23020: येनाङ्गविकारः ==================== **Padacheda:** येन | S | 3 | 1 | अङ्ग-विकारः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- By whatsoever limb, being defective, is pointed out the defect of the person after that the 3rd case-affix is used. Vasu English Translation ------------------------ By whatsoever limb, being defective, is pointed out the defect of the person after that the 3rd case-affix is used. As, अक्ष्णा काणः 'blind of one eye' पादेन खंजः 'lame of foot.' पाणिना कुण्ठः &c. The word *anga* in this *sutra* applies to the whole body, whatsoever by reason of being a member of the body is defective is indicated here. Bhashya ------- येनाङ्गविकारः 478 (308 तृतीयानियमसूत्रम् ॥ 2.3.2 आ.3) (अङ्गशब्दस्यावयविपरत्वनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मान्न भवति - अक्षि काणमस्येति? ॥ (1494 समाधानवार्तिकम् ॥ 1 ॥) - अङ्गाद्विकृतात्तद्विकारश्चेदङि्गनो वचनम् - (भाष्यम्) अङ्गाद्विकृतात्तृतीया वक्तव्या तेनैव चेद्विकारेणाङ्गी द्योत्यत इति तेनैव चेद्विकारेणाङ्गी द्योत्यत इति वक्तव्यम् ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? ॥ (समाधानभाष्यम्) न वक्तव्यम्। अङ्गशब्दोयं समुदायशब्दः। येनेति च करणे एषा तृतीया। येनावयवेन समुदायोङ्गी द्योत्यते तस्मिन् भवितव्यम्। न चैतेनावयवेन समुदायो द्योत्यते ॥ येनाङ्ग ॥ 20 ॥ Kashika ------- अङ्गशब्दोऽत्राङ्गसमुदाये शरीरे वर्तते, येनेति च तदवयवो हेतुत्वेन निर्दिश्यते। येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते, ततस्तृतीयाविभक्तिर्भवति। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुण्ठः। अवयवधर्मेण समुदायो व्यपदिश्यते। अङ्गविकार इति किम्? अक्षि काणमस्य॥ Siddhanta Kaumudi ----------------- येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ? अक्षि काणमस्य ॥ Balamanorama ------------ **येनाङ्गविकारः** - येनाङ्गविकारः । अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम् । अर्शाअद्यच् । तस्य विकार इति विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति । तदाह — येनाङ्गेनेत्यादिना । अक्ष्णा काण इति । काणशब्दः काणत्ववति वर्तते । संबन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह — अक्षिसंबन्धीति । संबन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः । द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः । Tattvabodhini ------------- **येनाङ्गविकारः** - येनाङ्गेति । येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्रते, संनिधानात् । स चाऽर्थद्विकृत एव । न ह्रविकृतेनावयवेन शरीरस्य विकारः संभवति, तदेतदाह — येनाङ्गेन विकृतेनेति । अङ्गिन इति । सूत्रेऽङ्गशब्दोऽर्शाअद्यजन्त इति भावः । Padamanjari ----------- येनाङ्गविकारः॥ अङ्गशब्दोऽवयववाची प्रसिद्ध; ततश्चायं सूत्रार्थः स्याद् - येन गुणेनाङ्गस्याक्ष्यादेर्विकारस्ततस्तृतीयेति, ततश्चाक्षि काणमस्येत्यादावेव तु स्यात्, काणादेर्गुणवचनादेव च स्याद्; अक्ष्णा काण इत्यादावक्ष्यादेर्न स्यादित्यालोच्यान्यथा व्याचष्टे - अङ्गशब्दोऽत्रेत्यादि। अर्श आद्यच्प्रत्ययान्तः शरीरवचनोऽङ्गशब्दः सूत्रे उपात इत्यर्थः। येनेति च यदपेक्षमङ्गिनोऽङ्गित्वं स हेतुत्वेन निर्द्दश्यते, हेतुत्वेनेतिवदन्येनेति हेतौ तृतीयेति दर्शयति। विकृतेनेति। सामर्थ्यादेवैतल्लभ्यते, न ह्यविकृतमङ्गमङ्गिनो विकारं प्रति हेतुः। अक्ष्णा काण इति। कथं पुनः पुरुषः काणः यावताक्षिधर्मः काणता, तेनाक्ष्येव काणं भवति न पुरुषः? इत्याह - अवयवधर्मेणेति। तदेवं यदङ्गगतो विकारोऽवयवधर्मः समुदाय आरोपादङ्गिनः प्रतिपाद्यते, तत्र यदङ्गगतो विकारस्ततस्तृतीया भवति। कथं पुनरक्षिशब्दः प्रयुज्यते, यावता काणशब्दोऽक्षिगतमेव विकारमाचष्टे, तत्र काणो देवदत इत्युक्ते नैव संदेहो भवति - किं स्वयमेव काणः, किं वाक्ष्णः काणतयेति,नाप्येवं संदेहः - किमक्ष्णः काणतयासौ काणः, किं वा पादस्येति,तदनर्थकोऽक्षिशब्दस्य प्रयोगः? एवं पादेन खञ्जः, पाणिना कुणिरित्यादौ पादादीनाम्? उच्यते - अक्ष्याद्यौपक्रमे वाक्येऽक्ष्णेत्युक्ते न ज्ञायते किं निरूपयति? किं वा काण इति? तत्र निरूपयत्यादिनिवृतये काणशब्दप्रयोगः, यथा - द्वावानय कौ तौ द्वावित्युक्ते ब्राह्मणावति। अङ्गविकार इति किमिति। अङ्गगहणं प्रति प्रश्नः। क्वचितु तथैव पाठः। अक्षि काणमस्येति। नन्वत्र परत्वात्प्रथमा भविष्यति, न; असत्यङ्ग्रहणेऽवैव स्यात् मुख्यो ह्यत्र विकारः। उदाहरणे तु गौणः, अवयवधर्मस्यावयविन्यारोपात्॥ Nyaas ----- अयमङ्गशब्दोऽवयवे प्रसिद्धः। स यदि तत्रैव वर्तमान इह गृह्रते तदाऽत्रैव स्यात् - अक्षि काणमस्येति; अत्र ह्रक्ष्णः शरीरावयवस्य विकारः काणेन गुणेन द्योत्यत इति। इह तु न स्यात् - अक्ष्णा काण इति। न ह्यत्रावयवस्याक्ष्णो विकारो लक्ष्यते, किं तर्हि? अङ्गनः समुदायस्येत्यत आह - `अङ्गशब्दोऽत्र`इत्यादि। अङ्गमस्यास्तीत्यङ्गः, अर्श आदित्वादच्प्रत्ययान्तोऽङ्गशब्द उपात्त इति दर्शयति; अङ्गिनोऽङ्गापेक्षत्वात्। यदपेक्षयाऽङ्गिनोऽङ्गित्वं तदेव येनेत्यनेन निर्दिश्यत इति दर्शयितुमाह - `येन` इत्यादि। विकृतेनेति सामर्थ्याल्लब्धमर्थं दर्शयति। न ह्रविकृतेनाङ्गनिनोऽङ्गेन विकारो लक्ष्यते। `लक्ष्यते` इति। द्योत्यत इत्यर्थः। `अक्ष्णा काणः` इति। अत्राक्ष्णाऽवयवेन विकृतेनाङ्गिनो देवदत्तस्य विकारो लक्ष्यत इति तत्सतृतीया। विभक्तिर्भवति। कथं पुनरवयवेन विकृतेन समुदायस्तथा व्यपदिश्यत इत्याह - `अवयवधर्मेण` इत्यादि। याथाऽढमिदं नगरमित्यवयवधर्मेणाढत्वेनात्र समुदायो व्यपदिश्यते, तथेहाप्यवयवेन विकृतन समुदायो व्यपदिश्यत इति। कथं पुनरत्राक्षिशब्दस्य प्रयोगः क्रियते, यावता विनाऽपि तेन काणत्वं गुणः समुदायस्य प्रत#ईयत एव? सत्यमेतत्; लौकिके शब्दप्रयोगे गुरुलाघनं प्रत्यनादरात्। यस्तु तदाद्रियते सोऽक्षिशब्दं न प्रयुङ्क्त एव।`अक्षि काणमस्य` इति। अत्रासत्यङ्गग्रहणे काणशब्दात् तृतीया स्यात्। लक्ष्यते हि काणत्वेन गुणेनाक्ष्णो विकारः समुदायस्यावयवस्य॥ Praudhamanorama --------------- अङ्गशब्दोऽर्शआद्यजन्तस्तदाह— **अङ्गिन इति।** येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्यते, सन्निधानात्। स चार्थाद् विकृत एव, न ह्यविकृतेनावयवेन शरीरस्य विकारः संभवति। तदेतदाह— **पञ्चम्या इति।** कथं तर्हि ततः पश्चादिति। ततः पश्चात् स्रंस्यते, ध्वंस्यते चेति भाष्यप्रयोगात् पश्चाद् योगे पञ्चम्यपि। प्रत्ययग्रहणं चिन्त्यप्रयोजनम्। Prakriyasarvasvam ----------------- येनाङ्गेन विकृतेनाङ्गिनो विकारस्ततस्तृतीया स्यात् । अक्ष्णा काणः । पदा खञ्जः । हानिवदाधिक्यमप्यङ्गानां विकार इति वामनोक्त्या मुखेन त्रिलोचन इत्याद्यपि । मुखेन भीता राक्षसीति विकारमात्रेऽप्याह भट्टिः ॥ Sutra Prayogas -------------- * **वपुषा** (शिशुपालवधम्): `येनाङ्गविकारः` इति तृतीया। * **मुखेन** (शिशुपालवधम्): `येनाङ्गविकारः` इति तृतीया। * **सितकरवपुषा** (शिशुपालवधम्): `येनाङ्गविकारः` इति तृतीया। * **वक्त्रैः** (शिशुपालवधम्): `येनाङ्गविकारः` इति तृतीया। विकासस्यापि विकारत्वात्। * **मुखैर्भीमा** (भट्टिकाव्यम्): `येनाङ्गविकारः` इति तृतीया।