23056: जासिनिप्रहणनाटक्राथपिषां हिंसायाम्

Padacheda: जासि-निप्रहण-नाट-क्राथ-पिषाम् | S | 6 | 3 |

हिंसायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The object of the verbs जासि ‘to strike’, ‘to hurt’, हन् ‘to strike’ preceded by नि and ग्र , नाट् ‘to injure’, क्राथ and पिष when they mean ‘to injure’, takes the 6th-Case-affix.

Vasu English Translation

The object of the verbs जासि ‘to strike’, ‘to hurt’, हन् ‘to strike’ preceded by नि and ग्र , नाट् ‘to injure’, क्राथ and पिष when they mean ‘to injure’, takes the 6th-Case-affix. चौरस्य उज्जासयति, निप्रहन्ति, निहन्ति, प्रहन्ति, प्रणिहन्ति, उन्नाटयति, क्राथयति, पिनष्टि वा, ‘he injures the thief.’

The root जसु belonging to the Churadi class should be taken, and not Divadi. हन with the prepositions pra and ni may be taken in any order. The root क्रथ् takes in the causative vriddhi irregularly. The verb is Bhvadi and falls into the subdivision ghatadi, and is called there a मित् verb; all मित् verbs shorten their penultimate before the causative affix णिच् (6.4.92). Thus क्राथ is an irregularity.

Why do we say ‘when meaning to injure’? Observe धानाः पिनष्टि ‘he pounds the barley.’

The word शेष is also understood here as चौरमुज्जासयति. Only these govern the genitive, not so here चौरं हिनस्ति. चौरं विहन्ति ॥

Kashika

जासि निप्रहण नाट क्राथ पिष् इत्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके षष्ठी विभक्तिर्भवति। जसु हिंसायाम् जसु ताडने इति च चुरादौ पठ्यते, तस्येदं ग्रहणम्, न दैवादिकस्य जसु मोक्षणे इत्यस्य। चौरस्योज्जासयति। वृषलस्योज्जासयति। निप्रहण इति सङ्घातविगृहीतविपर्यस्तस्य ग्रहणम्। चौरस्य निप्रहन्ति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्योन्नाटयति। वृषलस्योन्नाटयति। चौरस्योत्क्राथयति। वृषलस्य क्राथयति। निपातनाद् वृद्धिः। अयं हि घटादौ पठ्यते, श्रथ क्नथ क्रथ क्लथ हिंसार्थाः इति। तत्र घटादयो मितः इति मित्संज्ञायां मितां ह्रस्वः (६.४.९२) इति ह्रस्वत्वं स्यात्। चौरस्य पिनष्टि। वृषलस्य पिनष्टि। हिंसायामिति किम्? धानाः पिनष्टि। शेष इत्येव — चौरमुज्जासयति। एषामिति किम्? चौरं हिनस्ति। निप्रहण इति किम्? चौरं विहन्ति॥

Siddhanta Kaumudi

हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् ॥

Balamanorama

जासिनिप्रहणनाटक्राथपिषां हिंसायाम् - जासिनिप्र । कर्मणि शेषे इत्यनुवर्तते । तदाह — हिंसार्थानामित्यादिना । इदमपि समासाऽभावार्थमेव । चौरस्योज्जासनमिति । ‘जसु ताडने’ ‘जसु हिसायाम्’ इति चुरादौ । वस्तुतः कर्मीभूतचौरसंबन्धिनी हिंसेत्यर्थः । ‘जसु मोक्षणे’ इति दैवादिकस्य तु न ग्रहणम्, हिंसार्थत्वाऽभावात्, जासीति निर्देशाच्च । निप्राविति । निप्रहणेति निप्रपूर्वस्य हनधातोर्निदेशः । तत्र नि प्र इत्येतौ समस्तौ गृह्रेते, प्रनीत्येवं व्युक्रमेण च गृह्रेते, प्रेति नीति च पृथगपि गृह्रेते, व्याख्यानादित्यर्थः । समस्तावुदाहरति — चौरस्य निप्रहणनमिति । वस्तुतःकर्मीभूतचौरसंबन्धि हननमित्यर्थः ।हन्तेरत्पूर्वस्ये॑ति णत्वम् । विपर्यस्तावुदाहरति — प्रणिहननमिति ।नेर्गदे॑ति णत्वम् । हन्तेर्नकारस्य तु न णत्वम्, ‘अट्कुप्वाङ्’ इति नियमात्, नेर्नकारस्य तदनन्तर्भावात् । व्यस्तावुदाहरति — निहननं प्रहणमनं वेति । निमित्ताऽभावान्निहननमित्यत्र ‘बन्तेरत्पूर्वस्य’ इति णत्वं न । चुरादिरिति । ‘नट नृत्तौ’ इति तु न गृह्रते, नाटेति दीर्घोच्चारणादिति भावः । चौरस्योन्नाटनमिति । उपसर्गवशान्नाटेर्हिसायां वृत्तिरिति भावः । चौरस्य क्राथनमिति । ‘क्रथ हिंसायाम्’ इति घटादौ । ‘घटादयो मितः’ इति तस्य मित्त्वेऽपि ‘मितां ह्रस्वः’ इति न भवति, इह दीर्घनिपातनात् । वृषलस्य पेषणमिति । हिसेत्यर्थः । व्यपह्मपणोः । शेषपूरणेन सूत्रं व्याचष्टे — शेषे कर्मणि षष्ठी स्यादिति । समौ तुल्यौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकस्य व्यवपूर्वकह्मञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनिवृत्त्यर्थमेव । ननुपण व्यवहारे स्तुतौ चे॑ति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह — द्यते इति । द्यूते=अक्षैः क्रीडने, क्रयविक्रयविषयकमूल्यसंवादे चानयोः=व्यवह्मपणोरेकार्थकत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृह्णातीत्यर्थः । केवलव्यवहारार्थकत्वेऽकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसंबन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषयकमूल्यसंवादेन ग्रहणं वेत्यर्थः ।

Tattvabodhini

जासिनिप्रहणनाटक्राथपिषां हिंसायाम् - जासि ।जसु ताडने,॑जसु हिंसायाम् इति च चुरादिस्तस्येदं ग्रहणं न तु दैवादिकस्यजसु मोक्षणे॑ इत्यस्य, जासीति निर्देशात्,हिंसायाम् इति वचनाच्च । निप्रहणनमिति ।हन्तेरत्पूर्वस्य॑इति णत्वम् । प्रणीति ।नेर्गद — ॑इति णत्वम् । चुरादिरिति ।नट नृत्तौ॑ इति तु गृह्रते, दीर्घनिर्देशादिति भावः । क्राथनमिति ।क्रथ हिंसायाम्इति घटादौ पठते, तस्य मित्त्वेऽपि इह निपातनाद्वृद्धिः । मित्त्वफलं तु निपातनात्परत्वात्चिण्णमुलोः॑ इति दीर्घे चरितार्थमिति घटादौ वक्ष्यति । यत्तु हरदत्तेनोक्तम् -॒॒घटादिपाठोघटादयः षितः॑इत्यातिदेशिकषित्त्वे अङ्यथा स्यादित्येतदर्थइति । तन्मन्दम् ।घटादयः षितः॑ इति हि मध्ये सूत्रितम् । तेन पूर्वेषां त्वरत्यन्तानामेव षित्त्वं, न तु ज्वरा दीनां परेषामिति । अतएवत्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च॑ इति घटादौ वक्ष्यति ।

Padamanjari

जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥ न दैवादिकस्येति।’जासि’ इति निर्देशाद्’हिसायाम्’ इति वचनाच्च निप्राभ्यां यथासंभवमुपसृष्टो हनो निप्रहणः,’हन्तेरत्पूर्वस्य’ इति णत्वम्। प्रणिहन्तीति।’नेर्गद’ इत्यादिना णत्वम्।’नट अवस्यन्दने’ चुरादिः,’नट नृतौ’ इत्यस्य तु घटादिपठितस्याग्रहणम्, विकृतनिर्देशात्। निपातनाद्वद्धिरिति। घटादिपाठस्तु’घटादयः षितः’ इत्यातिदेशिकोऽङ्यथा स्यात्,’चिण्णमुलोर्दीर्घो’ न्यतरस्याम्ऽ इति दीर्घश्च यथा स्यादित्येवमर्थः॥

Nyaas

न दैवादिकस्य इति। हिंसायामिति वचनात्। अस्य च तत्राप्रवृत्तेः। अत एव हि ण्यन्तस्यैव ग्रहणं भविष्यति, तत्किमर्थो ण्यन्तस्य निर्देश इति? कः पुनराह च्यन्तस्य निर्देश इति? अत्र हीकारोऽयं धातुनिर्देशार्थः कृतः, इक्श्तिपौ धातुनिर्देशे (वा।319) इति। यद्येवम्, जासीत्याकारः कथं श्रूयते? उच्यते - आकारमुच्चार्य विकृतनिर्देशः कृतः, विकृतनिर्देशस्तू यत्रास्यैतद्रूपं भवति तत्रैव यथा स्यादिह मा भूत्, - दस्युमजीजसदिति। लुङ, णिश्रि (3.1.48) इत्यादिना च्लेश्चङ, णौ चङयुपधाया ह्रस्वः (7.4.1) , चङि (6.1.11) इति द्विर्वचनम्, सन्वल्लघुनि (7.4.93) इत्यादिना सन्वद्भावः, सन्यतः (7.4.79) इतीत्वम्, दीर्घो लघोः (7.4.94) इति दीर्घः। नाटक्राथयोरपि वकृतानिर्देशस्यैतदेव प्रयोजनम्। इह मा भूत - दस्युमनीनटदिति, दस्युमचिक्रथदिति। क्रथेर्वृद्धिश्च प्रयोजनम्, एतच्च निपातनाद्वृद्धिः इति ब्राउवता वृत्तिकारेण दर्शितम्। {निप्रहन्ति`इति वृत्तौ पाठः} निप्रहन् इति। धातूपसर्गानिर्देशमात्रमिह तन्त्रम्। न तूपसर्गसयोः संघातः, नाष्यानुपूर्वी; तयोरविवक्षितत्वात्। तेन निप्रशब्दयोव्र्यस्तसमस्तयोर्विपरीतानुपूर्वीकयोश्च ग्रहणं विज्ञायत इत्याह - संघातविगृहीतविपर्यस्तस्य ग्रहणम् इति। चौरस्य प्रणिहन्ति इति। नेर्गदनद` (8.4.17) इत्यादिना णत्वम्। चौरस्योन्नाटयति इति। नट अवस्पन्दने (धातुपाठः- (7.2.116) इति वृद्धि सिद्धा; तत्किमर्थमुच्यते - निपातनाद्वृद्धिरिति? अत आह - अयं हि इत्यादि। ह्रस्वस्य स्यात् इति। मितां ह्रस्वः (6.4.92) इत्यनेन। चौरस्य पिनष्टि इति। ` पिष्लृ सञ्चूर्णने` (धातुपाठः-1452) रुधादित्वात् श्नम्। धानाः पिनष्टि इति। अत्र हिंसा नास्ति; तस्या प्राणिधर्मत्वात्। इदञ्चाभावकर्त्तृकाणामपि यथा स्यादित्येवमर्थमारब्धम् चौरस्योजासयति देवदत्तः॥

Prakriyasarvasvam

हिंसार्थानामेषां कर्मणि षष्ठी । <karika>कंसस्योज्जासयत्येष निप्रघ्नन् मल्लसंसदाम् । अत्र निघ्नन्नपि प्रघ्नन् प्रणिघ्नन्निति चेष्यते ॥ ५५३ ॥</karika> <karika>द्विपामुन्नाटयत्येष क्रथयत्यमरद्रुहाम् । पिनष्टि चासौ दुष्टानां क्षमां निहन्तीत्यहंसने ॥ ५५४ ॥</karika>

Sutra Prayogas

  • मृगम् (किरातार्जुनीयम्): जासिनिप्रहणनाटक्राथपिषां हिंसायाम् इति षष्ठी न भवति।

  • नः (किरातार्जुनीयम्): जासिनिप्रहणनाटक्राथपिषां हिंसायाम् इति कर्मणि षष्ठी।

  • भुवनद्वषाम् (शिशुपालवधम्): जासिनिप्रहणनाटक्राथपिषां हिंसायाम् इत्यादिना कर्मणि शेषे षष्ठी।

  • जगद्रहाम् (शिशुपालवधम्): जासिनिप्रहण- इत्यादिना कर्मणि शेषे षष्ठी।

  • द्विषतः (शिशुपालवधम्): जासिनिग्रहण- इति सूत्रे निहन्तेः कर्मणि द्वितीया।

  • निहन्मः (भट्टिकाव्यम्): जासि निप्रहण इति सङ्घातविगृहीतविपर्यस्तग्रहणात् षष्ठी न भवति।

  • ब्रह्म-द्विषस्ते (भट्टिकाव्यम्): जासि-नि- इत्यादिना कर्मणि षष्ठी।

  • मन्योरुज्जासयाऽऽत्मनः (भट्टिकाव्यम्): जासि निप्रहण इति कर्मणि षष्ठी।