23038: षष्ठी चानादरे

Padacheda: षष्ठी | S | 1 | 1 |

च | S | 0 | 0 |

अनादरे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The 6th-Case-affix is used (as well as the 7th), when disregard is to be shown after that by whose action the time of another action is indicated.

Vasu English Translation

The 6th-Case-affix is used (as well as the 7th), when disregard is to be shown after that by whose action the time of another action is indicated. This is Genitive Absolute. रुदतः रुदति वा प्राव्राजीत् ‘in spite of her weeping, he went away.’ The force of this genitive is that of the English word ‘not withstanding’ ‘in spite of’ ‘for all,’ &c., नन्दाः पशव इव हताः पश्यतो राक्षसस्य ‘the Nandas were killed like so many beasts Rakshasa looking on,’ (not-with-standing that Rakshasa was looking on).

Kashika

पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात् सापि भवति। अनादराधिके भावलक्षणे भाववतः षष्ठीसप्तम्यौ विभक्तीभवतः। रुदतः प्राव्राजीत्। रुदति प्राव्राजीत्। क्रोशतः प्राव्राजीत्। क्रोशति प्राव्राजीत्। क्रोशन्तमनादृत्य प्रव्रजित इत्यर्थः॥

Siddhanta Kaumudi

अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥

Balamanorama

षष्ठी चानादरे - षष्ठी चानादरे । चातसप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । यस्य चेति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह — अनादराधिक्ये इति । अनादरोऽधिको यस्मादिति विग्रहः । रुदति रुदत इति ।कदा संन्यस्तवा॑निति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः । वर्तमानरोदनक्रियाविशिष्टपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमित्यर्थः ।

Tattvabodhini

षष्ठी चानादरे - षष्ठी चानादरे । अनादर इति ।यस्य च भावेन॑ इत्यनेन सप्तमी । अनादरे सति यो भावं लक्षयतीति । तदेत्फलितमाह अनादराधिक्य इति । केवलभावलक्षणे सप्तम्येव, अनादराधिक्ये तु षष्ठीसप्तम्याविति निष्कर्षः ।

Padamanjari

षष्ठी चानादरे॥ ठनादरेऽ इति पूर्वेण सप्तमी, एतच्च भावलक्षणभावस्य विशेषणम्, यश्चानादरे सति भावलक्षणः, सोऽनादराधिको भवतीत्याह - अनादराधिक इति। अनादरविषिष्टेऽनाद्रियमाण इत्यर्थः। रुदतः प्राव्राजीदिति। पित्रादिकस्ये रोदनमनाद्दत्य प्रव्रज्यां कृतवानित्यर्थः॥

Nyaas

अनादरः तिरस्कारः, परिभव इत्यर्थः। रुदतः इति। रुदिर् अश्रुविमोचने (धातुपाठः-1067) शतृप्रत्ययः॥

Prakriyasarvasvam

अस्मिन् द्योत्ये सति सप्तमीस्थाने षष्ठी सप्तमी च स्यात् । पश्यतो मे हरति, पश्यति मयि वा ॥

Sutra Prayogas

  • तस्मिन् (रघुवंशम्): षष्ठी चानादरे इति सप्तमी।

  • मिषताम् (कुमारसम्भवम्): षष्ठी चानादरे इति षष्ठी।

  • हरिसखाप्सरसां (किरातार्जुनीयम्): षष्ठी चानादरे इति षष्ठी।

  • मिषतां (शिशुपालवधम्): षष्टी चानादरे इति विकल्पाद्भावलक्षणे षष्ठी।

  • तस्मिन्वदति (भट्टिकाव्यम्): षष्ठी चानादरे इति चकारात्सप्तमी भवति।