23039: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च¶
Padacheda: स्वामिन्-ईश्वर-अधिपति-दायाद-साक्षिन्-प्रतिभू-प्रसूतैः | S | 3 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The 6th and the 7th case-affixes are used after words when they are joined with स्वामिन् ‘master’, ईश्वर ‘lord’, अधिपति ‘ruler’, दायाद ‘an heir’, साक्षिन् ‘witness’, प्रतिभू ‘a surety’ and प्रसूत ‘begotten’.
Vasu English Translation¶
The 6th and the 7th case-affixes are used after words when they are joined with स्वामिन् ‘master’, ईश्वर ‘lord’, अधिपति ‘ruler’, दायाद ‘an heir’, साक्षिन् ‘witness’, प्रतिभू ‘a surety’ and प्रसूत ‘begotten’. गवां गोषु वा स्वामी or ईश्वर ‘master of cows.’ So also गवामधिपतिः or गोष्वधिपतिः, गवां दायादः or गोषु दायादः, गवां or गोषु साक्षी प्रतिभूः &c.
These words naturally would have governed the Genitive; the present sutra ordains Locative as well.
Kashika¶
षष्ठीसप्तम्यौ वर्तेते। स्वामिन् ईश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्योगे षष्ठीसप्तम्यौ विभक्ती भवतः। गवां स्वामी, गोषु स्वामी। गवामीश्वरः, गोष्वीश्वरः। गवामधिपतिः, गोष्वधिपतिः। गवां दायादः, गोषु दायादः। गवां साक्षी, गोषु साक्षी। गवां प्रतिभूः, गोषु प्रतिभूः। गवां प्रसूतः, गोषु प्रसूतः। षष्ठ्यामेव प्राप्तायां पक्षे सप्तमीविधानार्थं वचनम्॥
Siddhanta Kaumudi¶
एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ॥
Balamanorama¶
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च - फलितमाह — रुदन्तं पुत्रादिकमिति । स्वामीआर । षष्ठीसप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ठऐव सिद्धे किमर्थमिह षष्ठीविधानमित्यत आह — षष्ठआमेवेति । गवां गोषु वेति । गोसंबन्धीत्यर्थः । गवां गोषु वा ईआरः । गवां गोषु वा अधिपतिः । गवा गोषु वा दायादः । पुत्रादिभिग्र्रहीतुं योग्यः पित्राद्यर्जितधनांशो दायः । तमादत्त इति दायादः । ‘आतोऽनुपसर्गे’ इति कविधौ अनुपसर्गग्रहणे सत्यपि अत एव निपातनात्कः । गोसंबन्धिदायाद इत्यर्थः । गवां च दाये अन्वयः नित्यसाकाङ्क्षत्वाद्वृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । ‘यस्मादधिकम्’ इति सूत्रभाष्ये तु दायादशब्द स्वामिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति । गोसंबन्धीत्यर्थः । संबन्धश्च भोक्तृत्वरूपः । तदाह — गा एवेति । एवशब्दान्महिषादिव्यावृत्तिः ।
Tattvabodhini¶
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च - स्वामीआर ।स्वाम्यर्थे॑ति वक्तव्ये स्वाम्यादित्रयग्रहणं पर्यायान्तरनिवृत्त्यर्थम् ।विरूपाणामपि समानार्थानाम् इत्येकशेषोऽत्र न भवति, स्वरूपपरत्वेन समानार्थकत्वाऽभावात् । दायाद इति । दायमादत्ते इति दायादः । सोपसर्गादप्यादन्तादत एव निपातनात्कः ।गवां गोषु वा दायाद॑ इत्यत्र यद्यपि गवाभित्येतत्समुदायस्य विशेषणं, तथापि दीयतेऽसौ दाय इति व्युत्पत्त्या अवयवार्थभूतमंशं स्पृशत्येव, तथा चात्र गवात्मकस्यांऽशस्य आदातेति फलितम् ।
Padamanjari¶
स्वामीश्वराधिपरिदायादसाक्षिप्रतिभूप्रसूतैश्च॥ गवां दायाद इति। दीयत इति दायःउ अंशः, दायमादत इति सोपसर्गादपि दायाद इति निपातनात्कः। गवामित्येतत्समुदायस्य विशेषणमवयवमपि दायांशं स्पृशतीति गवात्मकस्य दायस्यादातेत्ययमर्थो भवति। गवां प्रसूत इति। गा एवानुभवितुं जात इत्यर्थः॥
Nyaas¶
स्वामीआराधिपतीनामेकार्थत्वेऽपि भेदेनोपादानं पर्यायान्तरनिवृत्यर्थम्। इह मा भूत् - ग्रामस्य राजेति। षष्ठआमेव प्राप्तायाम् इति। शेषलक्षणायां षष्ठआं प्राप्तायाम्॥
Prakriyasarvasvam¶
एभिर्योगे षष्ठीसप्तम्यौ स्तः । गवां स्वामी । गोषु स्वामीत्यादि । गवामंशहर्ता गवां दायादः, गोषु दायादः । धनमेवानुभवितुं जातो धनस्य प्रसूतः, धने प्रसूतः ॥
Sutra Prayogas¶
दायादैः (किरातार्जुनीयम्): स्वामीश्वराधिपति… इति सूत्रे निपातनात् साधुः।
वानरेषु (भट्टिकाव्यम्): स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इति षष्ठीसप्तम्योर्विधानात् सप्तम्युदाहृता।