23036: सप्तम्यधिकरणे च¶
Padacheda: सप्तमी | S | 1 | 1 |
अधिकरणे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The 7th case-affix is used when the sense is that of location – आधारोऽधिकरणम् (1.4.45), as well as after the words meaning ‘distant’ and ‘near’.
Vasu English Translation¶
The 7th case-affix is used when the sense is that of location – आधारोऽधिकरणम् (1.4.45), as well as after the words meaning ‘distant’ and ‘near’. Ex. कटे आस्ते ‘he sits on the mat’ अन्तिके दूरे वा ग्रामस्य ‘near or distant from the village.’ स्थाल्यां पचति ‘he cooks in the pot.’ Thus the words दूर and अन्तिक take four case-affixes, namely the second, third, fifth and seventh. Vart:- Words like अधीतिन् ‘who has learnt,’ गृहीतिन् ‘who has comprehended;’ i. e., words formed by adding इन् to the past participle in क्त, govern the locative of that which forms their object:- as अधीती व्याकरणे ‘versed in grammar.’ परिगणिती यज्ञिके ‘well versed in sacrificial rites.’ आम्नान्ती छन्दसि ‘well read in the Veda.’ See (5.2.88).
Vart:- The words साधु and असाधु govern the locative of that towards whom goodness or otherwise is shown; as मातरि साधुरसाधु वा ‘well behaved or ill-behaved towards his mother.’
Vart:- The Locative absolute is used in cases other than those specified in the next sutra, namely, in cases where the action done or suffered does not indicate the time of another action; as ऋद्धेषु भुञ्जानेषु दरिद्रा आसते ‘the poor are sitting, while the rich are eating,’ दरिद्रेषु आसीनेषु ऋद्धाभुञ्जते ‘the rich are eating, while the poor being seated.’ So also vice versa.
Vart:- The Locative is sometimes used to denote the object or purpose for which anything is done; as.
चर्मणि द्वीपिनं हंति, दंतयोर्हन्तिकुंजरम् । केशेषु चमरीं हंति सोम्नि पुष्कलको हतः ॥
‘Man kills the tiger for his skin, the elephant for his tusks, for chamari cow for her hair, and the musk-deer for its musk.’
Bhashya¶
सप्तम्याधिकरणे च 494 (317 कारकसप्तमीसूत्रम् ॥ 2.3.2 आ.12) (न्यूनतापूरणाधिकरणम्) (1512 सप्तमीविधानवार्तिकम् ॥ 1 ॥) ॥ () । सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानम् - (भाष्यम्) सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानं कर्तव्यम्। अधीती व्याकरणे। परिगणिती याज्ञिक्ये। आम्नाती छन्दसि ॥ (1513 सप्तमीविधानवार्तिकम् ॥ 2 ॥) - साध्वसाधुप्रयोगे च - (भाष्यम्) साध्वसाधुप्रयोगे च सप्तमी वक्तव्या। साधुर्देवदत्तो मातरि। असाधुः पितरि ॥ (1514 सप्तमीविधायकवार्तिकम् ॥ 3 ॥) - कारकार्हाणां च कारकत्वे - (भाष्यम्) कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या। ऋद्धेषु भुञ्ञ्जानेषु दरिद्रा आसते। ब्राह्मणेषु तरत्सु वृषला आसते ॥ (1515 सप्तमीविधायकवार्तिकम् ॥ 4 ॥) - अकारकार्हाणां चाकारकत्वे - (भाष्यम्) अकारकार्हाणां चाकारकत्वे सप्तमी वक्तव्या। मूर्खेष्वासीनेषु ऋद्धा भुञ्ञ्जते। वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति ॥ (1516 सप्तमीविधायकवार्तिकम् ॥ 5 ॥) - तद्विपर्यासे च - (भाष्यम्) तद्विपर्यासे च सप्तमी वक्तव्या। ऋद्धेषु आसीनेषु मूर्खाः भुञ्ञ्जते । ब्राह्मणेष्वासीनेषु वृषलास्तरन्ति ॥ (1517 सप्तमीविधायकवार्तिकम् ॥ 6 ॥) - निमित्तात्कर्मसंयोगे - (भाष्यम्) निमितात्कर्मसंयोगे सप्तमी वक्तव्या ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्ञ्जरम् ॥ केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ सप्तम्यधि ॥ 36 ॥
Kashika¶
सप्तमी विभक्तिर्भवत्यधिकरणे कारके, चकाराद् दूरान्तिकार्थेभ्यश्च। कटे आस्ते। शकटे आस्ते। स्थाल्यां पचति। दूरान्तिकार्थेभ्यः खल्वपि — दूरे ग्रामस्य। अन्तिके ग्रामस्य। अभ्याशे ग्रामस्य। दूरान्तिकार्थेभ्यश्चतस्रो विभक्तयो भवन्ति — द्वितीयातृतीयापञ्चमीसप्तम्यः॥ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्॥ अधीती व्याकरणे। परिगणिती याज्ञिके। आम्नाती छन्दसि॥ साध्वसाधुप्रयोगे च सप्तमी वक्तव्या॥ साधुर्देवदत्तो मातरि। असाधुः पितरि॥ कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या॥ ऋद्धेषु भुञ्जानेषु दरिद्रा आसते। ब्राह्मणेषु तरत्सु वृषला आसते॥ अकारकार्हाणां चाकारकत्वे सप्तमी वक्तव्या॥ दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते। वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति॥ तद्विपर्यासे च सप्तमी वक्तव्या॥ ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते। ब्राह्मणेष्वासीनेषु वृषलास्तरन्ति॥ निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या॥
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः॥
Siddhanta Kaumudi¶
अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । दूरान्तिकार्थेभ्यः (SK605) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः ॥<!क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् !> (वार्तिकम्) ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे इष्टादिभ्यश्च (SK1888) इति कर्तरीनिः ॥<!साध्वसाधुप्रयोगे च !> (वार्तिकम्) ॥ साधुः कृष्णो मातरि । असाधुर्मातुले ॥<!निमित्तात्कर्मयोगे !> (वार्तिकम्) ॥ निमित्तमिह फलम् । योगः संयोगसमवायात्मकः । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ 1 ॥ (इति भाष्यम्) ।हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् ? वेतनेन धान्यं लुनाति ॥
Laghu Siddhanta Kaumudi¶
अधिकरणे सप्तमी स्यात्, चकाराद्दुरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा ॥ इति सप्तमी ॥ इति विभक्त्यर्थाः ॥
Balamanorama¶
सप्तम्यधिकरणे च - सप्तम्यधिकरणे च । चकाराद्दूरेति ।दूरान्तिकार्थेभ्यो द्वितीया चे॑ति पूर्वसूत्रात्दूरान्तिकार्थेभ्यः॑ इत्यस्य चकारेणानुकर्षणादिति भावः । औपश्लेषिक इति । उपश्लेषः=संयोगादिसंबन्धः, तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति । विषयतासंबन्धकृत आधारो द्वितीय इत्यर्थः । अभिव्यापक इति । सकलावयवव्याप्तिकृत आधारस्तृतीय इत्यर्थः । तत्र औपश्लेषिकं कर्तृद्वारकमाधारमुदाहरति — कटे आस्ते इति । ‘देवदत्तः’ इति शेषः । तत्र साक्षाद्देवदत्तात्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरणत्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति-स्थाल्यां पचतीति ।तण्डुला॑निति शेषः । अत्र साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्याः संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औपश्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति — मोक्षे इच्छास्तीति । अत्र कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छाद्वाराऽऽधारत्वादधिकरणत्वम् । अथाऽभिव्यापकमाधारमुदाहरति — सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूपकर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्याप्त पुरस्कृत्य आत्मद्वारा सत्ताधारत्वात्सर्वस्याधिकरणत्वम् । अथ चकारानुकृष्टदूरान्तिकार्थेभ्य उदाहरति — वनस्य दूरे अन्तिके वेति । दूरमन्तिकमित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति । द्वितीयापञ्चमीतृतीयाभिरित्यर्थः । वस्तुतस्तु उप समीपे श्लेषः संबन्धः, तत्कृतमौपश्लेषिकमिति व्युत्पत्त्या सामीपिकमेवाधारत्वमौपश्लेषिकम् । अत एवअधिकरणं नाम त्रिप्रकारं, व्यापकमोपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हति अन्यदत उपश्लेषात् । ‘इको यणचि’ अच्युपश्लिष्टस्ये॑ति ‘संहितायाम्’ इत्यत्र भाष्यं सङ्गच्छते । अच्युपश्लिष्टस्य=अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमितितत्र च दीयते कार्यं भववत् इत्यत्र भाष्यं सङ्गच्छते । अत एव चतदस्मिन्नधिकमिति दशान्ताड्डः॑ इत्यत्र एकादश भाषा अधिक अस्मिन् कार्षापणशते इत्यत्राधिकानां एकादशानां कथं शतरुआधिकरणमित्याक्षिप्य व्यापकवैषयिकाधिकरणसंभवादौपश्लेषिकमधिकरणं विज्ञायत इति भाष्यं सङ्गच्छते । एवंच ‘कटे आस्ते’ इत्यादौ औपश्लेषिकाधारोदाहरणं मूलोक्तमनुपपन्नमेव, उक्तभाष्यविरोधात् । एवंच ‘कटे आस्ते’ इत्यादौ एकदेशव्याप्त्या गौणमभिव्यापकाधारत्वम् । सर्वावयवव्याप्तिकृताधिकरणत्वमेव मुख्यम्, वैषयिकमौपश्लेषिकं च गौणमित्यर्थस्य भाष्यसंमतत्वात् । अत एव ‘स्वरितेनाधिकारः’ इति सूत्रेसाधकतमं करण॑मिति सूत्रे च भाष्येअधिकरणमाचार्यः किं मन्यते । यत्र कृत्स्नमाधारात्मा व्याप्तो भवति । तर्हि इहैव सप्तमी स्यात्-तिलेषुतैलं, दध्निसर्पिरिति । गङ्गायां घोषः, कूपे गर्गकुलमित्यत्र तु न स्यात्, मुख्य एव कार्यसंप्रत्यया॑दित्याशङ्क्य स्वरितेनाधिकं कार्यं भवतीति वचनात्तमब्ग्रहणाच्च न दोष इति समाहितम् । एवंचकटे आस्ते, गङ्गायां घोषः॑ इत्यादौ गौणमप्यधिकरणं सप्तम्यर्थं एव । यदि तु ‘गङ्गायां घोषः’ इत्यादौ सामीपिकमधिकरणत्वं न विवक्ष्यते तदा लक्षणेति बोध्यम् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः । क्तस्येन्विषयस्येति । न चकृतपूर्वी कट॑मित्यत्रापि सप्तमी शङ्क्या, इन्प्रत्ययान्तो यः क्तप्रत्ययान्तस्तस्य कर्मणीत्यर्थाभ्युपगमात् । कर्तरीनिरिति । भावक्तान्तादधीतशब्दात् कर्तरीनिप्रत्यये कृते अधीतीत्यस्याधीतवानित्यर्थः पर्यवस्यति । किमधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणमध्ययने कर्मत्वेनान्वेति । तच्च व्याकरणकर्मत्वं न केनाप्यभिहितमिति कृतपूर्वी कटमितिवत् द्वितीयायां प्राप्तायामनेन सप्तमीति भावः ।साध्वसाधुप्रयोगे चेति ।सप्तमी वक्तव्ये॑ति शेषः । साधुरिति । हितकारीत्यर्थः । असाधुरिति । अहितकारीत्यर्थः । उभयत्र शेषषष्ठपवादः ।साधुनिपुणाब्यामर्चाया॑मित्येव सिद्धे इह साधुग्रहणमनर्चार्थम् । यथा साधुर्मृत्यो राजनि । इह तत्त्वकथने तात्पर्यम् । साधुनिपुणाभ्यामित्यत्र साधुग्रहणमस्य प्रयोजनं वक्ष्यते । निमित्तादिति । कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी वाच्येत्यर्थः । ननु ‘जाडएन बद्ध’ इत्यत्रापि सप्तमी स्यादित्यत आह — निमित्तमिह फलमिति । फलमेवेत्यर्थः । इष्टसाधनताज्ञानस्य प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम् । जन्यजन्कत्वादिसंबन्धं व्यावर्तयितुमाह — योगः संयोगेति । अयुतसिद्धयोः संबन्धः समवायः । अन्ययोस्तु संयोगः । चर्मणीति । चर्मार्थं व्याघ्रं हन्तीत्यर्थः । अत्र द्वीपिना कर्मणा चर्मणः समवाय एव, अवयवावयविनोरयुतसिद्धत्वात् । दन्तयोरिति । दन्तार्थमित्यर्थः । अत्र कुञ्जरेण कर्मणा दन्तयोः समवाय एव । केशेष्विति । केशार्थमित्यर्थः । चमरी-मृगविशेषः । सीम्नीति । सीमार्थमित्यर्थः । हेतुतृतीया प्राप्तेति । तादथ्र्यचतुथ्र्यपीति बोध्यम् । सीमा अण्डकोश इति ।सीमा घट्टस्थितिक्षेत्रेआण्डकोशेषु च स्त्रियाम् इति मेदिनी । पुष्कलको गन्धमृग इति ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॑ इति मेदिनी । अत्रापि पुष्कलकेन कर्मणा सीम्नः समवाय एव । हरदत्तस्तु-सीमा ग्रामादिमर्यादा, तस्या ज्ञानार्थं पुष्कलकः=शङ्कुर्हतः=निखात इति व्याचष्ट । अत्र पुष्कलकेन कमणा सीम्नः संयोगो बोध्यः । वेतनेनेति । अत्र वेतनं भृतिद्रव्यम्, तदर्थमित्यर्थः । अत्र वेतनस्य लूयमानस्य धान्यस्य च तादथ्र्यमेव संबन्धो, न तु संयोगः, नापि समवाय इति भावः ।
Padamanjari¶
सप्तम्यधिकरणे च॥ क्तस्येन्विषयस्येति। इन्नन्तः शब्दो विषयो वृत्तिभूमिर्यस्यक्तान्तस्य तस्येत्यर्थः। अधीती व्याकरण इति। अधीतमनेनेति विगृह्य श्राद्धमनेनभुक्तमित्यतोऽनेनेति वर्तमाने ठिष्टादिभ्यश्चऽ इतीनिप्रत्यये कृते तद्धितार्थेन कर्त्रा सहैकीभूतस्याधीतस्य निष्कृष्य व्याकरणादिना सम्बन्धाभावात् क्तप्रत्ययेनानभिहिते व्याकरणादौ गुणभूतयापि प्रकृतिवाच्ययाऽध्ययनक्रिययाऽधीतवान् व्याकरणमितिवत् कर्मतया सम्बन्धमाने कृतपूर्वी कटमितिवद् द्वितीयायां प्राप्तायां सप्तमी विधीयते। इह मासमधीती व्याकरण इति कालकर्मणोर्बहिरङ्गत्वात्सप्तम्यभावः। साधुर्देअवदतो भातरीति। अत्र साधुत्वासाधुत्वयोर्मातापितृविषयत्वेऽपि क्रियाया अभावादधिकरणत्वाभावाद्वचनम्।’साधुनिपुणाभ्याम्’ इत्येव सिद्धेऽनर्चार्थमत्र साधुग्रहणम्, तेन तत्वकथनेऽपि भवति। अर्चाग्रहणं तत्र निपुणार्थम्। कथं तर्हि तत्र प्रत्युदाहरिष्यते - अर्चायामिति किं साधुर्भृत्यो राज्ञ इति? उच्यते,राज्ञौ भृत्येन सह शाब्दोऽन्वयः, न साधुना - राज्ञो भृत्यः स साधुरिति। तत्र राजनि वान्यत्र वेति नैतच्छब्देन स्पृश्यते, प्रत्यासत्या तु राजविषयमेव साधुत्वं गम्यत इत्येतावता तं प्रत्युदाहरणं द्रष्टव्यम्। कारकार्हाणामिति। कारकशब्दो भावसाधनः, कारकत्वार्हाणामित्यर्थः। ऋद्धेष्विति। ऋद्धा भोजनक्रियामर्हन्तीति कारकर्हाः, लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनम्। दरिद्रेष्वासीनेष्विति दरिद्रा भोक्तुअं नार्हन्तीत्यकारकार्हाः। तद्विपर्यासे चेति। कारकार्हाणामकारकत्वेऽकारकार्हाणां च कारकत्व इत्यर्थः। निमितात्कर्मयोग इति। यत् क्रियाप्रयोजनं यदर्थः क्रियारम्भस्तत्फलमिह निमितम्, तद्वाचिनः सप्तमी भवति। यदि तस्य निमितस्य कर्मणा कर्तुरीप्सिततमेन सह समवायादिलक्षणः सम्बन्धो भवतीत्यर्थः, तत्र हेतुतृतीयायां प्राप्तायां वचनम्, तत्र हन्तिकर्मणा द्वीप्यादिना चर्मादेर्निमितस्य समवायः सम्बन्धः। चमरीमिति। चमरशब्दाज्जातिलक्षणो ङेष्। पुष्कलकःउशंकुः, स सीम्नि सीमाज्ञानार्थ हतो निखात इत्यर्थः, तेन च निहन्यमानेन शङ्कुना सीम्नः संयोगः सम्बन्धः। कर्मसम्बन्ध इति किम्? वेतनेन धान्यं लुनाति॥
Nyaas¶
दूरान्तिकार्थेभ्यश्चतरुआओ विभक्तयो भवन्ति इति। पूर्वसूत्रेण द्वितीयादयस्तिरुआः, अनेन सप्तमी।सप्तमीविधाने क्तस्येन्विषयस्य इत्यादि। इन्विषयो यः क्तस्तदीये कर्मणि सप्तमी। विधेया। कश्चेन्विषः क्तः? यस्तदन्तस्तेनैव सह प्रयुज्यत इत्यर्थः। अनन्यत्रभावार्थत्वादत्र विषयशब्दस्य। अधीती व्याकरणे इति। अधीतं व्याकरणमनेनेति। श्राद्धमनेन भुक्तमिनिठनौ (5.2.85) इत्यतोऽनेनेत्यनुवर्तमाने पूर्वादिनिः (5.2.86) इत्यत इनिरित्यनुवर्तमाने च इष्टादिभ्यश्च (5.2.88) इतीनिप्रत्ययः। अत्र यद्यपि कर्मण्येव क्तो विहितस्तथापि तद्धित उत्पन्नेऽधीतव्याकरणोरभिसम्बन्धो निवर्तते। अस्ति च धात्वर्थस्य व्याकरणेन सम्बन्ध इति कर्मैव व्याकरणं भवतीत्यतो द्वितीया स्यात्, यथा - कृतपूर्वी कटमिति। तस्मात् सप्तम्या उपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - योऽसावधीती कर्ता तस्य व्याकरणं विषमत्वेन विवक्ष्यते। तस्मादधिकरण इत्येवं सिद्धा सप्तमी॥साध्वसाधुप्रयोगे इत्यादि। अनर्चार्थमिह साधुशब्दस्य ग्रहणम्। अर्चायां हि साधुनिपुणाभ्यामर्चायाम् (2.3.43) इत्यनेनैव सिद्धा सप्तमी। साधुर्देवदत्तो मातरि इत्यादि। अत्राप्यधिकरण एव सप्तमी। तथा ह्यत्र मातृस्थासु क्रियासु मातृशब्दो वर्तते, पितृस्थासु क्रियासु पितृशब्दः; तासाञ्च क्रियाणां साध्वसाधुतां प्रति विषयभावोऽस्तीति वैषयिकाधिकरण एव सप्तमी। वक्तव्यशब्दस्तु व्याख्येय इत्यर्थे वर्तते। एवमुत्तरत्रापि। कारकार्हाणाञ्च इत्यादि। भावप्रधानोऽत्र कारकशब्दः। क्रियां प्रति येषां कारकत्वं साधनत्वं न्याय्यं ते कारकार्हाः, तेषां कारकार्हत्वे सप्तमी वक्तव्या। ऋद्धेषु इत्यादि। ऋद्धा हि भुजिक्रियां प्रति साधनभावमर्हिन्ति। तेषामेव चेह कारकत्वं विवक्षितम्। एतदनुसारेण कारकार्हाणाञ्चाकारकत्व इत्येवमादेरर्थो वेदितव्यः। अत्रापि सर्वत्र यस्य च भावेन भावलक्षणम् (2.3.37) इत्येनैव सिद्धा सप्तमी। तथा हि - ऋद्धादिसम्बन्धिना भुजिक्रियादिलक्षणेनात्र भावेन दरिद्रादिसम्बन्ध्यासनादिभावो लक्ष्यते।चर्मणि द्वीपिनं हन्ति इत्यत्र द्वीपिननस्य निमित्तं चर्म, तस्य द्वीपिना कर्मणा सह संयोगः। अत्रापि चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धा सप्तमी। ननु च दूरान्तिकार्थानुकर्षणार्थश्चकारःच नार्थस्तदनुकर्षणार्थेन चकारेण, सप्तमीति योगविभगादेव दूरान्तिकार्थेभ्यः सप्तममी भविष्यति। अथ वा - उत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सप्तमी वेदितव्या॥
Praudhamanorama¶
आधारस्त्रिधेति। एतच्च ‘संहितायाम्’ इति सूत्रे भाष्ये स्पष्टम्। चतस्र इति। प्रातिपदिकार्थमात्र इति भावः। किं च ‘दूरान्तिक’ इति सूत्रस्य इहाप्यनुवर्तनादधिकरणेऽप्येता बोध्याः। क्तस्येति। इन्= इन्नन्तः शब्दो विषयो= वृत्तिभूमिर्यस्य क्तस्येत्यर्थः। हेतौ तृतीयेति। तादर्थ्ये चतुर्थीत्यपि बोद्ध्यम्। सीमेत्यादि। एतच्च दुर्गवाक्यप्रबोधे कुलचन्द्रेणोक्तम्। मेदिनीकारोऽप्याह— सीमा घाटस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम्। इति। अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॥ इति च। हरदत्तादयस्तु पुष्कलकः= शङ्कुः, सीम्नि= सीमज्ञानार्थं, हतो= निहतो निखात इत्याहुः।
Prakriyasarvasvam¶
<karika>चकाराद् दूरान्तिकार्थेभ्यश्च । आधारः किल षोढा स्यात् तत्रौपश्लेषिकस्तथा । सामीप्यं विषयो व्याप्यो निमित्तं चौपचारिकः ॥ ५६५ ॥</karika> <karika>उपश्लेषे कटे शेते पिठरे पचतीति च । सामीप्ये तु सरित्यास्ते विषयेऽरिषु दारुणः ॥ ५६६ ॥</karika> <karika>तद्गोचरं भवत्यस्य दारुणत्वमितीर्यते । अनन्यत्र गतिस्त्वत्र विषयश्चेद् वने मृगाः ॥ ५६७ ॥</karika> <karika>व्याप्तौ त्रिभुवने कृष्णो निमित्ते वाचि हृष्यति । तथौपचारिके चित्ते वर्तते मत्तकाशिनी ॥ ५६८ ॥</karika> ‘साध्वसाधुयोगे च सप्तमी वाच्या’ । सत्सु साधुः, रिपुष्वसाधुः । इह क्रियाविवक्षाभावाद् विषयसप्तम्यप्राप्तिः । <karika>कर्मभूतेन सम्बद्धान्निमित्तात् सप्तमीष्यते । चर्मणि द्वीपिनं हन्ति फलस्यात्र निमित्तता ॥ ५६९ ॥</karika>
Vartika¶
क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् ।
Sutra Prayogas¶
क्षत्रिय-काऽन्तिके (भट्टिकाव्यम्): सप्तम्यधि- करणे च इति चकाराद्दूरान्तिकार्थेभ्यश्चेति सप्तमी।
माल्यवति (भट्टिकाव्यम्): सप्तम्यधिकरणे च इति सप्तमी भवति।
पुरः प्रवेशमाश्चर्यं (भट्टिकाव्यम्): उभयप्राप्तौ कर्मणि इति पष्ठी।