21071: चतुष्पादो गर्भिण्या¶
Padacheda: चतुष्पादः | S | 1 | 3 |
गर्भिण्या | S | 3 | 1 |
Sutrartha¶
Vasu English Summary¶
A case-inflected word denoting a quadruped is compounded with the co-ordinate word गर्भिणी and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
A case-inflected word denoting a quadruped is compounded with the co-ordinate word गर्भिणी and the resulting compound is तत्-पुरुष । गोगर्भिणी ‘a pregnant cow.’ अजागर्भिणी ‘a pregnant she-goat.’
Vart:- It should be stated that the rule is confined to the words denoting genus of quadrupeds. So not here:- कालाक्षी गर्भिणी or स्वस्तिमती गर्भिणी ‘the pregnant cow called Kálákshí or Svastimatí’.
Why do we say ‘quadrupeds ?’ Observe ब्राह्मणी गर्भिणी.
Bhashya¶
चतुष्पादो गर्भिण्या (419) (265 तत्पुरुषसंज्ञासूत्रम् ॥ 2। 1। 3 आ.12 ॥) (1340 वार्तिकम् ॥ 1 ॥) ॥ चतुष्पाज्जातिः ॥ (व्याख्याभाष्यम्) चतुष्पाज्जातिरिति वक्तव्यम्। इह मा भूत् - कालाक्षी गर्भिणी। स्वस्तिमती गर्भिणी ॥ चतुष्पादो गर्भिण्या ॥ 70 ॥
Kashika¶
चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। गोगर्भिणी। अजगर्भिणी॥ चतुष्पाज्जातिरिति वक्तव्यम्॥ इह मा भूत् — कालाक्षी गर्भिणी। स्वस्तिमती गर्भिणी। चतुष्पाद इति किम्? ब्राह्मणी गर्भिणी॥
Siddhanta Kaumudi¶
चतुष्पाज्जातिवाचिनो गर्भिणी शब्देन सह प्राग्वत् । गोगर्भिणी ।<!चतुष्पाज्जातिरिति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । स्वस्तिमती गर्भिणी ॥
Balamanorama¶
चतुष्पादो गर्भिण्या - चतुष्पादो गर्भिण्या ।जातिग्रहणं कर्तव्य॑मिति वार्तिकमभिप्रेत्याह — चुत्ष्पाज्जातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः । विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी ।
Tattvabodhini¶
चतुष्पादो गर्भिण्या - चतुष्पादो । मण्डूकप्लुत्याऽत्रजाति॑रित्यनुवर्तत इत्याह -जातिवाचीति । जातिः किम् ।कालाक्षी गभिणी॑ । चतुष्पात्किम् । ब्राआहृणी गर्भिणी । प्रत्युदाहरणेविशेषण्मिति समासः स्यादेव । गर्भिणीकालाक्षीत्यादिपूर्वनिपाते विशेषः ।
Padamanjari¶
चतुष्पाज्जातिरिति। केचिदाहुः - पोटादिसूत्राज्जातिग्रगणमनुवर्त्यमिति। अन्ये त्वाहुः - ये शब्दान्तरनिरपेक्षाश्चतुष्पाज्जातिवचनाः, त एवान्तरङ्गत्वाद् गृह्यन्ते, न तु कालाक्ष्यादयो यौगिकाः शब्दान्तरसंनिधानाच्चतुष्पाद्विषया इति। गर्भिणीशब्दस्य परनिपादार्थं वचनम्॥
Nyaas¶
चतुष्पादः इति। चत्वारः पादा यासां ताश्चतुष्पादः। पादस्य लोपोऽहस्त्यादिभ्यः (5.4.138) इत्यन्तस्य लोपः। चतुष्पाज्जातिरिति वक्तव्यम् इति। चतुष्पादो जातिवचना एव गर्भिण्या समस्यन्त इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पोटादि (2.1.64) सूत्रादिह जातिग्रहणमनुर्तते। तेन चतुष्पज्जातिवाच्येव गर्भिण्या समस्यते, नान्यदिति॥
Praudhamanorama¶
चतुष्पादो गर्भिण्या ॥ मण्डूकप्लुत्या ‘जातिरि’त्यनुवर्तते । तेनेह न- ‘कालाक्षी गर्भिणी’ । चतुष्पात् किम् । ब्राह्मणी गर्भिणी । प्रत्युदाहरणे तु ‘विशेषणमि’ति समासः स्यादेव । पूर्वनिपाते विशेषः ।
Prakriyasarvasvam¶
चतुष्पाज्जातिर्गर्भिण्या समस्यते । गोगर्भिणी । पुंवत्त्वान्मृगगर्भिणी ।
Vartika¶
चतुष्पाज्जातिरिति वक्तव्यम् ।