22033: अजाद्यदन्तम्

Padacheda: अच्-आदि-अत्-अन्तम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In a द्वन्द्व compound, let a what begins with a vowel and ends with a short अ be placed first.

Vasu English Translation

In a द्वन्द्व compound, let a what begins with a vowel and ends with a short अ be placed first. Thus, उष्ट्रखरम् ‘the camel and the ass.’ उष्ट्रशशकम् ‘the camel and the hare.’

Why do we say ‘अत् with a त्’ (1.1.70)? This rule does not apply when it is long आ as अश्वा + वृषः = अश्वावृषौ or वृषाश्वे .

Kashika

द्वन्द्व इति वर्तते। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। उष्ट्रखरम्। उष्ट्रशशकम्॥ बहुष्वनियमः॥ अश्वरथेन्द्राः। इन्द्ररथाश्वाः॥ द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन॥ इन्द्राग्नी। इन्द्रवायू। तपरकरणं किम्? अश्वावृषौ, वृषाश्व इति वा॥

Siddhanta Kaumudi

इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ।<!घ्यन्तादजाद्यदन्तं विप्रतिषेधेन !> (वार्तिकम्) ॥ इन्द्राग्नी ॥

Laghu Siddhanta Kaumudi

द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥

Balamanorama

अजाद्यदन्तम् - अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्याऽदन्तत्वेऽप्यजादित्वाऽभावान्न पूर्वनिपातः । बहुष्वनियम इति । वक्तव्य॑ इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह — ध्यन्तादिति । ध्यन्तशब्देनद्वन्द्वे घी॑ति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेणद्वन्द्वे घी॑त्येतद्बाधित्वाअजाद्यदन्त॑मिति प्रवर्तते इत्यर्थः ।

Tattvabodhini

अजाद्यदन्तम् - अजाद्यदन्तं ।समुद्राभ्राद्दः॑लक्षणहेत्वोः क्रियायाः॑ इत्यादिनिर्देशादनित्यमिदं प्रकरणम् । तेनस सौष्ठवौदार्यविशेषशालिनी॑मिति भारविप्रयोगः सङ्गच्छते ।

Padamanjari

अजाद्यदन्तम्॥ अजादीति पृथक् पदम्, विशेषणसमासो वा। अश्वेन्द्ररथा इति। रथशब्दस्य पश्चात्समासे रथाश्वेन्द्रा इत्यपि भवति। द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेनेति।’द्वन्द्वे घि’ इत्यस्यावकाशः - पटुअगुप्तौ; ठजाद्यदन्तम्ऽ इत्यस्यावकाशः - उष्ट्रखरम्; इन्द्राग्नी इत्यत्रोभयप्राप्तौ परत्वाद् ठजाद्यदन्तम्ऽ इत्येतद्भवति विप्रतिषेधेनेति॥

Nyaas

द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन इति। द्वन्द्वे घि (2.2.32) इति तस्मादजाद्यदन्तमित्येततद्भवति विप्रतिषेधेन। द्वन्द्वे घि`इत्यस्यावकाशः - पटुशुक्लौ,पटुगुप्तौ। `अजाद्यदन्तम् इत्यस्यावकाशः - उष्ट्रशशौ, उष्ट्रखरौ। इन्द्राग्नी इत्यत्रोभयं प्राप्नोति, अजाद्यदन्तं भवति विप्रतिषेधेन॥

Prakriyasarvasvam

अजादिकमदन्तं च द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः । धेरजाद्यदन्तस्य च समासे घेः परत्वम् । इन्द्राग्नी । इन्द्रवायू ॥