क्षुद्रोऽयं पुरुष इति, अस्त्यङ्गहोने शीलहीने च -‘क्षुद्राभ्यो वा’ इति, अस्ति परिमाणापचये - क्षुद्रास्तण्डुला इति; इह तु जन्तुशब्दसमभिव्याहारादन्तिमस्य ग्रहणमित्याह - अपचितपरिमाणः क्षुद्र इति। अल्पशरीर इत्यर्थः। अपचयस्यापेक्षिकत्वादनवस्था मा भूदिति स्मृतिमुपन्यस्यति - क्षुद्रजन्तुरनस्थिः स्यादिति। यस्यास्थीति न विद्यन्ते सोऽनस्थिः। स्मृत्यन्तरमाह - अथ वेति। क्षोतव्यः क्षुद्रः, अर्हार्थेऽपि’स्फायीतञ्चि’ इत्यादिना रक् प्रत्ययः, यः क्षुद्यमानोऽपि न म्रियते, यथा - जलूका, स क्षुद्रजन्तुः; यस्तु म्रियते स पापनिमितत्वान्न क्षोदार्हः। क्षुद्र एव य इति व्युत्पत्तिवशादेवायं प्रसिद्ध इत्यर्थः। स्मृत्यन्तरमाह - शतं वेति। प्रसृतिरञ्जलेरर्द्धं येषां शतं प्रसृतौ भवति, शतेनार्द्धाञ्जलिः पूर्यत इत्यर्थः। स्मृत्यन्तरमाह - केचिदा नकुलादपीति। नकुलपर्यन्ताः क्षुद्रजन्तव इत्यर्थः। इतरासां तद्विरोधादिति। अनस्थादिभिः स्मृतिभिर्ये प्रयोगा उपदर्शिता न ते सर्वे ताभिः संगृह्यन्त इत्ययमत्र विरोधः॥

Nyaas

क्षुद्रशब्दोऽयमस्त्येव यः कार्पण्यवति पुरुषे वर्तते; यथा - क्षुद्रो देवदत्त इति, कृपण इति गम्यते। अस्ति च शीलहीनेऽङ्गहीने च, यथा - क्षुद्राभ्यो वेति। अत्र ह्रनियतपुंस्का विकलाङ्गाश्च स्त्रियः क्षुद्राग्रहणेन गृह्यन्ते। अस्ति च परिमाणापचये, यथा - क्षुद्रास्तण्डुला इति। इह तु जन्तुशब्दसन्निधानात् प्राणिशरीरस्याल्पतामाचष्टे। तेन परिमाणापचये वर्तमानस्य क्षुद्रशब्दस्य ग्रहणं विज्ञायत इत्याह - अपचितपरिमाणः क्षुद्रः इति। अल्पशरीर इत्यर्थः। अपचितपरिमाणता चापेक्षाभेदादनवस्थितेति। अस्थिरेत्यर्थः।क्षुद्रजन्तुशब्दस्याभिधेयं प्रति स्म-तीरुपन्यस्यति - क्षुद्रजन्तुरनस्थिः स्यात् इति। क्षुदिर् सम्पेवणे (धातुपाठः-1443) क्षुद्यत इति क्षुद्रः। औणादिकः स्फायीतञ्चि (द।उ।8।31) इत्यादिना रक्। क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। अनस्थिः इति। यस्यास्थीनि न विद्यन्ते। कवलं यस्य चर्मशोणितमांसमस्ति स क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। अथ वा क्षुद्र एव यः इति स्मृत्यन्तरमाह। क्षोदयितुं यः शक्यते स क्षुद्रजन्तुः। शब्दार्थवशात् प्रसिद्ध एव लोके क्षुद्रजन्तुग्र्राह्रः। स पुनर्मशकादिरङ्गे यस्यात्मीयं शोणितं नास्ति। येषां वा गोचर्ममात्रं राशिहत्वापि नरः पतितो न भवति ते प्रसिद्धाः क्षुद्रजन्तव उच्यन्ते। शतं वा प्रसृतौ येषाम् अपरा स्मृतिः। प्सृतौ अञ्जलौ बद्धं येषां प्राणिनां शतं प्रसृतिर्भवति शतेन वा प्रसृतिः पूर्यते ते क्षुद्रजन्तवः। केचिदानकुलादपि इति। ककेचिद्वर्णयन्ति - नकुलपर्यन्ताः क्षुद्रजन्तव इति। इयमेव स्मृतिः प्रमाणम् इति। अस्याः सर्वस्मृत्यनुग्राहिणीत्वात्। तथा ह्रेतदुपलक्षितेषु क्षुद्रजन्तुषु स्मृत्यन्तरदर्शिता अपि क्षुद्रजन्तवोऽन्तर्भवति। इतरा अपि स्मृतयः प्रमाणं कस्मान्न भवन्तीत्याह - इतरासाम् इत्यादि। अनस्थ्यादीनां स्मृतीनामा नकुलादपीति स्मृत्या विरोधः। तस्मान्नैताः प्रामाण्येनाभ्युपगम्यन्ते, तेन सर्वत्रेदं सिद्धं भवति। क्षुद्रजन्तवः इति बहुवचननिर्देशात् बहुवचननिर्देशात् बहुप्रकृतेरेवैकवद्भावो यथा स्यात्। तनेह न भवति - यूकालिक्षे, दंशमशकाविति। अयञ्च प्राणिजात्यर्थ आरम्भः। क्षुद्रजन्तव इति किम् इति? ननु च सूत्रास्याभावे किं प्रत्युदाहरणं स्यात्? एवं मन्यते - अन्यथा हि जन्तव इति सूत्रं कर्तव्यम्, ततश्चातिप्रसङ्ग स्यादिति॥

Prakriyasarvasvam

नकुलान्तजन्तूनां द्वन्द्व एकवत् । यूकापिपीलिकम् । मण्डूकमूषिकम् ॥