23058: दिवस्तदर्थस्य

Padacheda: दिवः | S | 6 | 1 |

तदर्थस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The object of the verb दिव् when having the above-mentioned sense of ‘dealing’ or ‘stalking’, takes the 6th-Case.

Vasu English Translation

The object of the verb दिव् when having the above-mentioned sense of ‘dealing’ or ‘stalking’, takes the 6th-Case. Ex. शतस्य दीव्यति ‘he stakes or deals in a hundred.’ But not in ब्राह्मणं दीव्यति ‘he jokes with the Brahmana.’

The yoga vibhaga when this root might well have been included in the last aphorism, is for the sake of the succeeding sutras, in which the anuvritti of दिव runs, and not of others.

Kashika

व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर्भवति। शतस्य दीव्यति। सहस्रस्य दीव्यति। तदर्थस्येति किम्? ब्राह्मणं दीव्यति। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥

Balamanorama

दिवस्तदर्थस्य - दिवस्तदर्थस्य पूर्वसूत्रे निर्दिष्टव्यवह्मपणौ तच्छब्देन परामृश्येते । तयोः=व्यवह्मपणोरर्थ एवार्थो यस्येति विग्रहः । तदाह — द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणमर्थो यस्य दिव इति विग्रहः । क्रयेति । क्रयविक्रयविषयकमूल्यसंवादोऽर्थो यस्यदिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणः शेषत्वविवक्षाऽभावात् ‘षष्ठी शेषे’ इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम् । तद्ध्वनयन्नुदाहरति — शतस्य दीव्यतीति । शतमक्षक्रीडनेन, क्रयविक्रयविषयकमूल्यसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः । अत एवद्वितीया ब्राआहृणे॑ इत्युत्तरसूत्रेगामस्य तदहः सभायां दीव्येयुः॑ इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थ॑मित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः ।

Tattvabodhini

दिवस्तदर्थस्य - दिवस्तद । तच्छब्देन व्यवह्मपणौ परामृश्येते, तौ च द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वऽसूत्रे गृहीतावित्याशयेनाह -द्यूते इति । पूर्वसूत्रे एव दिवेः पाठे तदर्थस्येति न कर्तव्यमिति यद्यपि लाघवं, ततावि योगाविभाग उत्तरार्थः । कर्मणीति । इह शेष इति न सम्बध्यते, उत्तरसूत्रे विकल्पारम्भासामर्थ्यात् । अन्यथा षष्ठआ विकल्पितायां तया मुक्ते शेषे विभक्त्यन्तरस्याऽप्राप्त्या वृथैव विकल्पारम्भः स्यादिति भावः । अन्ये त्वाहुः — लाघवात्पूर्वसूत्रे एव दिवो ग्रहणे कर्तव्ये पृथग्योगकरणसामर्थ्यादत्र शेष इति न सम्बध्यते । न चोत्तरार्थत्वापृथग्योगस्य नोक्तार्थज्ञापकत्वमिति वाच्यम् । सङ्कोचे मानाऽभावेन फलद्वयस्यापि सुवचत्वादिति । शेष इत्यस्याऽसम्बन्धादिह त्रिसूत्र्यं तिङन्तमुदाहरति — शतस्य दीव्यतीति ।

Padamanjari

दिवस्तदर्थस्य॥ अत्र’शेष’ इति नानुवर्तते, उतरसूत्रद्वयारम्भसामथ्यत्। इथ पूर्वसूत्र एव दिविरपि कस्मान्न पठितः, एवं हि तदर्थस्येति न वक्तव्यं भवति? तत्राह - योगविभाग इति॥

Nyaas

ब्राआहृणान् दीव्यति इति। स्तौतीत्यर्थः। हलि च (8.2.77) इति दीर्घः। यदि तदर्थस्यैव भविष्यति, पूर्वयोग एव दिवो ग्रहणं कर्त्तुं युक्तं स्यात्। तत्किमर्थो योगविभाग इत्यत आङ - योगविभाग उत्तरार्थः इति॥

Praudhamanorama

तच्छब्देन व्यवहृपणौ परामृश्येते, तौ च द्यूते, क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वसूत्रे गृहीतौ, इत्याशयेनाह—

Prakriyasarvasvam

उक्तार्थयोर्दिवः कर्मणि नित्यं षष्ठी । शतस्य दीव्यति ॥

Sutra Prayogas

  • अदेवीद्बन्धु-भोगानां (भट्टिकाव्यम्): दिवस्तदर्थस्य इति षष्ठी।