23057: व्यवहृपणोः समर्थयोः

Padacheda: व्यवहृ-पणोः | S | 6 | 2 |

समर्थयोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The object of the verbs व्यवहृ and पण् when they ae synonymous, that is when they mean ‘dealing in sale and purchase transactions’ or ‘staking in gambling’ takes the 6th-Case-affix.

Vasu English Translation

The object of the verbs व्यवहृ and पण् when they ae synonymous, that is when they mean ‘dealing in sale and purchase transactions’ or ‘staking in gambling’ takes the 6th-Case-affix. Ex. शतस्य व्यवहरति or पणते ‘he deals in, or stakes hundred.’

Why does not the verb पण take the affix आय् ? It takes आय् when meaning ‘to praise or honor,’ and not in the sense of ‘gambling, or bartering’ &c. Not so here शलाकां व्यवहरति ‘he throws the dice,’ ब्राह्मणान् पणायते ‘he praises the Brahmanas.’ The word शेष is also here understood, so that we have शतं पणते ‘he stakes a hundred.’

Kashika

व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभक्तिर्भवति। द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः। शतस्य व्यवहरति। सहस्रस्य व्यवहरति। शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्माद् न भवति? स्तुत्यर्थस्य पणतेरायप्रत्यय इष्यते। समर्थयोरिति किम्? शलाकां व्यवहरति। परिगणयतीत्यर्थः। ब्राह्मणान् पणायति। स्तौतीत्यर्थः। शेष इत्येव — शतं पणते॥

Siddhanta Kaumudi

शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥

Balamanorama

व्यवहृपणोः समर्थयोः - समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः । शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह — गणनेत्यर्थ इति । वस्तुतःकर्मीभूतशलाकासंबन्धिगणनेति फलितम् । अत्र षष्ठ्याः पुनर्विध्यभावादस्त्येव समास इति भावः । ब्राआहृणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवाहारार्थ इत्याह — स्तुतिरित्यर्थ इति । वस्तुतःकर्मीभूतब्राआहृणसम्बन्धिनी स्तुतिरित्यर्थः । अत्रापि अस्त्येव समास इति भावः ।

Tattvabodhini

व्यवहृपणोः समर्थयोः - पणनमिति ।स्तुतावेव॑ इति वक्ष्यमाणत्वादायस्याऽभावः । ब्राआहृणपणनमिति ।आयादय आर्धधातुके वा॑ इत्यायस्य विकल्पः ।

Padamanjari

व्यवहृपणोः समर्थयोः॥ समर्थयोरिति। संशब्दो वृतौ समानार्थः, समशब्दस्य वा निपातनात्पररुपमिति भावः। संबद्धार्थयोरिति तु न विज्ञायते, व्याख्यानात्। संभवति हि व्यवहृपणोर्हेतुहेतुमद्भावः संबन्धः। शतस्य व्यवहरतीति। शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः। शलाकां व्यवहरतिगणयतीत्यर्थः॥

Nyaas

शतस्य व्यवहरति इति। शतं क्रयविक्रयेण विनियुङ्क्ते, दीव्यतीति वेत्यर्थः। शतस्य पणते इत्यत्रापि स एवार्थः। अनुदात्तेत्वादात्मनेपदम्,। आयप्रत्ययः कस्मान्न भवति इति। गकपूधूप (3.1.28) इत्यादिना प्राप्नोतीति भावः। स्तुत्यर्थस्य इत्यादि। यद्यपि पण व्यवहारे स्तुतौ च`(धातुपाठः-439) इति स्तुतिव्यवहारयोः पणिः पठते; तथापि स्तुत्यर्थस्यैव पणतेरायप्रत्यय इष्यते, न व्यवहारार्थस्य। तत्र वृत्तिकारः स्वयमेव युकिंत वक्ष्यति। स्तुत्यर्थ्येन पणिना साहचर्यात् तदर्थ एव पणिरायमुत्पादयति,न व्यवहारार्थ इति। `शलाकां व्यवहरति इति। परिगणयतीत्यर्थः। अत्र व्यवहारार्थे वर्तत इत्यसमानार्थत्वम्। ब्राआहृणान् पणयति इति। स्तौतीत्यर्थः। पणयीत्यस्यार्थे व्यवहरतेर्वृत्तिर्नास्तीत्यसमानार्थता।ओ।

Praudhamanorama

कर्मणीति। इह ‘शेषे’ इति न सम्बध्यते उत्तरसूत्रद्वयारम्भादिति भावः। अत एवेह त्रिसूत्र्या तिङन्तमुदाहरति—

Prakriyasarvasvam

द्यूते वाणिज्ये च समानार्थयोरनयोः कर्मणि षष्ठी । शतस्य व्यवहरते द्यूते वाणिज्ये वा । शतं विनियुङ्क्ते इत्यर्थः । एवं शतस्य पणते । आभ्यामन्यत्र पणान व्यवहरति । गणयतीत्यर्थः । कृष्णं पणायति । स्तौतीत्यर्थः ॥

Sutra Prayogas

  • प्राणानामपणिष्टाऽयं (भट्टिकाव्यम्): व्यवहृ-पणोः समर्थयोः इति पष्टी।