24007: विशिष्टलिङ्गो नदी देशोऽग्रामाः

Padacheda: विशिष्ट-लिङ्गः | S | 1 | 1 |

नदी | S | 1 | 1 |

देशः | S | 1 | 1 |

अ-ग्रामाः | S | 1 | 3 |

Sutrartha


Vasu English Summary

A द्वन्द compound of words of different genders, denoting names of rivers and countries, but not of towns, is singular.

Vasu English Translation

A द्वन्द compound of words of different genders, denoting names of rivers and countries, but not of towns, is singular. Thus गंगाशोणम् ‘the Ganges and the Sona. कुरवः + कुरुक्षेत्रं = कुरुकुरुक्षेत्रं ‘the country of the Kurus and the Kurukshetra.’ उद्ध्यैरावती कुरुकुरु जाङ्गलम् ॥

Why do we say ‘of different genders’? Observe गंगायमुने ‘the Gangas or and the Yamuna.’ Both being feminine gender, so also मद्रकेकयाः ॥

Why do we say ‘rivers and countries’? Observe कुक्कुटमयुर्यौ ‘the hen and the pea-hen.’

Why do we say ‘not of a town’? See जाम्बबशालूकिन्यौ ‘Jambaba and Salukini, which are the names of two villages or grama.

We have taken the word ‘river,’ as the word ‘country’ does not include ‘river.’ So also ‘mountains’ are not included; as कैलासगन्धमादने ‘the Kailasa and the Gandbamadana.’

Vart:- The prohibition extends to villages and towns (grama) but not to cities, (Nagara), as मथुरापाटलिपुत्रं ‘the cities of Mathura and Pataliputra.’

Vart:- When a compound consists of two words, one a town and the other a city, the prohibition applies; as सौर्यकेतवते ‘the city of Saurya and the village of Ketavata.’

Bhashya

विशिष्टलिङ्गो नदीदेशोऽग्रामाः (538) 339 एकवद्भावसूत्रम् ॥ 2.4.1 आ 4) (अनिष्टवारणाधिकरणम्) (1565 प्रतिप्रसववार्तिकम् प्र्प्र् 1प्र्प्र् ) - ग्रामप्रतिषेधे नगरप्रतिषेधः - (भाष्यम्) अग्रामा इत्यत्रानगराणामिति वक्तव्यम्। इह मा भूत् - मथुरापाटलिपुत्रमिति ॥ (1566 वार्तिकम् ॥ 2 ॥) (- उभयतश्च -) (भाष्यम्) उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्य। शौर्यं च केतवता च शौर्यकेतवते। जाम्बवं च शालूकिनी च जाम्बवशालूकिन्यौ ॥ विशिष्ट ॥ 7 ॥

Kashika

विशिष्टलिङ्गानां भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवाचिनां च ग्रामवर्जितानां द्वन्द्व एकवद् भवति। नद्यवयवो द्वन्द्वो नदीत्युच्यते, देशावयवश्च देशः। नदी देश इत्यसमासनिर्देश एवायम्। उद्ध्यश्चेरावती च , उद्ध्येरावती। गङ्गाशोणम्। देशः खल्वपि — कुरवश्च कुरुक्षेत्रं च, कुरुकुरुक्षेत्रम्। कुरुकुरुजाङ्गलम्। विशिष्टलिङ्ग इति किम्? गङ्गायमुने। मद्रकेकयाः। नदी देश इति किम्? कुक्कुटमयूर्यौ। अग्रामा इति किम्? जाम्बवश्च शालूकिनी च, जाम्बवशालूकिन्यौ। नदीग्रहणमदेशत्वात्। जनपदो हि देशः। तथा च पर्वतानां ग्रहणंन भवति। कैलासश्च गन्धमादनं च, कैलासगन्धमादने॥ अग्रामा इत्यत्र नगराणां प्रतिषेधो वक्तव्यः॥ इह मा भूत् — मथुरा च पाटलिपुत्रं च, मथुरापाटलिपुत्रम्॥ उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः॥ सौर्यं च नगरम्, कोतवतं च ग्रामः, सौर्यकेतवते॥

Siddhanta Kaumudi

ग्रामवर्ज्यनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालूकिन्यौ ॥

Balamanorama

विशिष्टलिङ्गो नदी देशोऽग्रामाः - विसिष्टलिङ्गो नदीदेशोऽग्रामाः । अग्रामा॑ इति च्छेदः । व्यत्ययेन बहुत्वे एकवचनम् । विपूर्वकशिषधातुर्भेदेवर्ततेविशेषणं विशेष्येणे॑त्यादौ यथा । विशिष्टं लिङ्गं येषामिति विग्रहः । तथा च ग्रामवाचकभिन्ना भिन्नलिङ्गका ये नदीवाचिनो, ये देशवाचिनश्च तेषा द्विन्द्व एकवत्स्यादिति लभ्यते । तदाह — ग्रामवर्जेति । समाहारे द्वन्द्वः स्यादिति । एकवत्त्वविधेः फलाभिप्रायमेतत् । अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्थताया अनुपदमेवोक्तत्वात् । उद्द्यश्चेति । उद्ध्यो ना नदविशेषः । इरावती नाम कचिन्नदी । तयोर्नदीविशेषवाचकत्वादेकवत्त्वम्, नदीशब्देन नदस्यापि ग्रहणात्, अन्यथा भिन्नलिङ्गत्वाऽसम्भवादिति भावः । जाम्बवशालूकिन्याविति । ‘अग्रामाः’ इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वे नगरग्रामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः ।

Tattvabodhini

विशिष्टलिङ्गो नदी देशोऽग्रामाः - विशिष्टलिङ्गो । सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणाऽवयविद्वन्द्वे वर्तन्त इत्याशयेनाह -ग्रामेत्यादि । इहनदीवाचिनां द्वन्द्वः,देशवाचिनां द्वन्द्व॑ इति वाक्यभेदेन व्याख्येयम् । तेनगङ्गाकुरुक्षेत्रे॑इत्यत्र न भवति । देशशब्देनात्र प्रसिद्ध एव जनपदो गृह्रते, नद्याः पृथग्ग्रहणात् । तेन पर्वतानां न, कैलासश्च गन्धमादनं च कैलासगन्धमादने । नदीदेश इति किम् । कुक्कुट मयूर्यौ । विशिष्टपदस्यऽर्थमाह -भिन्नलिङ्गानामिति । विपूर्वो हि शिषिर्भेदार्थः । अतएवविशेषणं विश्ष्येणे॑ति सूत्रे भेदकं भेद्येनेति व्याख्यातम् । समाहारे द्वन्द्वः स्यादिति । निष्कर्षाभिप्रायेणेयमुक्तः । यथाश्रुताभिप्रायेण तुद्वन्द्व एकवत्स्या॑दिति केषु चित्सूत्रेषु व्याख्यायत इति ज्ञेयम् । उद्ध्येरावतीति । उव्द्यो नदः, सोऽपि नदीविशेषत्वान्नदीशब्देन गृहीतः । एवं शोणोऽपि ।अग्रामा इत्यत्र नगरप्रतिषेधो वक्तव्यः॑ । तेनमथुरापाटलिपुत्र॑मित्यत्र निषेधो न भवति, उभयोरपि नगरत्वात् ।

Padamanjari

विशिष्टलिङ्गो नदी देशोऽग्रामाः॥ विशिष्टलिङ्गानामित्यस्य विवरणम् - भिन्नलिङ्गानामिति। विपूर्वः शिषिर्भिदिना समानार्थः। तथा च भेदक विशेषणं भेद्यं विशेष्यमित्युच्यते।’क्तेन नञ्विशिष्टेन’ इत्यत्रापि भेदद्वारेणैवाधिक्यमर्थो व्याख्यातः - यस्य हि नञ् भेदकः स नञाधिको भवति। नदीवाचिनामित्यादि। कथं तर्हि सूत्रे विशिष्टलिङ्गादिशब्दानां द्वन्द्वेन सामानाधिकरण्यमित्याह - नद्यवयव इत्यादिना। अग्रामावयवोऽग्राम इत्यपि द्रष्टव्यम्। अग्रामा इति चैकवचनस्थाने बहुवचनम्। असमासनिर्देश एवायमिति। समासे हि व्यतिकीर्णावयो द्वन्द्व एकवत्स्यात्। गङ्गाकुरुक्षेत्रे इति समासो हि भवन्नितरेतरयोगे चेद् द्विवचनप्रसङ्गः, समाहारे चेन्नपुंसकत्वप्रसङ्ग इति भावः। उध्यैरावतीति। ठुज्झ उत्सर्गेऽ,’भिद्योध्यौ नदे’ । देशः खल्वपीति। उदाह्रियत इति शेषः जाम्बवशालूकिन्याविति। जाम्बवं नगरम्, शालूकिनी ग्रामः, तत्रोभयतश्च ग्रामाणामिति प्रतिषेध एव भवति। ग्रामोभयावयवस्तु द्वन्द्वो नोदाहृतः। जनपदो हि देश इति। जना यत्र सञ्चरन्ति स देश इत्यर्थः। अवश्यं जनपदो देश इत्यङ्गीकर्तव्यमित्याह - तथा चेति। ग्रामे नाध्येयम्। अभक्ष्या ग्रामकुक्कुटा इत्यादौ ग्रामग्रहणेन नगरमपि गृह्यते, तद्वदिहापिनगरावयवस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, यदयम्’प्राचां ग्रामनगरावयस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, ठ्प्राचां ग्रामनगराणाम्’ इति ग्रामग्रहणे नगरग्रहणं करोति, तज्ज्ञापयति - इह शास्त्रे ग्रामग्रहणे न नगरं गृह्यत इति? नैतत्सुष्ठूअच्यते, वक्ष्यति हि तत्र’ग्रामत्वादेव सिद्धे नगरग्रहणं प्रवृत्तिभेदज्ञापनार्थम्, ग्रामग्रहणमङ्गविशेषणम् - पूर्वैषुकामशमी, नगरग्रहणं तूतरपदविशेषणम् - पूर्वपाटलिपुत्रकः’ इति, वाहीकग्रामेभ्यश्च उदीच्यग्रामाच्चेत्यादौ ग्रामग्रहणेन नगरग्रहणं न स्यातस्मादाह - अग्राम इत्यत्र नगरप्रतिषेध इति। ग्रामाश्रयस्य प्रतिषेधस्य प्रतिषेध इत्यर्थः। उभयतश्चेति। ग्रामनगरात्मके उभयस्मिन्सति ग्रामाश्रयः प्रतिषेध एव वक्तव्यः, न पुनर्नगराश्रयः प्रतिषेध इत्यर्थः॥

Nyaas

विशिष्टशब्दोऽयं भेदवचनः। योञऽपि क्तेन नञ्विशिष्टेनानञ् (2।1।क60) इत्यत्र सावधारणाधिक्ये विशिष्टशब्दो व्याख्यातः; सोऽपि भेद्दवारेणैव प्रतिपत्तयः। तेनेह वृत्तिकारोऽपि भिन्नलिङ्गाना{अपि नास्ति - काशिका}मपि इत्याह। अग्रामाः इति। प्रतिषेधादनयोः स्वरूपग्रहणं न भवतीत्याह - नदीवाचिनाम् इत्यादि। यदि नदीवाचिनां द्वन्द्वो देशवाचिनाञ्चैकवद्भवतीत्ययमत्र सूत्रार्थोऽभिमतः, तत्कथं नदीदेश इत्ययं द्वन्द्व इत्यनेन प्रकृतेन सामानाधिकरण्येन निर्देश इत्याह - नद्यवयवो द्वन्द्वोनदीत्युच्यते इत्यादि। एतेन गौणः सूत्रे निर्देश इति दर्शयति। नदीदेश इत्ययं यदि द्वन्द्वसमासस्तदा व्यतिकीर्णावयवो द्वन्द्वो यस्य कश्चिदवयवो नदी कश्चिद्देशस्तस्यैकवद्भावः स्यात्। किञ्च, द्वन्द्वो भवन्नेष समाहारे वा स्यात्? इतरेरतरयोगे वा? त्त्र पूर्वस्मिन् पक्षे स नपुंसकम् (2.4.17) इति नपुंसकत्वं स्यात्, इतरत्र तु द्विवचनमितीमं दोषं दृष्ट्वाऽऽह - नदीदेश इति। असमास एवायं निर्देशः इति।मद्रकेकयाः इति। मद्राश्च केकयाश्च मद्रकेकयाः। अथ नदीग्रहणं कस्मात् क्रियते? न देशग्रहणादेव नदीग्रहणं सिद्धमित्यत आह - नदीग्रहणमदेशत्वात् इति। कस्मात् पूनर्नदी देशो न भवतीत्याह - जनपदो हि देशः इति। तत्रैव देशशब्दस्य रूढत्वात्। यत् पुनर्नदी देश इत्युच्यते तत् तात्स्थ्यात्। भवति हि तात्स्थ्यात् ताच्छब्द्यम्, यथा- मञ्चाः क्रोशन्तीति। तथा च इत्यादि। तस्माज्जनपद एव देशो नान्यः पर्वतादिः। एवञ्च कृत्वा देशग्रहणेन पर्वतादीनां ग्रहणं न भवति।अग्रामा इत्यत्र ` इत्यादि। लोके हि ग्रामग्रहणेन नगरग्रहणं भवति, तथा ह्रभक्ष्यो ग्राम्यशूकर इत्युक्ते नागरोऽपि न भक्ष्यते। ततश्चेहाग्रामा इति प्रतिषेधः क्रियमाणो नगराणामपि प्राप्नोति, तस्मादग्रामा इति प्रतिषेधे नगरप्रतिषेधो वक्तव्यः, अग्रामा इत्यनेन नगराणां यः प्रतिषेधः प्राप्नोति तस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तेन नगराणां विधिरेव भवति। तत्रेदं व्याख्यानम् - यदयम् **प्राचां ग्रामनगराणाम्** (7.3.14) इत्यत्र ग्रामनगरयोर्भेदेनोपदानं करोति कज्ज्ञापयति - इह शस्त्रे ग्रामग्रहणेन नगराणां ग्रहणं न भवतीति। तेनाग्रामा इति प्रतिषेधो नगराणां न भवति।`उभयतच्च इत्यादि। उभयस्मिन्नित्यर्थः उभयतः। यत्र कश्चिदवयवो ग्रामः कश्चिन्नगरं तत्र ग्रामाणां यः प्रतिषेध उच्यते स एव वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - अग्रामा इति प्रसज्य प्रतिषेधोऽयं विज्ञेयः, नचेत् द्वन्द्वे ग्रामा विद्यन्त इति। तेन यत्र ग्रामगन्धोऽप्यस्ति तत्राप्येकवद्भावो न भवतीति॥

Prakriyasarvasvam

ग्रामवर्जदेशानां नदीनां च भिन्नलिङ्गानां द्वन्द्व एकवत्स्यात् । देश इति जनपदनगरयोरुक्तिः । कुरवः कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । नगरे—मथुराहास्तिनपुरम् । नदीनां तु—गङ्गाशोणम् । एकलिङ्गानां न । गङ्गायमुने । ग्रामसम्बन्धेऽपि न । कुरुवृकस्थले । वृकस्थलं ग्रामः ॥