22023: शेषो बहुव्रीहिः ====================== **Padacheda:** शेषः | S | 1 | 1 | बहुव्रीहिः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The remaining compound is called बहुव्रीही। Vasu English Translation ------------------------ The remaining compound is called बहुव्रीही। A compound which does not fall within any one of the rules given above, will be *Bahuvrihi*. This is a governing aphorism and extends up to *sūtra* 28. Thus चित्रगुः 'possessed of a brindled cow.' Bhashya ------- शेषो बहुव्रीहिः (443) (अथ बहुव्रीहिप्रकरणम्) (281 बहुव्रीहिसंज्ञासूत्रम् ॥ 2। 2। 1 आ.15 सू.) (शेषपदार्थनिर्वचनाधिकरणम्) (आक्षेपभाष्यम्) शेष इत्युच्यते कः शेषो नाम? ॥ (एकदेशिसमाधानभाष्यम्) येषां पदानामनुक्तः समासः स शेषः ॥ (1377 समाधानबाधकवार्तिकम् ॥ 1 ॥) ॥ शेषवचनं पदतश्चेन्नाभावात् ॥ (भाष्यम्) शेषवचनं पदतश्चेत्। तन्न। किं कारणम्?। अभावात्। नहि सन्ति तानि पदानि येषां पदानामनुक्तः समासः ॥ (एकदेशिसमाधानान्तरभाष्यम्) अर्थतस्तर्हि शेषग्रहणम् - येष्वर्थेषु अनुक्तः समासः स शेषः ॥ (1378 समाधानान्तरबाधकवार्तिकम् ॥ 2 ॥ ॥ अर्थतश्चेदविशिष्टम् ॥ (भाष्यम्) अर्थतश्चेदविशिष्टमेतद्भवति। कुतः?। पदतः। नहि सन्त्यर्थाः येष्वर्थेष्वनुक्तः समासः ॥ (सिद्धान्तिसमाधानभाष्यम्) त्रिकतस्तर्हि शेषग्रहणम्। यस्य त्रिकस्यानुक्तः समासः स शेषः ॥ कस्य चानुक्तः?। प्रथमायाः। शेषो ब ॥ 23 ॥ इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यास्यद्वितीये पादे प्रथममाह्निकम् ॥ Kashika ------- उपयुक्तादन्यः शेषः। शेषः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः? यत्रान्यः समासो नोक्तः। वक्ष्यति — **अनेकमन्यपदार्थे** (२.२.२४) — चित्रगुः। शबलगुः। कृष्णोत्तरासङ्गः। शेष इति किम्? उन्मत्तगङ्गम्। लोहितगङ्गम्। बहुव्रीहिप्रदेशाः — **न बहुव्रीहौ** (१.१.२९) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- अधिकारोऽयम् । द्वितीया श्रिता - (SK683) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- अधिकारोऽयं प्राग्द्वन्द्वात्॥ Balamanorama ------------ **शेषो बहुव्रीहिः** - शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तेरित्यर्थः । ननुद्वितीया श्रिते॑तितृतीया तत्कृते॑तिचतुर्थी तदर्थे॑तिपञ्चमी भयेने॑ति,षष्ठी॑ति,सप्तमी शौण्डै॑रिति च द्वितीयादिविभक्तीनां षण्णां समासो विहितः ।विशेषणं विशेष्येणे॑त्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिर्दुर्लभेत्यत आह — विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रतमाविभकिंत विशिष्य उच्चार्य विधानाऽभावात्समासविधिषु विसिष्यनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरित भावः । तदाह — प्रथमान्त इत्यर्थ इति । एतच्च भाष्ये स्पष्टम् । Tattvabodhini ------------- **शेषो बहुव्रीहिः** - शेषो बहुव्रीहिः ।शिष् असर्वोपयोगे॑ कर्मणि घञ् । अत्र वृत्तिकृत् -,यत्रान्यः समासो नोक्तः स शेष॑ इत्याह ।येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ॑इति हरदत्तो व्याख्यात् । एतच्चप्राक्कडारात्परं कार्य॑मिति पाठाभिप्रायेण बोध्यम् । अस्मिस्तु पक्षे शेषग्रहणाऽभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्राहिः स्यात्, निरवकाशत्वाच्चाऽव्ययीभाव इत्युन्मत्तगङ्ग इत्याद्यनिष्टं पक्षे प्रसज्यते ।आ कडारादेके॑ति पाठाभ्युपगमपक्षे त्वेकसंज्ञाऽधिकारेणावेन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम् । निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात् । अतस्तत्रापि प्रयोजनमाह — द्वितीया श्रितेत्यादिनेति । सेषधिकारस्थबहुव्रीहेरेवशेषाद्विभाषे॑ति कप्प्रत्ययो नान्यस्माद्बहुव्रीहोरित्येतल्लाभार्थमपि शेषग्रहणमावश्यकमिति बोध्यम् । यस्य त्रिकस्येति । यद्यपिप्रादयो गताद्यर्थे प्रथमये॑त्युक्तम्, तथापिद्वितीया श्रितादिभिः॑इतिवत्प्रथमा केनचित्सह समस्यते॑इति नोक्तमित्यर्थः । वार्तिककृता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा । प्रथमान्तमिति ।कण्ठेकाल॑इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः । अन्यस्य पदस्यार्थ इति । समस्यमानपदातिरिक्तस्य पदस्याऽर्थ इत्यर्थः । पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकत्र्रादिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् । यद्यपि त्रिकपक्षे सङ्ख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थं प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं चद्वितीयान्ताद्यर्थे॑इति फलितम् । Padamanjari ----------- शेषे बहुव्रीहिः॥ उपयुक्तादन्यः शेष इति।'शिष असर्वोपयोगे' इत्यस्मात्कर्मणि घञ्। कश्च शेष इति। ननु चोपयुक्तादन्यः शेष इत्युक्तम्, सत्यम्, सर्वेषामेव पदानां सामान्यविशेषरूपेणोपयोगात्सर्वेषु च पूर्वोतरान्यपदार्थेषु यथायोगं तत्पुरुषाव्ययीभावयोर्विधानादुपयुक्तादन्यो न सम्भवतीति पुनः प्रश्नः। उक्तं च -'शेषग्रहं पदतश्चेन्नाभावादर्थतश्चेदविशिष्टम्' इति। यत्रान्यः समासो नोक्त इति। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिकः समासो न विहितः स शेष इत्यर्थः। अथैवं कस्मान्न विज्ञायते - स्पतसु सुपां त्रिकेषु यस्य त्रिकस्य शृङ्गग्राहिकया समासो नोक्तः, यथा - प्रथमायाः,स शेष इति? कण्ठेकाल इत्यादावप्रथमान्तानामपि समासस्येष्टत्वात्। शेषग्रहणं प्राक्कडारात्परं कार्यमित्यस्मिन्पक्षे कर्तव्यम्, एकसंज्ञाधिकारपक्षे न कर्तव्यमित्याकडारसूत्र एव प्रतिपादितम्॥ Nyaas ----- `उपयुक्ताद्योऽन्यः` इति। अभिहितादन्य इत्यर्थः। `यद्यान्यः समासो नोक्तः` इति। यत्रान्या समाससंज्ञा न विहितेत्यर्थः। `चित्रगुः` इति। अत्र बहुव्रीहित्वे सति **बहुव्रीहौ प्रकृत्या पूर्वपदम्** (6.2.1) इत्येष विधिर्भवति। `उन्मत्तगङ्गम्` इति। **अन्यपदार्थे च संज्ञायाम्** (2.1.21) इत्यव्ययीभावः। असति हि शेषग्रहण इहापि बहुव्रीहिः स्यात्। ननु च बहुव्रीहौ प्राप्तेऽव्ययीभावस्त्वारभ्यमाणस्तस्यैव बाधको भविष्यति, तत्कुतो बहुव्रीहिप्रसङ्गः? `प्राक्कडारात् परं कार्यम्` इत्यस्मिन् पक्ष इदं प्रत्युदाहरणमुपन्यस्तम्। तत्र हि पक्षे कयदि शेषग्रहणं न क्रियेत, ततः अन्यपदार्थेच संज्ञायाम्` (2.1.20) इति वचनप्रामाण्यदव्ययीभावः स्यात्। परत्वाद्बहुव्रीहिरित्येके। अयन्तु पक्षो वृत्तिकारेण नाश्रित इत्ययुक्तमेतत्। तस्मात् `आकडारादेका संज्ञा` (1.4.1) इत्यस्मिन् पक्षे `व्यक्तिः पदार्थः` इत्येद्दर्शमाश्रित्येदं प्रत्युदाहरणमुपन्यस्तम्। व्यक्तौ हि पदार्थे प्रतिलक्ष्ये लक्षणं प्रवर्तते। अत्रासति शेषग्रहणे यदेसद्विषयं लक्षणं तदकृतार्थमित्यवश्यं तेन प्रवर्त्तितव्यम्। एकसंज्ञाधिकाराच्च योगपद्यं न सम्भवतीति वचनप्रामाण्यादुभयप्रसङ्गः, उभे अपि पर्यायेण स्यातामित्यपरे॥ Prakriyasarvasvam ----------------- उक्तसमासेभ्योऽन्यो बहुव्रीहिसंज्ञः ।।