23035: दूरान्तिकार्थेभ्यो द्वितीया च

Padacheda: दूर-अन्तिक-अर्थेभ्यः | S | 5 | 3 |

द्वितीया | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

After the words दूर ‘distant’ and अन्तिक ‘near’, the 2nd case-affix is used as well as the 5th and the 3rd.

Vasu English Translation

After the words दूर ‘distant’ and अन्तिक ‘near’, the 2nd case-affix is used as well as the 5th and the 3rd. Ex. दूरं दूराद् दूरेण वा ग्रामस्य and अन्तिकात्, or अन्तिकेन अन्तिकं ग्रामस्य.

This rule applies only when these words have their original signification and do not denote a substance. Otherwise the proper case-affix should be employed, as दूरः पन्थाः, दूराय पथे देहि.

Bhashya

दूरान्तिकार्थेभ्यो द्वितीया च 493 (316 उपपदसूत्रम् ॥ 2.3.2 आ.11) (1510 आक्षेपवार्तिकम् ॥ 1 ॥ ) - दूरान्तिकार्थेभ्यः पञ्ञ्चमीविधाने तद्यक्तात्पञ्ञ्चमीप्रतिषेधः - (भाष्यम्) दूरान्तिकार्थेभ्यः पञ्ञ्चमीविधाने तद्युक्तात्पञ्ञ्चम्याः प्रतिषेधो वक्तव्यः। दूराद्ग्रामस्य ॥ (1511 आक्षेपबाधकवार्तिकम् ॥ 2 ॥) - न वा तत्रापि दर्शनादप्रतिषेधः - (भाष्यम्) अनर्थकः प्रतिषेधोऽप्रतिषेधः। न वा तत्रापि दर्शनात्पञ्ञ्चम्याः प्रतिषेधोनर्थकः। तत्रापि हि पञ्ञ्चमी दृश्यते - दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ॥ दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः ॥ दूरान्ति ॥ 35 ॥

Kashika

पञ्चम्यनुवर्तते। दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात् पञ्चमी, तृतीयापि समुच्चीयते। दूरं ग्रामस्य, दूराद् ग्रामस्य, दूरेण ग्रामस्य। अन्तिकं ग्रामस्य, अन्तिकाद् ग्रामस्य, अन्तिकेन ग्रामस्य। प्रातिपदिकार्थे विधानम्। असत्त्ववचनग्रहणं चानुवर्तते। सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति। दूरः पन्थाः। दूराय पथे देहि। दूरस्य पथः स्वम्॥

Siddhanta Kaumudi

एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकमन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥

Balamanorama

दूरान्तिकार्थेभ्यो द्वितीया च - दूरान्तिक । एभ्य इति । दूरार्थकेभ्योऽन्तिकार्थकेभ्यश्चेत्यर्थः । चकारो व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः, नतुदूरान्तिकार्थैः षष्ठन्तरस्या॑मिति संनिहितषष्ठआ अपि, व्याख्यानात् । तदाह — चात्पञ्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् ।दूरादावसथान्मूत्रं दूरात्पादावनेजनम् इति भाष्यप्रयोगात्सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह — असत्त्ववचनस्येति । ‘दूरः’ ‘पन्था’ इत्यत्र पन्था द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः॥ इति पञ्चमी ।

Tattvabodhini

दूरान्तिकार्थेभ्यो द्वितीया च - दूरं दूराद् दूरेण वेति । इह सप्तम्यपि वक्ष्यते । किंचदूरान्तिकार्थेभ्यः॑ इति सूत्रस्यसप्तम्यधिकरणे च॑ इत्युत्तरसूत्रेऽप्यनुवर्तनादधिकरणेऽप्येभ्यो विभक्तिचतुष्टयं बोध्यम । तथा च प्रयुज्यतेदूरादावसथान्मूत्रं दूरात्पादावसेचनम् इति । आवसथस्य दूरे इत्यर्थः । असत्त्ववचनस्येति । सत्त्ववचनत्वमिह सत्त्वविशेषकत्वम् । एवं च सामानाधिकरण्येन प्रातिपदिकार्थविशेषकं व्युदस्यते । तदाह — दूरः पन्था इति । एतेनकरणे च स्तोके॑ति सूत्रे -॒करणे किम् क्रियाविशेषणे कर्मणि मा भूत् । स्तोकं पचति । क्रिया न द्रव्यम॑ इति प्राचां ग्रन्थोऽपि व्याख्यातः । न च क्रियाया विशेष्यत्वेन द्रव्यत्वाऽवश्यंभावान्नैतत्प्रत्युदाहरणं युक्तमिति वाच्यम्, धातुवाच्यायाः क्रियाया असत्त्वरूपत्वस्याकरे प्रसिद्धत्वात् । न च विशेष्यत्वे तदनुपपत्तिः । कर्तृकर्मेतरकारकलिङ्गानन्वयित्वमात्रेणाऽसत्त्लरूपत्वोपपत्तेः । उक्तं च -॒क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः । असत्त्वरूपता तस्या इयमेवावधर्यताम् । इति । फलं व्यापारश्च क्रिया, फलाधारकारकं कर्म, व्यापाराधारकारकं कर्तेति विवेकओः । पञ्चमी ।

Padamanjari

दूरान्तिकार्थेभ्यो द्वितीया च॥ प्रातिपदिकार्थे विधानमिति। अर्थान्तरस्यानिर्द्देशादिति भावः। नन्वनिर्देशेऽप्यर्थान्तरस्य शेषविषये पूर्वविभक्तिविषये च विधानमेतद्यःक्तम्, प्रथमाविषये तु परत्वात्सैव प्राप्तोति? नेष दोषः; उतरत्राप्येतदनुवर्तते, तेनोतरविभक्तिविषयेऽपि सर्वत्र यथाभिधानं भवति। तथा च दूरादावसथान्मूत्रमित्यधिकरणेऽपि भवति - आवसथस्य दूर इत्यर्थः। प्रातिपदिकार्थे विधानमित्येततदाहृतविषयं द्रष्टव्यम्। तथा च -‘सत्ववचनेभ्यो यथायथं विभक्तयो भवन्ति’ इति वक्ष्यति, प्रतिपदिकार्थ एव तु विधाने यथायथमित्यनुपपन्नम्, प्रथमैव भवतीति वाच्यं स्यात्॥

Nyaas

{एवम्प्रकारकं वाक्यं वृत्तौ नास्ति}पञ्चमी च इति। तदनुवृत्तिसामर्थ्यात्। तृतीयाऽपि समुच्चीयते इति। चकारेण। यथायथम् इति। यथास्वं यो यस्यात्मीयो विषयस्तत्रासौ भवति, न विभक्त्यन्तरमित्यर्थः॥

Praudhamanorama

दूरं, दूरात्, दूरेण वेति। इह सप्तम्यपि वक्ष्यते। किं च ‘दूरान्तिकार्थेभ्य’ इति सूत्रस्योत्तरत्राप्यनुवर्तनादधिकरणेऽप्येभ्यो विभक्तिचतुष्टयं बोध्यम्। तथा च प्रयुज्यते—‘दूरादावसथान्मूत्रम्’ इति। आवसथस्य दूरे इत्यर्थः। असत्त्वेति। सत्त्ववचनत्वं च तद्विशेष्यकत्वम्। एवं च सामानाधिकरण्येन प्रातिपदिकार्थविशेष्यकं व्युदस्यते। तदाह- दूरः पन्थाः इति। एतेन ‘करणे च स्तोक’ इति सूत्रे ‘करणे किम्ॽ क्रियाविशेषणे कर्मणि मा भूत्— स्तोकं पचति, क्रिया न द्रव्यम्’ इति प्राचां ग्रन्थो व्याख्यातः। यत्तु— तमनूद्य क्रियाया विशेष्यत्वेन द्रव्यत्वाऽवश्यम्भावाच्चिन्त्यमित्यूचुस्तदेव चिन्त्यम्, धातुवाच्यायाः क्रियायाः असत्त्वरूपस्याऽऽकरे प्रसिद्धत्वात्। न च विशेष्यत्वे तदनुपपत्तिः, कृदभिहितभाववल्लिङ्गसङ्ख्याद्ययोगित्वमात्रेण तदुपपत्तेः। यद्यपि ‘हतशायिकाः शय्यन्ते’ इत्यादौ भाष्ये संख्यान्वयः स्वीकृतः, ‘पचति भवति’ इत्यादौ कर्तृत्वकर्मत्वान्वयश्च, तथापि लिङ्गस्य कारकान्तरस्य चाऽभावो निर्बाध एव। उक्तं च— क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः। असत्त्वरूपता तस्या इयमेवावधार्यताम्॥ इति पञ्चमी॥

Prakriyasarvasvam

एभ्योऽद्रव्यार्थेभ्यः सर्वविभक्त्यर्थे द्वितीयापञ्चमीतृतीयाः स्युः । ‘सप्तम्य- धिकरणे च’ (२-३-३६) इत्यूर्ध्वसूत्रे चकारात् सप्तम्यपि ॥ <karika>दूरं दूराच्च दूरेण दूरे दुःखाय जायते । अन्तिकं वान्तिकाच्छीरेरन्तिकेनान्तिके मुदे ॥ ५४३ ॥</karika> एवं प्रथमाथैं । तथा द्वितीयाद्यर्थेऽप्यूह्यम् । पर्यायेभ्योऽप्येवम्, द्रव्यपरत्वे तु-दूराय गृहाय याति ॥

Sutra Prayogas

  • व्रजोपकण्ठं (किरातार्जुनीयम्): दूरान्तिकार्थेभ्यो द्वितीया च इति द्वितीया।

  • विप्रकृष्टं (भट्टिकाव्यम्): दूरान्तिकार्थेभ्यो द्वितीया च इति द्वितीया भवति।