23055: आशिषि नाथः

Padacheda: आशिषि | S | 7 | 1 |

नाथः | S | 6 | 1 |

Sutrartha


Vasu English Summary

Of the verb नाथ् when meaning ‘to bless’, the object takes the 6th-Case-affix.

Vasu English Translation

Of the verb नाथ् when meaning ‘to bless’, the object takes the 6th-Case-affix. Ex. मधुनो नाथते ‘he blesses the honey.’ But माणवकमुपनाथति, अंग पुत्रीकाधीष्व ‘he solicits manavaka saying (child) son, study.’ Here नाथ does not mean to bless, and so it takes the accusative case.

Kashika

नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु पठ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति। सर्पिषो नाथते। मधुनो नाथते। आशिषीति किम्? माणवकमुपनाथति, अङ्ग पुत्रकाधीष्व॥

Siddhanta Kaumudi

आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् ? माणवकनाथनम् । तत्संबन्धिनी याच्ञेत्यर्थः ॥

Balamanorama

आशिषि नाथः - आशिषि नाथः । शेषे, कर्मणि इति चानुवर्तते । तदाह — आशीरर्थस्येति । इदमपि समासाऽभावार्थमेव । सर्पिषो नाथनमिति । इदं मे भूयादितीच्छा आशासनम् । तदेवाशीर्नाथतेरर्थः । वस्तुतःकर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः ।

Tattvabodhini

आशिषि नाथः - चौरज्वर इति । इह चौरशब्दात्रुजार्थानाम् — ॑ इति षष्ठआ अप्रवृत्तौषष्ठी शेषे॑ इत्यनेन षष्ठआं॑ षष्ठीति समासो भवत्येवेति भावः । सर्पिषो नाथनमिति । सर्पिर्मे भूयादित्याशासनमित्यर्थः । माणवकनाथनमिति । यद्यपि कर्मत्वविवक्षायांकर्तृकर्मणोः॑ इति यदा षष्ठी, तदा आशिष्यपि समासोऽस्त्येव, तथापि तत्रगतिकारकेपपदात्कृत् इति कृदुत्तरपदप्रकृतिस्वरः । समासान्तोदात्तत्वं तु याच्ञादावेव न त्वाशिषीति निष्कर्ष इति कौस्तुभे स्थितम् ।

Padamanjari

आशिषि नाथः॥ नाथत इति। ठाशिषि नाथःऽ इत्युपसंख्यानादात्मनेपदम्, तच्चानुदातेत्वादेव सिद्धे नियमार्थम् - आशिष्येव नाथ इति, तेन प्रत्युदाहरणे परस्मैपदम्॥

Prakriyasarvasvam

आशीरर्थस्य नाथतेः कर्मणि षष्ठी । श्रियो नाथते । श्रीर्भूयादित्याशास्त इत्यर्थः । अन्यत्र हरिं नाथति । याचतीत्यर्थः ॥

Sutra Prayogas

  • नाथस्व (भट्टिकाव्यम्): आशिषि नाथः इति कर्मणि पष्ठी।