22033: अजाद्यदन्तम् =================== **Padacheda:** अच्-आदि-अत्-अन्तम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a द्वन्द्व compound, let a what begins with a vowel and ends with a short अ be placed first. Vasu English Translation ------------------------ In a द्वन्द्व compound, let a what begins with a vowel and ends with a short अ be placed first. Thus, उष्ट्रखरम् 'the camel and the ass.' उष्ट्रशशकम् 'the camel and the hare.' Why do we say 'अत् with a त्' (1.1.70)? This rule does not apply when it is long आ as अश्वा + वृषः = अश्वावृषौ or वृषाश्वे . Kashika ------- द्वन्द्व इति वर्तते। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। उष्ट्रखरम्। उष्ट्रशशकम्॥ बहुष्वनियमः॥ अश्वरथेन्द्राः। इन्द्ररथाश्वाः॥ द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन॥ इन्द्राग्नी। इन्द्रवायू। तपरकरणं किम्? अश्वावृषौ, वृषाश्व इति वा॥ Siddhanta Kaumudi ----------------- इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः । (वार्तिकम्) ॥ इन्द्राग्नी ॥ Laghu Siddhanta Kaumudi ----------------------- द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥ Balamanorama ------------ **अजाद्यदन्तम्** - अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्याऽदन्तत्वेऽप्यजादित्वाऽभावान्न पूर्वनिपातः । बहुष्वनियम इति । वक्तव्य॑ इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह — ध्यन्तादिति । ध्यन्तशब्देनद्वन्द्वे घी॑ति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेणद्वन्द्वे घी॑त्येतद्बाधित्वाअजाद्यदन्त॑मिति प्रवर्तते इत्यर्थः । Tattvabodhini ------------- **अजाद्यदन्तम्** - अजाद्यदन्तं ।समुद्राभ्राद्दः॑लक्षणहेत्वोः क्रियायाः॑ इत्यादिनिर्देशादनित्यमिदं प्रकरणम् । तेनस सौष्ठवौदार्यविशेषशालिनी॑मिति भारविप्रयोगः सङ्गच्छते । Padamanjari ----------- अजाद्यदन्तम्॥ अजादीति पृथक् पदम्, विशेषणसमासो वा। अश्वेन्द्ररथा इति। रथशब्दस्य पश्चात्समासे रथाश्वेन्द्रा इत्यपि भवति। द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेनेति।'द्वन्द्वे घि' इत्यस्यावकाशः - पटुअगुप्तौ; ठजाद्यदन्तम्ऽ इत्यस्यावकाशः - उष्ट्रखरम्; इन्द्राग्नी इत्यत्रोभयप्राप्तौ परत्वाद् ठजाद्यदन्तम्ऽ इत्येतद्भवति विप्रतिषेधेनेति॥ Nyaas ----- `द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन` इति। **द्वन्द्वे घि** (2.2.32) इति तस्मादजाद्यदन्तमित्येततद्भवति विप्रतिषेधेन। `द्वन्द्वे घि`इत्यस्यावकाशः - पटुशुक्लौ,पटुगुप्तौ। `अजाद्यदन्तम्` इत्यस्यावकाशः - उष्ट्रशशौ, उष्ट्रखरौ। इन्द्राग्नी इत्यत्रोभयं प्राप्नोति, अजाद्यदन्तं भवति विप्रतिषेधेन॥ Prakriyasarvasvam ----------------- अजादिकमदन्तं च द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः । धेरजाद्यदन्तस्य च समासे घेः परत्वम् । इन्द्राग्नी । इन्द्रवायू ॥