23058: दिवस्तदर्थस्य ==================== **Padacheda:** दिवः | S | 6 | 1 | तदर्थस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The object of the verb दिव् when having the above-mentioned sense of 'dealing' or 'stalking', takes the 6th-Case. Vasu English Translation ------------------------ The object of the verb दिव् when having the above-mentioned sense of 'dealing' or 'stalking', takes the 6th-Case. Ex. शतस्य दीव्यति 'he stakes or deals in a hundred.' But not in ब्राह्मणं दीव्यति 'he jokes with the *Brahmana*.' The *yoga* *vibhaga* when this root might well have been included in the last aphorism, is for the sake of the succeeding *sutras*, in which the *anuvritti* of दिव runs, and not of others. Kashika ------- व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर्भवति। शतस्य दीव्यति। सहस्रस्य दीव्यति। तदर्थस्येति किम्? ब्राह्मणं दीव्यति। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥ Balamanorama ------------ **दिवस्तदर्थस्य** - दिवस्तदर्थस्य पूर्वसूत्रे निर्दिष्टव्यवह्मपणौ तच्छब्देन परामृश्येते । तयोः=व्यवह्मपणोरर्थ एवार्थो यस्येति विग्रहः । तदाह — द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणमर्थो यस्य दिव इति विग्रहः । क्रयेति । क्रयविक्रयविषयकमूल्यसंवादोऽर्थो यस्यदिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणः शेषत्वविवक्षाऽभावात् 'षष्ठी शेषे' इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम् । तद्ध्वनयन्नुदाहरति — शतस्य दीव्यतीति । शतमक्षक्रीडनेन, क्रयविक्रयविषयकमूल्यसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यननुवृत्तेः कर्मत्वप्रकारक एव बोधः । अत एवद्वितीया ब्राआहृणे॑ इत्युत्तरसूत्रेगामस्य तदहः सभायां दीव्येयुः॑ इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थ॑मित्युक्तं भाष्यकैयटयोः सङ्गच्छत इत्यन्यत्र विस्तरः । Tattvabodhini ------------- **दिवस्तदर्थस्य** - दिवस्तद । तच्छब्देन व्यवह्मपणौ परामृश्येते, तौ च द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वऽसूत्रे गृहीतावित्याशयेनाह -द्यूते इति । पूर्वसूत्रे एव दिवेः पाठे तदर्थस्येति न कर्तव्यमिति यद्यपि लाघवं, ततावि योगाविभाग उत्तरार्थः । कर्मणीति । इह शेष इति न सम्बध्यते, उत्तरसूत्रे विकल्पारम्भासामर्थ्यात् । अन्यथा षष्ठआ विकल्पितायां तया मुक्ते शेषे विभक्त्यन्तरस्याऽप्राप्त्या वृथैव विकल्पारम्भः स्यादिति भावः । अन्ये त्वाहुः — लाघवात्पूर्वसूत्रे एव दिवो ग्रहणे कर्तव्ये पृथग्योगकरणसामर्थ्यादत्र शेष इति न सम्बध्यते । न चोत्तरार्थत्वापृथग्योगस्य नोक्तार्थज्ञापकत्वमिति वाच्यम् । सङ्कोचे मानाऽभावेन फलद्वयस्यापि सुवचत्वादिति । शेष इत्यस्याऽसम्बन्धादिह त्रिसूत्र्यं तिङन्तमुदाहरति — शतस्य दीव्यतीति । Padamanjari ----------- दिवस्तदर्थस्य॥ अत्र'शेष' इति नानुवर्तते, उतरसूत्रद्वयारम्भसामथ्यत्। इथ पूर्वसूत्र एव दिविरपि कस्मान्न पठितः, एवं हि तदर्थस्येति न वक्तव्यं भवति? तत्राह - योगविभाग इति॥ Nyaas ----- `ब्राआहृणान् दीव्यति` इति। स्तौतीत्यर्थः। `हलि च` (8.2.77) इति दीर्घः। यदि तदर्थस्यैव भविष्यति, पूर्वयोग एव दिवो ग्रहणं कर्त्तुं युक्तं स्यात्। तत्किमर्थो योगविभाग इत्यत आङ - `योगविभाग उत्तरार्थः` इति॥ Praudhamanorama --------------- तच्छब्देन व्यवहृपणौ परामृश्येते, तौ च द्यूते, क्रयविक्रयव्यवहारे च तुल्यार्थौ पूर्वसूत्रे गृहीतौ, इत्याशयेनाह— Prakriyasarvasvam ----------------- उक्तार्थयोर्दिवः कर्मणि नित्यं षष्ठी । शतस्य दीव्यति ॥ Sutra Prayogas -------------- * **अदेवीद्बन्धु-भोगानां** (भट्टिकाव्यम्): `दिवस्तदर्थस्य` इति षष्ठी।