24004: अध्वर्युक्रतुरनपुंसकम्

Padacheda: अध्वर्यु-क्रतुः | S | 1 | 1 |

अ-नपुंसकम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

A द्वन्द compound of words denoting क्रतु (sacrifices) ordained by यजुर् (अध्वर्यु) Veda, is singular, provided they are never used in the neuter gender

Vasu English Translation

A द्वन्द compound of words denoting क्रतु (sacrifices) ordained by यजुर् (अध्वर्यु) Veda, is singular, provided they are never used in the neuter gender As, अर्काश्वमेधम् the Arks and Asvamedha sacrifices,’ सायाह्नातिरात्रम् ‘the Sayahna and Atiratra sacrifices.

Why do we say ‘Yajur-veda sacrifices’ ? Observe इषुवज्रौ ‘the lshu and Vajra ceremonies,’ उद्भिद्वलभिदौ ॥

Why do we say ‘when not in the neuter gender’ ? Observe राजसूयवाजपेयौ ‘the Rajasuya and Vajapeya sacrifices.’

Why have we दर्शपौर्णमासौ ? Because the word क्रतुः is a technical term applying only to Soma-sacrifices and not any sacrifices in general. Therefore, though Darsa and Paurnamasa are Yajur-veda ceremonies, they not being Soma ceremonies, the present rule, does not apply.

Kashika

अध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानां द्वन्द्व एकवद् भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्व इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। अध्वर्युक्रतुरिति किम्? इषुवज्रौ। उद्भिद्बलभिदौ। अनपुंसकमिति किम्? राजसूयवाजपेये। इह कस्माद् न भवति — दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः॥

Siddhanta Kaumudi

यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धर्चादी ॥

Balamanorama

अध्वर्युक्रतुरनपुंसकम्। - अध्वर्युक्रतुः । अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकजुर्वेदपरः । तदाह — यजुर्वेद इति । अर्काआमेधमिति । अर्को — महाक्रतुः । अआमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितक्रतू । अर्कस्य च अआमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन्वेदे विहितावित्यत आह — सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह — अर्धर्चादी इति । अध्ययनतः ।अविप्रकृष्टाख्याना॑मिति च्छेदः । ‘अध्ययनत’ इति तृतीयार्थे तसिः ।

Padamanjari

अध्वर्युक्रतुरनपुंसकम्॥ अध्वर्युशब्द ऋत्विग्विशेषे प्रसिद्धः, न च तेन क्रतोर्विशेषणमुपपद्यते, न हि सोऽस्ति क्रतुर्यत्राध्वर्योरनन्वयः, नापि सोऽस्ति यत्राध्वर्योरेवान्वय इति मुख्यार्थासम्भवादौपचारिकग्रहणमित्याह - अध्वर्युवेद इति। यजुर्वेद इत्यर्थः। तत्र ह्याध्वर्यवं विधीयते। कर्मस्वरूपस्येतिकर्तव्यतायाः। फलस्य चोपदेशःऊउविधानम्। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानामिति। कथं तर्हि सूत्रे सामानाधिकरण्यमित्याह - अध्वर्युक्रतुरिति। ताद्दशावयवत्वाद् द्वन्द्व एव तथोक्त इत्यर्थः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्या द्वन्द्व एवोच्येत तदा’स नपुंसकम्’ इत्यस्यायमपवादो विज्ञायेत। न वाऽबाधेनोपपतौ सत्यां बाधो न्याय्यः। अर्कश्चाश्वमेधश्च अर्काश्वमेधम्। सायाह्नश्चातिरात्रश्च सायाह्नातिरात्रम्। इषुवज्राविति। सामवेदे एषां विधानम्। राजसूयवाजपेयशब्दावर्द्धर्चादिषु पठितौ, ततस्तौ नपुंसकलिङ्गौ प्रत्युदाहरणम्॥

Nyaas

अध्वर्युवेदे इति। ऐतेनाध्वर्युशब्दनात्र यजुर्वेदो लक्ष्यत इति दर्शयति। अथाष्वर्योरृत्विग्विशेषस्य यः क्रतुरिति क्रतुविशेषणमेवाध्वर्युग्रहणं कस्मान्न विज्ञायते? असम्भवात्; को हि तस्य क्रतुर्भवति ! अपि तु घनव्ययशीलस्य। यद्यपि तस्य क्रतौ कर्त्तृत्वमस्ति तदपि ऋत्विगन्तरेण साधारणमित्यध्वर्युणैकेन तस्य विशेषणमयुक्तम्। ननु चाथर्ववेदविहितो यः क्रतुस्तन्निवृत्त्यर्थमध्वर्युणैकेन कथं विशेषणं न स्यात्; न हि त्तराध्वर्यवः सन्ति? नैतदस्ति; यदि ह्रेतावत् प्रयोजनमभिहितं स्यात् तदाऽनथर्वण इति प्रतिषेधमेव कुर्यात्। लघीयसी हि साक्षात् प्रतिषेधे प्रतीतिर्भवति। त्रयीग्रहणं वा कुर्यात्। यदि चाध्वर्युणा क्रतुर्विशेष्येत तदेषुवज्रावित्यत्रापि स्यात्? इषुवज्रावपि ह्रध्वर्योः क्रतू भवतः; तयोरपि तत्कर्तृकत्वात्। तस्मादध्वर्यूणां यजुर्वेदविदां यो वेदः सोऽध्वर्युशब्देनोपलक्ष्यते। स पुनर्यजुर्वेदः। तत्राध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुरिति। इतिकर्तव्यतोपदेशः प्रयोगश्चानुष्ठानात्मको विधानशब्देनोक्तः। यदि तह्र्रध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवतीति सूत्रार्थस्तदा सूत्रेऽध्वर्युक्रतुशब्दस्यानपुंसकमित्यस्य च द्वन्द्व इतयनेन प्रकृतेन सामानाधिकरण्येन निर्देशो नोपपद्यते। अतोऽध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानामिति वक्तव्यं स्यादित्यत आह - अध्वर्युक्रतुरनपुंसकम् इति। गौणोऽयं निर्देशः इति। गौण इत्यमुख्य औपचारिक इत्यर्थः। अध्वर्युक्रत्ववयवो द्वन्द्व उपचारेणाध्वर्युक्रतुरित्युक्तः। स एवानपुंसकलिङ्गावयवोऽनपुंलकमिति। गौणन्र्दिएशस्तु लाघवार्थो वेदितव्यः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्त्या द्वन्द्व एवोच्येत तदा स नपुसंकम् (2.4.17) इत्यस्यापवादोऽयं विज्ञायेत। अर्काआमेधम् इत्यादि। अर्कश्चाआमेधश्चेत्यर्काआमेधम्। सायाह्नश्चातिरात्रश्चेति सायाह्नातिरात्रम्इषुवज्रौ इत्यादि। इषुवज्रप्रभृतयोऽध्वर्युक्रतवो न सम्भवति, न हि तेषामध्वर्युवेदे विधानम्। किं तर्हि? सामवेदे। राजसूयवाजपेये इति। एतौ राजसूयवाजपेयशब्दौ पुंल्लिङ्गावपि स्तः। तत्र यदा नपुंसकलिङ्गौ प्रयुज्येते तत्रेदं प्रत्युदाहरणम्। सोमयागेषु इति। यत्र यत्र सोमपानं विहितं ते सोमयागाः। तेष्वेव क्रतुशब्दो रूढः। न च दर्शपौर्णमासौ सोमयागौ। अनपुंसकम् (2.4.4) इत्युपादानात् स्वरूपग्रहणमिह न भवति। न हि क्रतुसामान्यो नपुंसकलिङ्गो भवति॥

Prakriyasarvasvam

अध्वर्युरिति यजुर्वेदो लक्ष्यते । तद्विहितसोमयागानामक्लीबानां द्वन्द्व एकवत स्यात् । सायाह्नतिरात्रम् । सामवेदविहितत्वादिषुवज्रौ । क्लीबत्वाद् राजसूय- वाजपेये ।