24006: जातिरप्राणिनाम्¶
Padacheda: जातिः | S | 1 | 1 |
अ-प्राणिनाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
A द्वन्द compound of words signifying जाति (genus) which are not the names of living beings, is singular.
Vasu English Translation¶
A द्वन्द compound of words signifying जाति (genus) which are not the names of living beings, is singular. Thus आराशस्त्रि ‘the probe and the knife’; धानाशष्कुलि ‘fried rice and barley cake.’
Why do we say ‘words denoting genus’? Observe नन्दकपाञ्चजन्यौ ‘Nandaka and Panchajanya.’
Why do we say ‘not of living’? See ब्रह्मणक्षत्रियौ ‘Brahmanas and the Kshatriyas.’
This rule applies to the jati or genus names of substances (द्रव्यजाति) and not the jati names of qualities and actions. (गुणक्रियाजाति), Thus रूपरसगन्धस्पर्शाः ‘colour, savour, odour, and tangibility’; गमनाकुञ्चनप्रसारणानि ‘going, contraction and expansion.’
Even with jati names of substances, the Dvandva compound takes singular, only when the objects are spoken of collectively as a class; when, however, the individuals belonging to a class are indicated, the proper number should be employed; as, इह कुण्डे बदरामलकानि तिष्ठन्ति ‘in this bowl are the badari and amalaki fruits.’
The words जाति ‘genus,’ द्रव्य ‘substance,’ गुण ‘quality’ and क्रिया ‘action’ are technical terms of Indian Logicians. jati has already been explained. Substances are nine : earth, water, light, air, ether, time, space, soul, and mind. Qualities are twenty-four: colour, savour, odour tangibility, number, dimension, severalty, conjunction, disjunction, priority, posteriority, weight, fluidity, viscidity, sound, understanding, pleasure, pain, desire, aversion, effort, merit, demerit and faculty. There are five actions: throwing upwards, throwing downwards, contraction, expansion, and going.
Kashika¶
जातिवाचिनां शब्दानां द्वन्द्व एकवद् भवति, प्राणिनो वर्जयित्वा। आराशस्त्रि। धानाशष्कुलि। जातिरिति किम्? नन्दकपाञ्चजन्यौ। अप्राणिनामिति किम्? ब्राह्मणक्षत्रियविट्शूद्राः। नञिवयुक्तन्यायेन द्रव्यजातीनामयमेकवद्भावः, न गुणक्रियाजातीनाम्। रूपरसगन्धस्पर्शाः। गमनाकुञ्चनप्रसारणानि। जातिपरत्वे च जातिशब्दानामयमेकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम् — इह कुण्डे बदरामलकानि तिष्ठन्तीति॥
Siddhanta Kaumudi¶
प्राणिवर्ज्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यजातीयानामेव । नेह । रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरामलकानि ॥
Balamanorama¶
जातिरप्राणिनाम् - जातिरप्राणिनां ।जाति॑रिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा जातिवाचिनामित्यर्थः । धानाशुष्कुलीति । धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकवत्त्वम्, नपुंसकत्वाद्ध्रस्व इति भावः । विट्छूद्रा इति । विशश्च शूद्राश्चेति विग्रहः । द्रव्यजातीयानामेवेति ।अप्राणिना॑मिति पर्युदासे सति नञिवयुक्तन्यायादिदं लभ्यत इति भावः । रूपरसाविति । गुणगतजातिवचावेतौ । गमनाकुञ्चने इति । क्रियागतजातिविशेषवाचिनावेतौ । ननु बदर्याः फलानि बदरामि, आमलक्याः फलान्यामलकानि ।फले लु॑गिति विकारप्रत्ययस्य लुकिलुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यजातिविशेषवाचिनावेतौ । ततश्च बदराणि चामलकानि च बदरामलकं, बदरामलकानीति कथं रूपद्वयम् ,जातिरप्राणिना॑मित्येकवत्त्वस्य नित्यत्वादित्यत आह — जाति प्राधान्ये इति । व्यक्तिविशेषाऽनादरेण सकलतत्तद्व्यक्त्यनुस्यूतजातिविवक्षायामित्यर्थः ।घटमानये॑त्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः । जातेश्च निराश्रयाया उपस्थित्यसंभवादाश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात्कृत्स्नाप्युपस्थिता । तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्तमानकृत्स्नव्यक्तीनां च क्रियान्वयाऽसंभवाद्ध्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति । इदमेव च जातेः प्राधान्यं, तत्तज्जात्याश्रयसकलतत्तद्व्यक्तिबोधकत्वात्मकम् । ‘घटाः शुक्लाः’ इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवसाद्व्यक्तिविशेषामेव जातिरुपस्थापयतीति जातेरप्रधान्यम्, जात्याश्रयसकलव्यक्त्यनुपस्थधापकत्वादिति ‘तस्यादितः’ इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यया बदरत्वजात्या, आमलकत्वजात्या चाऽविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमित्येकवद्भावः । द्रव्यविशेषेति ।आरण्यानि बदरामलकानी॑त्यादौ फलत्वव्याप्यबदरत्वामलकत्वादिजातिभ्यामारण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः, ग्राम्याणां व्यक्तीनामनुपस्थितेस्तयोर्जात्योरप्राधान्यान्ना.डयमेकवद्बाव इत्यर्थः ।क्षीरोदके संपृक्ते॑इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः ।
Tattvabodhini¶
जातिरप्राणिनाम् - जातिर । जातिवाच्यवयवकद्वन्द्वोऽपि जातिरित्युपचर्यत इत्याशयेनाह — जातिवाचिनामिति । विट्शूद्रा इति । जातिप्राधान्येऽपि बहुवचनमुपपद्यते,जात्याख्यायामेकस्मि॑न्निति विधानात् । तेनात्र व्द्यङ्गविकलं नेति भावः । द्रव्यजातीयानामेवेति ।अप्राणिना॑मिति पर्युदासात्नञिवयुक्त न्यायेन द्रव्यजातीयानामेकवद्भावो, न तु गुणक्रियाजातीयानामिति भावः । जातिः किम् । नन्दकपाञ्चजन्यौ । संज्ञाशब्दावेतौ । जातिप्राधान्य एवेति । एतच्च जातिग्रहणाल्लब्धम् । अन्यथा पर्युदासेनैव जात्युपसर्जनद्रव्यवाचिनोऽपि ग्रहणोपपत्तौः किं तेनेति भावः । द्रव्यविशेषेति । नन्वेवंरञ्जिता नु विविधास्तरुशैलाः॑इति भारविप्रयोगः सङ्गच्छत एवेति किमिति तरुसहिताः शैला इति मनोरमायां समर्थितमिति चेत् । अत्राहुः — सकलतरुशैलरञ्जनं तत्र विवक्षितं, न तु केषांचित्तरुशैलविशेषणामिति जातिप्राधान्यादेकवद्भावमशङ्क्यो तथोक्तमिति । बदरामलकानिति ।फले लु॑गिति लुक् ।लुक्तद्धितलुकी॑ति स्त्रीप्रत्ययस्यापि लुकि फलत्वजात्युपसर्जनद्रव्यवचनावेतौ ।विभाषा वृक्षमृगे॑ति सूत्रे बदराणि चामलकानि च बदरामलकम् ।जातिरप्राणिना॑मित्येकवद्भाव॑इति वक्ष्यति, तत्तु नाऽनेन ग्रन्थेन व#इरुध्यते ।फलत्वजातिवाचिनां बहुवचनान्तानामेव द्वन्द्व एकवद्भवति, न त्वेकवचनान्तां द्वन्द्व॑ इतिफलसेनावनस्पती॑ति वार्तिकोक्तनियममुपेत्य तत्प्रवृत्तेः ।
Padamanjari¶
जातिरप्राणिनाम्॥ जातिवाच्यवयवत्वाज्जातिर्द्वन्द्व इति गौणो निर्द्देशः। आराशस्त्रीति। आराउप्रतोदः। धानाशष्कुलीति। षण्णां रसानां कुलं शष्कुली, गौरादिपाठाद्रूपसिद्धिः। नन्दकपाञ्चजन्याविति। सञ्ज्ञाशब्दावेतौ,’खङ्गो’ स्यनन्दकः, शङ्खः पाञ्चजन्यः प्रकीर्तितः। जातिपरत्वे चेति। जातिप्राधान्ये इत्यर्थः। न नियतद्रव्यविवक्षायामिति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा तदा जातिशब्दत्वेऽप्येकवद्भावो न भवतीत्यर्थः। बदरामलकानीति। फलजातिवाचिनावेतौ॥
Nyaas¶
अयमपि गौण्या वृत्त्या जातिद्र्वन्द्व इति सामानाधिकरण्येन निर्देशः कृतः। जातिवाच्यवयवो द्वन्द्वो जातिरित्युक्तः। जातेश्च स्वरूपग्रहणं न भवति, अप्राणिनामिति प्रतिषेधात्। आराशस्त्रि इति। ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) इति ह्रस्वः।नन्दकपाञ्चजन्यौ इति। संज्ञाशब्दयोरेव द्वन्द्वोऽयम्, न जातिशब्दयोः। अनेनाप्राणिनामित्यस्य पर्युदासतां दर्शयति। तेनायमर्थो भवतीत्याह - नञिवयुक्त इत्यादि। रूपरसगन्धस्पर्शाः इत्यादि गुणजातिः। गमनाकुञ्चनप्रसारणानि इति क्रियाजातिः। जातिपरत्वे च इति। यदा जातेः प्राधान्येन विवक्षा तदा जातेःपरत्वे प्रधानत्वे सति जातिशब्दानाममेकवद्भावो भवति। न नियतद्रव्यविवक्षायाम् इति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा भवति तदा जातिशब्दस्य प्रयोगेऽप्येकवद्भावो न भवति। कुत एतत्? जातिरित्यभिधानान्मुख्या जातिराश्रीयते; न गौणी। एतच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते। एतदुक्तं भवति - यदा जातिरेव व्यक्तिविशेषमाश्रित्य प्रयुज्यते तदा नैकवद्भावः। यदा तु व्यक्तिविशेषमनाश्रित्य प्रयुज्यते तदैवैकवद्भाव इति। बदरामलकानि इति। अत्र बदरामलकानाञ्च व्यक्तिप्रयुक्तानां प्रतीतिः; न जातिशब्दानाम्। अत एव व्यक्त्याश्रयं बहुवचनम्; अन्यथा जातेर्द्वित्वाद्दविवचनमेव स्यात्, न बहुवचनम्। अप्राणिनामिति पर्युदासोऽयम्। तेनायमर्थो लभ्यते - नञिवयुक्तन्यायेन (व्या।प।65) रूपरसस्पर्शादीनान्नैकवद्भाव इति। अप्राण#इनामिति प्रतिषेधे बहुत्वं श्रूयमाणं विधावपि बहुत्वं गमयति। तेन बहुप्रकृतेरेव द्वन्द्व एकदवद्भवति, न द्विप्रकृतेः - आराशस्त्र्याविति॥
Prakriyasarvasvam¶
प्राणिवर्जितद्रव्यजातीनां द्वन्द्व एकवत् स्यात् । वेणुवीणम् । बदरामलकम् । प्राणिनां तु विट्शूद्राः । अद्रव्यवाचित्वाद् रूपरसौ । द्रव्येष्वपि व्यक्तिपरत्वे न । वेणुवीणाः ॥
Sutra Prayogas¶
समित्कुशम् (कुमारसम्भवम्): जातिरप्राणिनाम् इति द्वन्द्वैकवद्भावः।
कुसुमाग्रपल्लवे (किरातार्जुनीयम्): जातिरप्राणिनाम् इत्येकवद्भावान्नपुंसकत्वम्।
पुष्प-फलेन (भट्टिकाव्यम्): पुष्पाणि च फलानि चेति जातिरप्राणिनाम् इत्येकवद्भावः।
वेणु-मृदङ्ग-कांस्यम् (भट्टिकाव्यम्): जातिरप्राणिनाम् इत्येकवद्भावः।
पुष्प-फलं (भट्टिकाव्यम्): जातिरप्राणिनाम् इत्येकवद्भावः।
**** (भट्टिकाव्यम्): जातिर- प्राणिनाम् इत्येकवद्भावेन नपुंसकलिङ्गता स्यात् ।
माम्स-शोणितम् (भट्टिकाव्यम्): जातिरप्राणिनाम् इत्येकवद्भावः।
शूल-पट्टिशान् (भट्टिकाव्यम्): द्वन्द्वे तु जातिरप्राणिनाम् इत्येकवद्भावः स्यात्।
तरूर्वी-धरमम्बु (भट्टिकाव्यम्): जातिरप्राणिनाम् इति एकवद्भावः।
द्रुम-शैलं (भट्टिकाव्यम्): जातिरप्राणिनाम् इत्येकवद्भावः।