22032: द्वन्द्वे घि

Padacheda: द्वन्द्वे | S | 7 | 1 |

घि | S | 1 | 1 |

Sutrartha


Vasu English Summary

In a द्वन्द्व compound, let a word called घि (1.4.7), stand first.

Vasu English Translation

In a द्वन्द्व compound, let a word called घि (1.4.7), stand first. As हरिहरौ ‘Hari and Hara.’ So also पटुगुप्तौ and मृदुगुप्तौ. Where there are more than one such for words घि in a compound, any one may be fixed upon as first member, and the rest to follow no fixed rulc, As पटुमृदुशुक्लाः or पदुशुक्लमृदव्ः.

Why do we say ‘Dvandva’? Observe विस्पष्टपटुः which is Tat-purusha.

Kashika

पूर्वमिति वर्तते। द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यम्। पटुगुप्तौ। मृदुगुप्तौ। अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः। पटुमृदुशुक्लाः। पटुशुक्लंमृदवः। द्वन्द्व इति किम्? विस्पष्टपटुः॥

Siddhanta Kaumudi

द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ।<!अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे !> (वार्तिकम्) ॥ हरिगुरुहराः । हरिहरगुरवः ॥

Laghu Siddhanta Kaumudi

द्वन्द्वे घिसंज्ञं पूर्वं स्यात्। हरिश्च हरश्च हरिहरौ॥

Balamanorama

द्वन्द्वे घि - द्वन्द्वे घि ।पूर्व॑मित्यनुवर्तते । तदाह — पूर्वं स्यादिति । हरिहरापिति । हरिशब्दस्य घित्वात्पूर्वनिपातः ।ननु ‘हरिहरगुरव’ इत्यत्र गुरुशब्दस्यापि घित्वात्पूर्वनिपातः । स्यादित्यत आह — अनेकेति । अनेकस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातनियमः । शेषेऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः । इदंअल्पाच्तर॑मिति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावदाकृतिं पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते,सकृच्छतत्वात्, न तु प्रतिव्यक्ति, तथा सति प्रतिव्यक्त्यावृत्तिप्रसङ्गात् । ततश्च अनेकघिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः । हरिहरगुरव इति । हरगुरुशब्दयोर्न नियम इति भावः ।

Tattvabodhini

द्वन्द्वे घि - द्वन्द्वे घि ।अनेक॑मिति सर्वेषामेव प्रथमानिर्दिष्टत्वेनोपसर्जनत्वाऽविशेषादनियमप्रापतावयमारम्भः । यत्र त्वनेकं ध्यन्तं तत्र द्वयोरपि पूर्वनिपातनियमः स्यादत आह — — ।अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे । अनेकप्राप्तावेकत्रेति । अत्र व्याचख्युः — आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्त्यावृत्त्या । तत्रैकस्य पूर्वनिपाते सति जातौ लक्षणं प्रवृत्तमेवेति न पुनः प्रवर्तते । व्यक्तिपक्षस्त्विह नाश्रीयते, लक्ष्यानुरोधादिति । हरिहर गुरव इति । हरगुरुशब्दयोर्नं नियमः प्रवर्तत इति भावः ।

Padamanjari

द्वन्द्वे घि॥ द्वन्द्वेऽनेकमिति प्रथमानिर्देशात्सर्वेषामेवोपसर्जनत्वादनियमे प्राप्ते वचनम्। अनेकप्राप्ताविति। आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्त्यावृत्या। तत्रैकस्यैव पूर्वनिपातेन जातौ लक्षणं प्रवृतमेवेति न पुनः प्रवर्तते। नन्वाकृतिपक्षेऽपि पटुअगुप्तौ मृदुगुप्तावित्यादिषु बहुषु व्यक्तिषु यथा युगपत्प्रवर्तते, तथात्रापि प्रवर्तताम्? एवं मन्यते - एकस्य युगपदवध्यवधिमद्भावो विरोधान्न सम्भवति। न चान्तमपेक्ष्योभयोः पूर्वत्वमन्यतरेण व्यवधानादिति, अत्र च यदा पटुअमृद्वोर्द्वन्द्वं कृत्वा पश्चाच्छुक्लशब्दस्य द्वन्द्वः कियते तदाल्पाच्तरत्वातस्य पूर्वनिपाते शुक्लमृदुपटवः, शुक्लपटुअमृदव इति च भवति। विस्पष्टपटुअरिति। विस्पष्टशब्दः प्रवृत्तिनिमितस्य पाटवस्य विशेषणमिति विस्पष्ट्ंअ पटुअरिति विगृह्य’सुप्सुपा’ इति समासः॥

Nyaas

उपसर्जनम् इत्यन्वर्थसंज्ञाविधानादप्रधानस्योपसर्जनसंज्ञा विहिता। द्वन्द्वे च सर्वेषां पदानां प्राधान्यम्। न कस्यचिदप्राधान्यमित्युपसर्जनसंज्ञाया अभावादनियमे प्राप्ते वचनमिदम्। अत्र यत्र बहूनां पूर्वनिपातप्रसङ्गस्तत्र किमेकस्यानियमो भविष्यति, उत सर्वेषामित्याह - अनेकप्राप्तावेकस्य इत्यादि। एव चार्थो जातिपदार्थस्याश्रयणाल्लभ्यते व्यक्तौ तु पदार्थे प्रतिव्यक्ति शास्त्रप्रवृत्या भवितव्यम्, ततः सर्वेषां नियमः स्यात्। आकृतौ तु पदार्थे लक्ष्य एकं लक्षणं सकृदेव प्रवर्तते। तेन चैकस्य पूर्वनिपाते जातिः कृतार्थेति शेषाणामनियमो भवति। एवमुत्तरत्राप्येकस्य नियमः, शेषाणान्त्वनियम इति वेदितव्यम्। विस्पष्टपटुः इति। विस्पष्टः पटुः, मयूरव्यंसकादित्वात्समासः॥

Prakriyasarvasvam

द्वन्द्वे घिसंज्ञं प्राक् प्रयोज्यम् । हरिश्च हरश्च हरिहरौ । अनेकेषां प्राप्तावेकस्य पूर्वनिपुमः अन्यद् यथेष्टम् । हरिगुरुहराः । हरिहरगुरवः ।

Sutra Prayogas

  • पवनाग्निसमागमो (रघुवंशम्): द्वन्द्वे घि इति अग्निशब्दस्य पूर्वनिपातः न, पूर्वनिपातशास्त्रस्यानित्यत्वात्।