23037: यस्य च भावेन भावलक्षणम्¶
Padacheda: यस्य | S | 6 | 1 |
च | S | 0 | 0 |
भावेन | S | 3 | 1 |
भाव-लक्षणम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
By the action (भाव) of whatsoever, the time of another action is indicated, that takes the 7th case-affix.
Vasu English Translation¶
By the action (भाव) of whatsoever, the time of another action is indicated, that takes the 7th case-affix. This is Locative Absolute. गोषु दुह्यमानासु गतः ‘the cows being milked, he went away’ दुग्धास्वागतः ‘and returned when they were milked’. अग्निषु हूयमानेषु गतः, हुतेष्वागतः.
Why do we say ‘by the action of whatsoever’? Observe यो जटाभिः स भुक्ते. Why have we used the word ‘action’ twice? Witness यो भुक्ते स देवदत्तः.
Bhashya¶
यस्य च भावेन भावलक्षणम् 495 (318 उपपदसप्तमीसूत्रम् ॥ 2.3.2 आ.13) (भूयोदर्शनाभावेसप्तमीसाधनाधिकरणम्) (1518 वार्तिकम् ॥ 1 ॥) - भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसंख्यानम् - (भाष्यम्) भावलक्षणे सप्तमीविधाने अभावलक्षण उपसंख्यानं कर्तव्यम्। अग्निषु हूयमानेषु गतः, हुतेष्वागतः। गोषु दुह्यमानासु गतः, दुग्धास्वागतः ॥ किं पुनः कारणं न सिध्यति?। लक्षणं नाम तद्भवति येन पुनः पुनर्लक्ष्यते। सकृच्चासौ कथं चिदग्निषु हूयमानेषु प्रस्थितः, हुतेष्वागतः। गोषु दुह्यमानासु प्रस्थितः, दुग्धास्वागतः ॥ (1512 न्यासान्तरेण समाधानवार्तिकम् 9 ) - सिद्धं तु भावप्रवृत्तौ यस्य भावारम्भवचनात् - (भाष्यम्) सिद्धमेतत् ॥ कथम्?। यस्य भावप्रवृत्तौ द्वितीयो भाव आरभ्यते तत्र सप्तमी वक्तव्या ॥ (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते ॥ (समाधानभाष्यम्) यथान्यासमेवास्तु ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तम् - ()भावलक्षणे सप्तमीविधानेऽभावलक्षण उपसंख्यानम्() इति ॥ (समाधानभाष्यम्) नैष दोषः। न खल्ववश्यं तदेव लक्षणं भवति येन पुनःपुनर्लक्ष्यते। सकृदपि यन्निमित्तत्वाय कल्पते तदपि लक्षणं भवति। तद्यथा - अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति। सकृदसौ कमण्डलुपाणिर्दृष्टश्छात्रस्तस्य तदेव लक्षणं भवति ॥ यस्य च ॥ 37 ॥
Kashika¶
सप्तमीति वर्तते। भावः क्रिया। यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर्भवति। प्रसिद्धा च क्रिया क्रियान्तरं लक्षयति। गोषु दुह्यमानासु गतः। दुग्धास्वागतः। अग्निषु हूयमानेषु गतः। हुतेष्वागतः। भावेनेति किम्? यो जटाभिः, स भुङ्क्ते। पुनर्भावग्रहणं किम्? यो भुङ्क्ते, स देवदत्तः॥
Siddhanta Kaumudi¶
यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ।<!अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च !> (वार्तिकम्) ॥ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥
Balamanorama¶
यस्य च भावेन भावलक्षणम् - यस्य च । भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे — यस्य क्रिययेति । क्रिया च कत्र्राश्रया कर्माश्रया च । तत्र कर्माश्रयामुदाहरति — गोष्विति । देवदत्तः कदा गत इति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्व संबन्धे सप्तमी । शेषषष्ठपवादः । वर्तमानदोहनविशिष्टाभिर्गोभिज्र्ञाप्यगमनवानित्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्षकता । गवां तु तदाश्रयतया । ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । ‘दुग्धासु गत’ इत्यत्र तु अतीतदोहनविशिष्टाभिर्गोभिज्र्ञाप्यमानगमनवानित्यर्थः । गोदोहोत्तरकाले गत इति फलितम् । कर्तृगतक्रियायास्तु ब्राह्मणेष्वधीयानेषु गतः इत्युदाहार्यम् । अत्र यदवश्यं पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किंतु सकृज्ज्ञापकमपि । यथा-यं कमण्लुपाणिं भवानद्रीक्षीत्स छात्र इति । यद्यपि सकृदसौ कमण्डलुपाणिर्दृष्टस्तथापि तस्य कमण्डलुर्लक्षणं भवत्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम् ।उदिते आदित्ये जुहोती॑त्यत्र तु सामीपिकमधिकरणत्वं सप्तम्यर्थः । उदितादित्यसमीपकाल इत्यर्थः । आदित्योदयोत्तरसमीपकाल इति पर्यवसन्नोऽर्थः । ‘उपरागे रुआआयात्’ इत्यत्र तु उपरागपदेन उपरागाश्रयकालो लक्ष्यत इत्यधिकरणसप्तम्येवेत्यन्यत्र विस्तरः ।
Tattvabodhini¶
यस्य च भावेन भावलक्षणम् - यस्य च । निज्र्ञातकाला हि क्रिया अनिज्र्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणं, तत्र प्रसिद्धक्रियाश्रययोः कर्तृकर्मणोर्वाचकाद्ब्राआहृणादिशब्दाल्लक्ष्यलक्षणभावसम्बन्धे षष्ठआं प्राप्तांयामियं सप्तमी । लक्षणकत्वमिह क्रियायाः साक्षात्, आश्रयस्य तु ब्राआहृणादेः क्रियाद्वारेणेति बोध्यम् ।ब्राआहृणेष्वधीयानेषु गत॑ इति कर्तृर्युदाहरणम् । कर्मण्याह — गोष्विति ।अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैवरीत्ये च । अर्हाणामित्यादि । यस्यां क्रियायां ये उचितास्ते अर्हाः । तेषां कर्तृत्वे विवक्षिते सति तत्र सप्तमी वाच्या । तथा यस्यां क्रियायां येषां कर्तृत्वमनुचितं तेषामकर्तृत्वे विवक्षिते च सप्तमी वाच्या । तथा तद्वैपरीत्ये=येषां कर्तृत्वमुचितं तेषामकर्तृत्वे, येषां तु नोचितं तेषां कर्तृत्वे च सप्तमी वाच्येत्यर्थः । आद्यमुदाहरति -सत्सु तरत्स्विति । सन्तो हि तरणक्रियाऽर्हाः कर्तराश्चष द्वितीयमुदाहरति -असुत्सु तिष्ठत्स्विति । अत्र तरणक्रियायामसतामनर्हत्वमकर्तृत्वं च तिष्ठत्स्वित्यनेन द्योत्यते । तद्वैपरीत्ये प्रथममुदाहरति-सत्सु तिष्ठत्स्विति । सतां हि तरणमुचितं, तेषां चाऽर्तृत्वं तिष्ठत्स्वित्यनेन गम्यते । द्वितीयमुदाहरति — असत्सु तरत्स्वति । असतां हि तरणमनुचितं, तेषां च कर्तृत्वं तरत्सु इत्यनेन गम्यते । यद्यपीदं॒यस्य च भावेन -॑इत्येव सिद्धं, तथापि लक्ष्य लक्षणभावाऽविवक्षायां सप्तम्यर्थमिदमिति कैयटादयः । तत्त्वतस्तु व्यर्थमेवेदमित्यन्ये ।
Padamanjari¶
यस्य च भावेन भावलक्षणम्॥ इह भूयो दर्शनाश्रयो लक्ष्यलक्षणभावः, यथा - अग्निधूमयोः, ततश्चोदित आदित्ये तमो नष्टम्, उदिते चन्द्रमसि समुद्रः प्रवृद्ध इत्यादावेव स्याद्; त्वग्निषु हूयमानेषु गत इत्यग्निहवनं यदा गमनेन सह पुनः पुनर्न द्दष्टचनं तदा न ततस्य लक्षणमितीह न स्यादित्याशङ्क्याह - प्रसिद्धा च क्रियेति। प्रसिद्धिरेव क्रियायाः क्रियां प्रति लक्षणत्वे उपयुज्यते, न पुनर्दर्शनम्, एतदुक्तं भवति - निर्ज्ञातकाला क्रिया अनिर्ज्ञाताया क्रियायाः सकृदपि कालपरिच्छेदहेतुत्वेनोपाता भवत्येव लक्षणमिति॥
Nyaas¶
कीदृशी पुनः क्रिया क्रियान्तरं लक्षयतीत्य त आह - प्रसिद्धा च इत्यादि। चकारोऽवधारणार्थः, प्रसिद्धैवेत्यर्थः। न हि स्वयमप्रसिद्धं परस्य लक्षणमुपपद्यते। अथ कथं फलायामानेष्वाम्रेषु गतः, पक्तेवष्वागत इत्यत्र सप्तमी, न हीह भावः श्रूयते? यद्यपि न श्रूयते? तथाऽपि गम्यते। फलायमानेषु जातेष्वित्यर्थः॥
Praudhamanorama¶
निर्ज्ञातकाला क्रिया अनिर्ज्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणम्। तदाश्रययोः कर्तृकर्मणोर्बोधकादियं सप्तमी। तत्र ब्राह्मणेष्वधीयानेषु गत इति कर्तर्युदाहरणम्। कर्मण्याह— गोष्विति । इह अधीयानानां ब्राह्मणानां दुह्यमानानां गवां च प्रतीयमानलक्षकत्वं विशेषणीभूतयोरध्ययनगोदोहनक्रिययोर्विश्राम्यति।
Prakriyasarvasvam¶
भावः क्रिया । यस्य क्रियया क्रियान्तरं लक्ष्यते तत्र सप्तमी स्यात् । गोषु दुह्यमानासु गतः कृष्णः । अत्र गोदोहनं गमनकालस्य चिह्नम् । इयमेव सतिसप्तमी- त्युच्यते । क्वचिल्लक्षणत्वं विना क्रियाद्वयसद्भावमात्रेऽपि स्यात् । <karika>संसारार्तेषु लाकेषु विष्णुभक्ताः सुखं स्थिताः । ते संसारार्दिता एते प्रीता इत्येव गम्यते ॥ ५७० ॥</karika>
Sutra Prayogas¶
मेरौ स्थिते दोग्धरि दोहदक्षे (कुमारसम्भवम्): यस्य च भावेन भावलक्षणम् इति सप्तमी।
गतयोः (शिशुपालवधम्): यस्य च भावेन भावलक्षणम् इति सप्तमी ।
समासयोः (शिशुपालवधम्): यस्य च भावेन भावलक्षणम् इति सप्तमी।
अ-संप्राप्ते दश-ग्रीवे (भट्टिकाव्यम्): यस्य च भावेन भावलक्षणम् इति सप्तमी भवति।