23032: पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ========================================== **Padacheda:** पृथक्-विना-नानाभिः | S | 3 | 3 | तृतीया | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When joined with the words पृथक् 'without', विना 'without' and नाना 'without', the 3rd case-affix is used, optionally (as well as the 5th and the 2nd). Vasu English Translation ------------------------ When joined with the words पृथक् 'without', विना 'without' and नाना 'without', the 3rd case-affix is used, optionally (as well as the 5th and the 2nd). Ex. रामाद्रामेण रामं वा विना पृथग् नाना वा 'without or different from *Rama*.' This *sutra* may be divided into two parts:- (1) पृथग् विना नानाभिः (2) तृतीयाऽन्यतरस्याम्. By this arrangement we can read *dvitiya* into the aphorism. विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्ति कृतान्दोषान् केनेमौ पातितौ द्रुमौ ॥ Bhashya ------- पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् 490 (315 उपपदतृतीयापञ्ञ्चमीसूत्रम् ॥ 2.3.2 आ.10) (पञ्ञ्चमीसाधनाधिकरणम्) (1506 वार्तिकप्रथमखण्डम् ॥ 1 ॥) - पृथगादिषु पञ्ञ्चमीविधानम् - (भाष्यम्) पृथगादिषु पञ्ञ्चमी विधेया - पृथग् देवदत्तात् ॥ (आक्षेपभाष्यम्) किमर्थं न प्रकृतं पञ्ञ्चमीग्रहणमनुवर्तते?। क्व प्रकृतम्?। अपादाने पञ्ञ्चमी इति ॥ (1507 वार्तिकद्वितीयखण्डम् ॥ 2 ॥) - अनधिकारात् - अनधिकारः सः ॥ (1508 वार्तिकतृतीयखण्डम् ॥ 3 ॥) - अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः - (भाष्यम्) अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधो वक्तव्यः स्यात्। दक्षिणेन ग्रामम्, दक्षिणतो ग्रामस्येति ॥ (वार्तिकप्रत्याख्यानभाष्यम्) एवं तर्हि - अन्यतरस्यांग्रहणसार्मथ्यात्पञ्ञ्चमी भविष्यति ॥ (सार्मथ्यनिराकारणभाष्यम्) अस्त्यन्यदन्यतरस्यांग्रहणस्य प्रयोजनम् ॥ किम्?। यस्यां नाप्राप्तायां तृतीयारभ्यते सा यथा स्यात् ॥ कस्यां च नाप्राप्तायाम्?। अन्ततः षष्ठ्याम् ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। अपादाने पञ्ञ्चमी इति ॥ (आक्षेपभाष्यम्) ननु-चेक्तमनधिकारः सः ()अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः() इति प्र्प्र् (समाधानभाष्यम्) एवं तर्हि संबन्धमनुवर्तिष्यते - अपादाने पञ्ञ्चमी। अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते पञ्ञ्चमी। षष्ठ्यतसर्थप्रत्ययेन अन्यारादिभिर्योगे पञ्ञ्चमी। एनपाद्वितीया अन्यारादिभिर्योगे पञ्ञ्चमी। पृथग्विनानानाभिस्तृतीयान्यतरस्याम् पञ्ञ्चमीग्रहणमनुवर्तते, अन्यारादिभिर्योगे इति निवृत्तम् ॥ (समाधानान्तरभाष्यम्) अथ वा मण्डूकप्लुतयोधिकाराः। तद्यथा - मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥ (भाष्यम्) अथ वा - (1509 वार्तिकम् 4 ॥) ()अन्यवचनाच्चकाराकरणात्प्रकृतस्यापवादो विज्ञायते यथोत्सर्गेण प्रसक्तस्य() (भाष्यम्) अन्यस्या विभक्तेर्वचनाच्चकारस्यानुकर्षणार्थस्याकरणात्प्रकृतायाः पञ्ञ्चम्या द्वितीयाषष्ठ्यौ बाधिके भविष्यतः। यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति ॥ (समाधानान्तरभाष्यम्) अथ वा वक्ष्यत्येतत् - अनुवर्तन्ते च नाम विधयः। न चानुवर्तनादेव भवन्ति। किं तर्हि? यत्नाद्भवन्तीति पृथग्विना ॥ 32 ॥ Kashika ------- पञ्चमीग्रहणमनुवर्तते। पृथग् विना नाना इत्येतैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पञ्चमी च। पृथग् देवदत्तेन, पृथग् देवदत्तात्। विना देवदत्तेन, विना देवदत्तात्। नाना देवदत्तेन, नाना देवदत्तात्। पृथग्विनानानाभिरिति योगविभागो द्वितीयार्थः। विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान् दोषान् केनेमौ पातितौ द्रुमौ॥ हरि०पु० ७.२९ ॥ Siddhanta Kaumudi ----------------- एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥ Balamanorama ------------ **पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्** - पृथग्विना । पञ्चमीद्वितीये चेति । 'तृतीयाऽभावपक्षे' इति शेषः । 'अपादाने पञ्चमी'षष्ठतसर्थप्रत्ययेन॑ 'एनपा द्वितीया' 'पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते । तथाच तृतीयाऽभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाऽभावपक्षे द्वितीयैव संनिहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठतसर्थेत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्याः समावेशोऽनुपपन्न इत्यत आह — अन्यतरस्याङ्ग्रहणमिति । तृतीया चेत्येताबतैव संनिहितद्वितीयासमुच्चयसिद्धेरन्यतरस्यामिति गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्याः समुच्चयार्थम्, अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याःषष्ठतसर्थे॑त्यत्राननुवृत्ताया इहानुवृत्तेरसम्भवात्कथमिह तदुपस्थितिरित्यत आह — पञ्चमीद्वितीये चानुवर्तेते इति ।मण्डूकप्लुत्ये॑ति शेषः । पृथग्रामेणेति । रामप्रतियोगिकभेदवानित्यर्थः । एवं विना नानेति । विना रामेण, रामात्, रामम्, । नाना रामेण, रामात्, रामं वा । पृथिग्विनानानास्त्रयोऽपि भेदार्थका इति केचित् ।पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने॑ इत्यमरः । रामस्य वर्जने सुखं नास्तीत्यर्थः । Tattvabodhini ------------- **पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्** - पृथग्विना । ननु तृतीयाऽभावपक्षेएनपा द्वितीया॑ इति प्रकृता द्वितीयैव स्यात् । यदि तु द्वितीया विकल्पेन भवेत्, तदा पञ्चम्यपि स्यात् । सा तु नित्यैव । तस्माद्विभक्तित्रयसमवेशो दुरुपपाद इत्यत आह -अन्यतरस्याङ्ग्रहणं समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः । पञ्चमिति । तत्र भण्डूकप्लुत्या पञ्चमी । द्वितीया तु संनिहितैव । इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं पर्यायान्तरनिवृत्त्यर्थम्, तेन हिरुग्देवदत्तस्येत्यत्र नेत्याहुः ।पृथङ्नानाञ्भिस्तृतीयान्यतरस्याम् इति सुवचम् । नानाञिति प्रत्ययग्रहणे तदन्तयोर्विनानानाशब्दयोर्लाभात् । नानेति ।हिरुङ्नाना च वर्जने॑ इत्यमरः ।नानानारीं निष्फला लोकयात्रा॑ इति प्रयोगः । Padamanjari ----------- पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥ अन्यतरस्यांग्रहणेन पक्षे यथाप्राप्तस्याभ्यनुज्ञानात् तृतीयया मुक्ते शेषत्वात्पक्षे षष्ठी प्राप्नोति। अथ स्यादनेकार्थत्वा न्निपातानामन्यतरस्यांग्रहणं समुच्चयार्थम्, न विकल्पार्थमिति? एवमप्यनन्तरा द्वितीया समुच्चीचेत। अथापि योगविभागेनास्या अपि सिद्धिः, एवमपि तदनन्तरा षष्ठी समुच्चीयेत न कथञ्चन पञ्चमी, सा चेष्यते, तत्कथमित्याह - पञ्चमीग्रहणमिति। इहेति। न पूर्वयोर्योगयोः मण्डूअकगतयोऽधिकारा भवन्ति, यद्यनुवृत्तिसामर्थ्यात्पञ्चमी, अन्यतरस्यांग्रहणं तर्हि किमर्थम्? समुच्चयार्थम्। तत्र किं समुच्चीयते? इत्यपेक्षायाम्'पञ्चमीग्रहणमिहानुवर्तते' इत्युच्यते। योगविभागः कर्तव्य इति। असत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यातम्॥ Praudhamanorama --------------- **समुच्चयार्थमिति।** निपातानामनेकार्थत्वादिति भावः। **पञ्चमीति।** तत्र मण्डूकप्लुत्या पञ्चमी। द्वितीया तु सन्निहितैव। Prakriyasarvasvam ----------------- अत्रान्यतरस्यामिति समुच्चये । एभिर्योगे तृतीया च द्वितीयापि च पञ्चमी । न कृष्णेन पृथक् कृष्णं पृथक् कृष्णात् पृथग्जगत् ॥ ५४१ ॥ किं कृष्णेन विना कृष्णं विना कृष्णाद्विना सुखम् । कृष्णेन नाना कृष्णं वा कृष्णाद् वा नास्ति किञ्चन ॥ ५४२ ॥ Sutra Prayogas -------------- * **गुणानुरोधेन** (किरातार्जुनीयम्): `पृथग्विनानाभिस्तृतीयाऽन्यतरस्याम्` इत्यादिना तृतीया। * **त्वद्विना** (किरातार्जुनीयम्): `पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्` इत्यादिना पञ्चमी। * **त्वद्विना** (शिशुपालवधम्): `पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्` इति विकल्पात् पञ्चमी। * **पृथङ्नभस्वतश्चण्डाद्वैनतेयेन वा विना** (भट्टिकाव्यम्): `पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्` इति पृथक्-विना-योगे तृतीयापञ्चम्यौ भवतः। * **विपत्ते-** (भट्टिकाव्यम्): `पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्` इति पञ्चमी। * **विना** (भट्टिकाव्यम्): `पृथग्विना` इति पञ्चमी। * **अतिकायाद्विना** (भट्टिकाव्यम्): `पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्` इति पञ्चमी।