22020: अमैवाव्ययेन ================== **Padacheda:** अमा | S | 3 | 1 | एव | S | 0 | 0 | अव्ययेन | S | 3 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When an उपपद is compounded with an indeclinable, then it is compounded only with those अव्ययs which end in the affix अम्। Vasu English Translation ------------------------ When an उपपद is compounded with an indeclinable, then it is compounded only with those अव्ययs which end in the affix अम्। This makes a restriction, to the general compounding of *upapadas* with *avyayas* as ordained by the last rule. As स्वादुकारं भुङ्क्ते 'he eats having made his food sweet.' So also लवणकारं 'having seasoned. The *avyayas* ending in अम् are formed by the affix ण्मुल् (3.4.26) &c. Why do we say 'with *avyayas* ending in अम्'? Observe कालो भोक्तुम् 'the time of eating.' Here the *avyaya* ends in उम् of the affix तुमुन् added by rule (3.3.167) (the affix *tumun* may be applied, when the word in construction is not a verb, but काल, समय or वेला 'time.') The force of the word only is to indicate that this composition takes place in those cases where a rule ordains अम् only, after any root with regard to any upapada; so that no composition will take place where the affix अम् as well as another affix is ordained after a root with certain *upapadas*. Thus *sutra* (3.4.24), declares: "the affixes क्त्वा and णमुल् come after a verb when the words अमे, प्रथम and पूर्व are *upapadas*." Here the अम् (affix णमुल्) is not the sole affix ordained; but there is a co-ordinate affix with it namely क्त्वा. Therefore in अग्रेभोजम् 'having first eaten' there is no composition because अग्रेभोजम् is not the only form we can have; for, अग्रेभुक्त्वा is also used in the same sense. Bhashya ------- अमैवाव्ययेन (440) (280 तत्पुरुषसंज्ञानियमसूत्रम् ॥ 2.2.1 आ.14) (अनिष्टपरिहाराधिकरणम्) (आक्षेपभाष्यम्) एवकारः किमर्थः? ॥ (समाधानभाष्यम्) नियमार्थः ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। सिद्धे विधिरारभ्यमाणोन्तरेणैवकारं नियमार्थो भविष्यति ॥ (समाधानसाधकभाष्यम्) इष्टतोवधारणार्थस्तर्हि भविष्यति। यथैवं विज्ञायेत - अमैवाव्ययेनेति ॥ मैवं विज्ञायि - अमाव्ययेनैवेति ॥ (आक्षेपभाष्यम्) अस्ति चेदानीं कश्चिदनव्ययमम्शब्दो यदर्थो विधिः स्यात् ॥ (समाधानभाष्यम्) अस्तीत्याह - खश्यं ब्राह्मणकुलमिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। अन्तरङ्गत्वादत्र समासो भविष्यति ॥ (समाधानसाधकभाष्यम्) इदं तर्हि प्रयोजनम्। अमैव यत्तुल्यविधानमुपपदं तत्र यथा स्याद् अमा चान्येन च यत्तुल्यविधानं तत्र माभूदिति। अग्रे भोजम्। अग्रे भुक्त्वा ॥ (नियमफलभाष्यम्) अग्रादिष्वप्राप्तविधेः समासप्रतिषेधं चोदयिष्यति। स न वक्तव्यो भवति ॥ अमैवा ॥ 20 ॥ Kashika ------- पूर्वेणैव समासे सिद्धे नियमार्थं वचनम्। अव्ययेनोपपदस्य यः समासः सोऽमैव भवति, नान्येन। स्वादुंकारं भुङ्क्ते। संपन्नंकारं भुङ्क्ते। लवणंकारं भुङ्क्ते। अमैवेति किम्? **कालसमयवेलासु तुमुन्** (३.३.१६७) — कालो भेक्तुम्। एवकारकरणमुपपदविशेषणार्थम्। अमैव यत्तुल्यविधानमुपपदं तस्य समासो यथा स्यात्, अमा चान्येन च यत्तुल्यविधानं तस्य मा भूत् — अग्रे भुक्त्वा। अग्रे भोजम्॥ Siddhanta Kaumudi ----------------- अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । नेह ॥ कालसमयवेलासु तुमुन् (SK3179) ॥ कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाऽग्रेप्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥ Balamanorama ------------ **अमैवाव्ययेन** - अमैवाऽव्ययेन ।अमैवे॑त्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । तुल्यार्थैरतुलोपमाभ्या॑मिति तृतीया । अमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियामार्थमिदमित्याह — तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविदानत्वेऽवधारणार्थत्वात् । स्वादुङ्कारमिति । स्वादुंकृत्वेत्यर्थः । 'ओदनं भुङ्क्ते' इति शेषः ।स्वादुमि णमु॑लिति णमुल् । स्वादुशब्दस्य मान्तत्वं निपातनात् । 'कृन्मेजन्तः' इत्यव्ययत्वम् ।तदेवे॑ति नियमस्य प्रयोजनमाह — नेहेति । 'उपपदसमास' इति शेषः । भोक्तुमिति । यद्यपि॒कालसमयवेलासु॑ इति सप्तमीनिर्देशात्कालसमयवेलानामुपपदत्वन्तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा । अतः कालदीनामुपपदत्वेऽपि न समास इत्यर्थः । अमैवेति किमिति । अमैवेत्येकारः किमर्थ इति प्रश्नः । अमा चान्येन चेति । अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यबिधानत्वाऽभावान्नोपपदसमास इति भावः । Tattvabodhini ------------- **अमैवाव्ययेन** - अमैवाव्ययेन । पूर्वेण सिद्धे नियमार्थमिदम् । तुल्यविधनमिति । एतच्चाध्याहारे लभ्यम् । तदेवेति । यस्मिन्नुपपदेयेन वाक्येन अमेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः । नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः । स्वादुङ्कारमिति ।स्वादुमि णमुल् । अव्ययेनेति किम् । कुम्भकारः । असति ह्रव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत । तथा सतिस्वादुङ्कारः॑इत्यत्रैव समासः स्यान्न तुकुम्भकार॑इत्यत्र अथ पूर्वसूत्रवैयथ्र्यभीत्याऽब्ययविषयकनियम एव इति चेतर्हि अम्न्तविषयक एव किं न स्यात्अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये॑ति । तथा चाग्रेभोजमित्यत्र समासो मा भूत्, अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः । तदेवेति किम् । कालो भोक्तुम् समयोभोक्तुम् ।अमैवे॑त्येवकारेणाऽमा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेवातस्तन्निवरणाय तदेवेत्युक्तम् । Padamanjari ----------- अमैवाव्ययेन॥ स्वादुङ्कारमिति। स्वादुमि णमुल्, स्वादुमीत्यत एव निपातनात्पूर्वपदस्य मान्तत्वम्। स्वादुमीत्यर्थग्रहणम्, तेन संपन्नकारमित्यत्रापि भवति। ननु सिद्धे विधिरारभ्यमाणो नियमाय भवति, एवकारः किमर्थः? इष्टतोऽवधारणार्थः, एवं यथा विज्ञायेत - अमैवाव्ययेनेति, मैवं विज्ञायि - अमाव्ययेनैवेति। अनव्ययस्यासम्भवादेवायं नियमो न भविष्यति। ननु चायमस्ति स्वशयं ब्राह्मणकुलमिति - ठधिकरणे शेतेःऽ इत्यच्, ठतोऽम्ऽ इति सोरम्भावः, अनेनानव्यवेन समासो मा भूदित्येवमर्थो नियमः स्यात्, न; अत्र ह्यन्तरङ्गत्वादनुत्पन्न एव सावुपपदसमासेन भाव्यम्, पश्चात्सुपेति विधानवेलायामनव्ययस्यामोऽसम्भवान्नियमान्तरेण वचनस्य चरितार्थत्वाद्विपरीतनियमो न भविष्यतीत्यत आह - एवकारकरणमिति। अमैव यदुपपदं तत्समस्यते, तदेव समस्यत इत्यक्षरार्थः, न पुनरमैव समस्यत इति। तत्रामैव यदुपपदमित्यत्र तुल्यविधानमिति वाक्यशेषः। किं चामैव तुल्यविधानं येन वाक्येनामेव केवलो विधीयते, न प्रत्ययान्तरसहितस्तेन वाक्येन यदुपपदं विधीयते तत्र सप्तमीनिर्देशातदमैव तुल्यविधानम्। नियमाङ्गभूतस्त्वेवकारो नियमस्वभावादेव लभ्यते - अमैव यतुल्यविधानं न तु प्रत्ययान्तरोत्पतौ निमितमिति तदपेक्षयाऽनुपपदत्वाद् अव्ययान्तरेण समासो नाशङ्कनीयः। अग्रे भोजमिति।'विभाषाग्रेप्रथमपूर्वेषु' इति क्त्वाणमुलौ। अव्ययग्रहणं किम्? असत्यव्ययग्रहणे ठमैव तुल्यविधानं तदेवोपपदं समस्यतेऽ इत्युच्यमाने कुम्भकारादाविपि न स्यात्। अथ पूर्वसूत्रस्यानवकाशत्वादमैव तुल्यविधानस्योपपदस्याव्ययविषयत्वातद्विषय एव नियमो विज्ञास्यत इत्युच्यते? एवं त्वमैव नियमः स्याद् - अमन्तेनोपपदस्य यः समासः सोऽमैव तुल्यविधानस्येति, तत्र को दोषः? अग्रेभोजमित्यत्रैव न स्यात्, अग्रे भुक्त्वा, कालो भोक्तुमित्यत्र तु स्यादेव; अव्ययग्रहणे तु सति अव्ययेनोपपदस्य यः सोऽमैव तुल्यविधानस्येति विज्ञानान्न कश्चिदोषः॥ Nyaas ----- `स्वादुङ्कारं भुङ्क्ते` इति। `स्वादुभि` (3.4.26) इति णमुल्। स्वादुमीत्यतस्मादेव मान्तनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। यदि पूर्वेणैव समासे सिद्धे नियमार्थम् वचनम्; एवञ्च सति सद्धे विधिरारभ्यमाणोऽन्तेरणाप्येवकारकरणं नियमार्थो भविष्यति, तत्किमर्थमेवकारकरणमित्याह - `एवकारककरणम्` इत्यादि किमर्थं पुनस्तदुपपदविशेषणार्थं क्रियत इत्यत आह - `अमैव तुल्यविधानम्` इत्यादि। येन वाक्येनायमेव प्रत्ययो विधीयते न तु प्रत्ययान्तरम्; तेन यदुपपदं निर्दिश्यते तदमैव तुल्यविधानम्, तस्यैव समासो यथा स्यादित्येवमर्थमेवकारकरणमुपपदविशेषणार्थं क्रियते। स च समासः प्रत्यासत्तेरमैव भवति, न प्रत्ययान्तरेणेति विज्ञायते। `अग्रे भुक्त्वा, अग्रे भोजम्` इति। अत्राग्रेशब्द उपपदम् **विभाषाऽग्रेप्रथमपूर्वेषु** (3.4.24) इत्यमा क्त्वाप्रत्ययेन च तुल्यविधानमिति न समस्यते। अव्ययग्रहणं स्पष्टार्थम्। न ह्रनव्यवममन्तमस्ति यन्निवृत्त्यर्थमव्ययग्रहणमर्थवद्भवति॥ Praudhamanorama --------------- अमैवाव्ययेन ॥ **तुल्यविधानमिति ।** एतच्चाऽध्याहारेण लभ्यम् । **तदेवेति ।** नियमस्वभावलब्धाऽर्थकथनपरोऽयमेवकारः, न तु सूत्रस्थः । अव्ययेनेति किम् ? कुम्भकारः । असति ह्यव्ययग्रहणेऽमैव यत्तुल्यविधानं तदेव समस्येत । पूर्वसूत्राऽऽरम्भसामर्थ्यादव्ययविषयक एव नियम इति चेत् । तर्हि अमन्तविषयक एव किं न स्यात् ? ‘अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये’ति । तथाच ‘अग्रेभोजमि’त्यत्र मा भूत् । ‘अग्रे भुक्त्त्वा’ ‘कालो भोक्तुमि’त्यत्र तु स्यादेवेति भावः । Prakriyasarvasvam ----------------- अव्ययेन चेदमन्तेनैवाव्ययेन सह विहितमुपपदं समस्यते । नान्याव्ययेन इत्यलंखल्वोरसमासः । प्राचामित्युक्तेरन्यमते करणेनालम् ।। Sutra Prayogas -------------- * **स्व-पोषम्** (भट्टिकाव्यम्): `अमैवाव्ययेन` इति समासः।