24004: अध्वर्युक्रतुरनपुंसकम् ============================= **Padacheda:** अध्वर्यु-क्रतुः | S | 1 | 1 | अ-नपुंसकम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A द्वन्द compound of words denoting क्रतु (sacrifices) ordained by यजुर् (अध्वर्यु) Veda, is singular, provided they are never used in the neuter gender Vasu English Translation ------------------------ A द्वन्द compound of words denoting क्रतु (sacrifices) ordained by यजुर् (अध्वर्यु) Veda, is singular, provided they are never used in the neuter gender As, अर्काश्वमेधम् the *Arks* and *Asvamedha* sacrifices,' सायाह्नातिरात्रम् 'the *Sayahna* and *Atiratra* sacrifices. Why do we say '*Yajur*-*veda* sacrifices' ? Observe इषुवज्रौ 'the *lshu* and *Vajra* ceremonies,' उद्भिद्वलभिदौ ॥ Why do we say 'when not in the neuter gender' ? Observe राजसूयवाजपेयौ 'the *Rajasuya* and *Vajapeya* sacrifices.' Why have we दर्शपौर्णमासौ ? Because the word क्रतुः is a technical term applying only to *Soma*-sacrifices and not any sacrifices in general. Therefore, though *Darsa* and *Paurnamasa* are *Yajur*-*veda* ceremonies, they not being *Soma* ceremonies, the present rule, does not apply. Kashika ------- अध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानां द्वन्द्व एकवद् भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्व इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। अध्वर्युक्रतुरिति किम्? इषुवज्रौ। उद्भिद्बलभिदौ। अनपुंसकमिति किम्? राजसूयवाजपेये। इह कस्माद् न भवति — दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः॥ Siddhanta Kaumudi ----------------- यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धर्चादी ॥ Balamanorama ------------ **अध्वर्युक्रतुरनपुंसकम्।** - अध्वर्युक्रतुः । अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकजुर्वेदपरः । तदाह — यजुर्वेद इति । अर्काआमेधमिति । अर्को — महाक्रतुः । अआमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितक्रतू । अर्कस्य च अआमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन्वेदे विहितावित्यत आह — सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह — अर्धर्चादी इति । अध्ययनतः ।अविप्रकृष्टाख्याना॑मिति च्छेदः । 'अध्ययनत' इति तृतीयार्थे तसिः । Padamanjari ----------- अध्वर्युक्रतुरनपुंसकम्॥ अध्वर्युशब्द ऋत्विग्विशेषे प्रसिद्धः, न च तेन क्रतोर्विशेषणमुपपद्यते, न हि सोऽस्ति क्रतुर्यत्राध्वर्योरनन्वयः, नापि सोऽस्ति यत्राध्वर्योरेवान्वय इति मुख्यार्थासम्भवादौपचारिकग्रहणमित्याह - अध्वर्युवेद इति। यजुर्वेद इत्यर्थः। तत्र ह्याध्वर्यवं विधीयते। कर्मस्वरूपस्येतिकर्तव्यतायाः। फलस्य चोपदेशःऊउविधानम्। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानामिति। कथं तर्हि सूत्रे सामानाधिकरण्यमित्याह - अध्वर्युक्रतुरिति। ताद्दशावयवत्वाद् द्वन्द्व एव तथोक्त इत्यर्थः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्या द्वन्द्व एवोच्येत तदा'स नपुंसकम्' इत्यस्यायमपवादो विज्ञायेत। न वाऽबाधेनोपपतौ सत्यां बाधो न्याय्यः। अर्कश्चाश्वमेधश्च अर्काश्वमेधम्। सायाह्नश्चातिरात्रश्च सायाह्नातिरात्रम्। इषुवज्राविति। सामवेदे एषां विधानम्। राजसूयवाजपेयशब्दावर्द्धर्चादिषु पठितौ, ततस्तौ नपुंसकलिङ्गौ प्रत्युदाहरणम्॥ Nyaas ----- `अध्वर्युवेदे` इति। ऐतेनाध्वर्युशब्दनात्र यजुर्वेदो लक्ष्यत इति दर्शयति। अथाष्वर्योरृत्विग्विशेषस्य यः क्रतुरिति क्रतुविशेषणमेवाध्वर्युग्रहणं कस्मान्न विज्ञायते? असम्भवात्; को हि तस्य क्रतुर्भवति ! अपि तु घनव्ययशीलस्य। यद्यपि तस्य क्रतौ कर्त्तृत्वमस्ति तदपि ऋत्विगन्तरेण साधारणमित्यध्वर्युणैकेन तस्य विशेषणमयुक्तम्। ननु चाथर्ववेदविहितो यः क्रतुस्तन्निवृत्त्यर्थमध्वर्युणैकेन कथं विशेषणं न स्यात्; न हि त्तराध्वर्यवः सन्ति? नैतदस्ति; यदि ह्रेतावत् प्रयोजनमभिहितं स्यात् तदाऽनथर्वण इति प्रतिषेधमेव कुर्यात्। लघीयसी हि साक्षात् प्रतिषेधे प्रतीतिर्भवति। त्रयीग्रहणं वा कुर्यात्। यदि चाध्वर्युणा क्रतुर्विशेष्येत तदेषुवज्रावित्यत्रापि स्यात्? इषुवज्रावपि ह्रध्वर्योः क्रतू भवतः; तयोरपि तत्कर्तृकत्वात्। तस्मादध्वर्यूणां यजुर्वेदविदां यो वेदः सोऽध्वर्युशब्देनोपलक्ष्यते। स पुनर्यजुर्वेदः। तत्राध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुरिति। इतिकर्तव्यतोपदेशः प्रयोगश्चानुष्ठानात्मको विधानशब्देनोक्तः। यदि तह्र्रध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवतीति सूत्रार्थस्तदा सूत्रेऽध्वर्युक्रतुशब्दस्यानपुंसकमित्यस्य च द्वन्द्व इतयनेन प्रकृतेन सामानाधिकरण्येन निर्देशो नोपपद्यते। अतोऽध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानामिति वक्तव्यं स्यादित्यत आह - `अध्वर्युक्रतुरनपुंसकम्` इति। `गौणोऽयं निर्देशः` इति। गौण इत्यमुख्य औपचारिक इत्यर्थः। अध्वर्युक्रत्ववयवो द्वन्द्व उपचारेणाध्वर्युक्रतुरित्युक्तः। स एवानपुंसकलिङ्गावयवोऽनपुंलकमिति। गौणन्र्दिएशस्तु लाघवार्थो वेदितव्यः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्त्या द्वन्द्व एवोच्येत तदा `स नपुसंकम्` (2.4.17) इत्यस्यापवादोऽयं विज्ञायेत। `अर्काआमेधम्` इत्यादि। अर्कश्चाआमेधश्चेत्यर्काआमेधम्। सायाह्नश्चातिरात्रश्चेति `सायाह्नातिरात्रम्`।`इषुवज्रौ` इत्यादि। इषुवज्रप्रभृतयोऽध्वर्युक्रतवो न सम्भवति, न हि तेषामध्वर्युवेदे विधानम्। किं तर्हि? सामवेदे। `राजसूयवाजपेये` इति। एतौ राजसूयवाजपेयशब्दौ पुंल्लिङ्गावपि स्तः। तत्र यदा नपुंसकलिङ्गौ प्रयुज्येते तत्रेदं प्रत्युदाहरणम्। `सोमयागेषु` इति। यत्र यत्र सोमपानं विहितं ते सोमयागाः। तेष्वेव क्रतुशब्दो रूढः। न च दर्शपौर्णमासौ सोमयागौ। `अनपुंसकम्` (2.4.4) इत्युपादानात् स्वरूपग्रहणमिह न भवति। न हि क्रतुसामान्यो नपुंसकलिङ्गो भवति॥ Prakriyasarvasvam ----------------- अध्वर्युरिति यजुर्वेदो लक्ष्यते । तद्विहितसोमयागानामक्लीबानां द्वन्द्व एकवत स्यात् । सायाह्नतिरात्रम् । सामवेदविहितत्वादिषुवज्रौ । क्लीबत्वाद् राजसूय- वाजपेये ।