24005: अध्ययनतोऽविप्रकृष्टाख्यानाम्¶
Padacheda: अध्ययनतः | S | 0 | 0 |
अ-वि-प्रकृष्ट-आख्यानाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
A द्वन्द compound of words denoting (persons who have studied) subjects, which in their order of study are not remote from each other, is singular.
Vasu English Translation¶
A द्वन्द compound of words denoting (persons who have studied) subjects, which in their order of study are not remote from each other, is singular. As, पदकक्रमकम् ‘a person who has studied the pada arrangement and a person who has studied the krama arrangement; so also क्रमकवार्त्तिकम्.
Why do we say ‘order of study’? Observe पितापुत्रौ ‘father and son.’ Why do we say ‘not remote’? See याज्ञिकवैयाकरणौ ‘sacrifice-knower and the grammarian.’
Kashika¶
अध्ययनेन निमित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्व एकवद् भवति। पदकक्रमकम्। क्रमकवार्त्तिकम्। संपाठः पदानां क्रमस्य च प्रत्यासन्नः। अध्ययनत इति किम्? पितापुत्रौ। अविप्रकृष्टाख्यानामिति किम्? याज्ञिकवैयाकरणौ॥
Siddhanta Kaumudi¶
अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥
Balamanorama¶
अध्ययनतोऽविप्रकृष्टाख्यानाम् - तदाह — अध्ययनेन प्रत्यासन्नेति । संनिकृष्टेत्यर्थः । पदककक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः ।क्रमादिभ्यो बुन् । पदकानां क्रमकाणां च समाहर इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यद्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम्,जातिरप्राणिना॑मित्येव सिद्धेः । तदध्येतृत्वे तु न जातिरिति भावः ।
Tattvabodhini¶
अध्ययनतोऽविप्रकृष्टाख्यानाम् - पदकेति । पदान्यधीते पदकः ।क्रमादिभ्यो वुन् । एवं क्रमकोऽपि । पदान्यधीत्यक्रमोऽद्येतव्य इति स्पष्टा प्रत्यासत्तिः । अध्यनतः किम् । पितापुत्रौ । अविप्रकृष्टेति किम् । याज्ञिकनैयायिकौ ।
Padamanjari¶
अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ आख्यायतेऽनेनेत्याख्येति शब्दमात्रमिहाख्याशब्देनोच्यते, न रूढिशब्द एव। असंदेहार्थं विप्रकृष्टाख्यानामध्ययनत इत्यकरणादविप्रकृष्टेति पदच्छेदः। आख्यानञ्च न स्वरूपेणाविप्रकर्षः, किन्तु प्रवृत्तिनिमितद्वारेण, तच्चेहाध्ययनम्, तदाह - अध्ययनत इति। अधीतिःउअध्ययनम्, अध्ययनेनाध्ययनतः, आद्यादित्वातसिः, प्रवृत्तिनिमितभूतस्याध्ययनस्याविप्रकृष्टत्वातद्द्वारेणाविप्रकृष्टा आख्या येषां तेऽध्ययनतोऽविप्रकृष्टाख्याः। एतदेवाह - अध्ययनेन निमितेनेत्यादि। पदकक्रमकमिति। पदान्यधीते पदकः,’क्रमादिभ्यो वुन्,’ एवं क्रमकः। वृत्तिःउ संहिता, तामधीते वार्तिकः, उक्थादित्वाट् ठक्, अत्र प्रवृत्तिनिमितस्याध्ययनस्याविप्रकर्षं दर्शयति - संपाठ इति। संपाठ इति। संपठनं संपाठः, अध्ययनमित्यर्थः। प्रत्यासन्न इति। पदान्यधीत्य क्रमोऽध्येतव्य इति कृत्वा। एवं क्रमकवार्तिकमित्यत्रापि नानधोत्य संहितां क्रमोऽध्येतुं शक्य इति प्रत्यासतिर्विज्ञेया॥
Nyaas¶
अधीतिरध्ययनमिति भावसाधनोऽध्ययनशब्दः, कर्मसाधनो वा - अधीयत इत्यध्ययनमिति। अध्ययनतः इति। आद्यादिभ्यस्तस्युपसंख्यानम् (वा। 634) इति हेतुतृतीयान्तात् तसिः। अत आह - अध्ययनेन निमित्तेन इति। अविप्रकृष्टा इति। अविप्रकृष्टाऽऽख्या येषां तेऽविप्रकृष्टाख्याः। निमित्तस्य साधारणत्वादिविप्रकृष्टता। तत्पुनर्निमित्तं सूत्रोपात्तमेवाध्ययनमाख्यानामधेयम्। पदकक्रमकम् इति। पदमधीते, क्रममधीते इति क्रमादिभ्यो वुन् (4.2.61) । क्रमकवार्तिकम् इति। वृत्तिमधीत इति वार्तिकः। क्रतूक्थादिसूत्रान्ताट्ठक् (4.2.59) । कथं पुनः पदस्याध्येतुः क्रमस्य चाध्ययनेन निमित्तेनाविप्रकृष्टता भवतीत्याह - सम्पाठः इत्यादि। यस्मात् पदानां क्रमस्य च यः पाठः स नातिभिन्नः। ग्रन्थोऽपि तादृश एव, अतः प्रत्यासन्नः। यतश्च पदान्यधीत्य क्रमोऽध्येतव्यः, ततोऽपि सम्पाठस्तयो। प्रत्यासन्नः, ततश्च तेन सम्पाठेनाध्ययनेन निमित्तेन पदक इति क्रमक इति च याऽध्येतुराख्या साऽपि प्रत्यासन्ना भवतीत्यभिप्रायः। पितापुत्रौ इति। आनङ् ऋतो द्वन्द्वे (6.3.25) इत्यानङादेशः। तत्र हि पुत्रेऽन्यतरस्याम् (6.3.22) इत्यतः पुत्र इत्यनुवर्तते। अत्रापि पितेति पुत्र इति चाख्ये प्रत्यासन्ने साधारणत्वान्निमित्तस्य। तथा हि - जन्यजनकभावो द्वयोरपि तयोर्निमित्तम्। याज्ञिकवैयाकरणम् इति। यज्ञमधीते याज्ञिकः। क्रतूक्थादिना (4.2.59) इक्। व्याकरममधीते वैयाकरणः। तदधीते तद्वेद (4.2.59) इत्यण्। अस्त्यत्राध्ययननिमित्तत्वमनयोराख्ययोः, न तु प्रत्यासतिः। न हि यज्ञाध्ययनेन व्याकरणाध्ययनेन वा तयोः क्रियाप्रत्यासत्तिर्नापि ग्रन्थप्रत्यासत्तिः॥
Prakriyasarvasvam¶
अध्ययननिमित्तकं प्रत्यासन्नार्थं नाम येषां तेषां द्वन्द्व एकवत् स्यात् । पदकक्रमकम् । पदक्रमपाठयोः प्रत्यासन्नत्वादुक्तिः । द्वयोः ‘क्रमादिभ्यो वुन्’ (४–२–६१) ॥