23060: द्वितीया ब्राह्मणे ========================= **Padacheda:** द्वितीया | S | 1 | 1 | ब्राह्मणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The object of the verb दिव् when having the above-mentioned sense of 'dealing' or 'stalking', takes the 2nd case, in the ब्राह्मण literature. Vasu English Translation ------------------------ The object of the verb दिव् when having the above-mentioned sense of 'dealing' or 'stalking', takes the 2nd case, in the ब्राह्मण literature. Ex. गामस्य तदहः सभायां दीव्येयुः (*Maitr*.S.1.6.11) In the Vedic literature the simple verb *div* takes the accusative instead of the genitive. And with *upasargas* it is optional. The *anuvritti* of the word शेष does not extend to this *sutra*, or the following. Bhashya ------- द्वितीया ब्राह्मणे 518 (327 द्वितीयासूत्रम् ॥ 2.3.3 आ.5) (आक्षेपभाष्यम्) किमुदाहरणम्? ॥ (समाधानभाष्यम्) गां निघ्नन्ति। गां प्रदीव्यन्ति। गां सभासद्भ्य उपरहन्ति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति। पूर्वेणाप्येतत्सिद्धम् ॥ (समाधानभाष्यम्) इदं तर्हि - गामस्य तदहः सभायां दीव्येयुः ॥ द्वितीया ॥ 60 ॥ Kashika ------- ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति। गा॑म॒स्य॒ त॑द॑हः॒ स॒भा॑यां॒ दीव्येयुः॒ (मै०सं० १.६.११)। अनुपसर्गस्य षष्ठ्यां प्राप्तायामिदं वचनम्। सोपसर्गस्य तु छन्दसि व्यवस्थितविभाषयापि सिध्यति॥ Siddhanta Kaumudi ----------------- ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥ Padamanjari ----------- द्वितीया ब्राह्मणे॥ मन्त्रव्यतिरिको वेदभागःऊउब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्,'स्वमोर्नपुंसकात्' इति लुक्, ठहन्ऽ इति रुत्वम्। अनुपसर्गस्य नित्यं षष्ठ।लं प्राप्तायामिति।'दिवस्तदर्थस्य' इत्यनेनऽ अथ सोपसर्गस्यापि पूर्वेण षष्ठ।लमपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह - सोपसर्गस्येत्यादि॥ Nyaas ----- `ब्राआहृणे; इति। ब्राआहृणशब्दः शथपथस्याख्या। `ग्रामस्य` इति। शेषषष्ठी। सभायामित्येतदपेक्षया। `तदहः` इति। एतदुहारणम्। `स्वमोर्नपुंसकात्` (7.1.23) इत्यमो लुक्। `अहन्` (8.2.68) इत्यनुवर्तमाने **रोऽसुपि** (8.2.69) इति नकारस्य रेफः, विसर्जनीयः। `दीव्येयुः` इति। लिङ, झेर्जुस्, **अतो येयः** (7.2.80) इतीयादेशः, `लिङ सलोपोऽनन्त्तयस्य` (7.2.79) इति सलोपः। सोपसर्गस्य विभाषया षष्ठआं प्राप्तायां नित्यं द्वितीयाविधानार्थं वचनं कस्मान्न भवतीत्याह - `सोपसर्गस्य` इति। **विभाषोपसर्गे** (2.3.59) इत्यनेन व्यवस्थितविभाषयापि च्छन्दसि नित्यं द्वितीया भविष्यतीति तदर्थकमिदं वचनं नोपपद्यते॥ Prakriyasarvasvam ----------------- द्यूतार्थे दिवः कर्मणि षष्ठ्युक्ता ब्राह्मणे तु द्वितीयैव स्यात् । (गामस्य तदहः सभायां दीव्येयुः ।)