21070: कुमारः श्रमणादिभिः

Padacheda: कुमारः | S | 1 | 1 |

श्रमण-आदिभिः | S | 3 | 3 |

Sutrartha


Vasu English Summary

The word कुमार ‘a boy’ is compounded with co-ordinate words श्रमण ‘an ascetic’ etc. and the resulting compound is तत्-पुरुष ।

Vasu English Translation

The word कुमार ‘a boy’ is compounded with co-ordinate words श्रमण ‘an ascetic’ etc. and the resulting compound is तत्-पुरुष । In this list of श्रमणा and the rest, with the words which are feminine such as श्रमणा, प्रव्रजिता, कुलटा, the word कुमार must also be in the feminine gender; with the words which appear as masculine, e.g. अध्यापक, अभिरूपक, पण्डित the word कुमार must -also be masculine, because ‘a Prátipadika denotes, whenever it is employed also such a crude form as is derived from it by the addition of an affix denoting gender.’

As, कुमारीश्रमणा and कुमारश्रमणाः ‘a virgin ascetic or a bachelor ascetic.’

श्रमणादिभिः

  1. श्रमण = Labouring, toiling. 2. प्रव्रजिता = Gone abroad or into exile. 3. कुलटा = An unchaste woman. 4. गर्भिणी = A pregnant female. 5. तापसी = A hermit, devotee. 6. दासी = A female servant. 7. बन्धकी = An unchaste woman. 8. अध्यापक = A teacher. 9. अभिरूपक = Handsome. 10. पण्डित = Learned, wise. 11. मृदु = Soft. 12. कुशल = Right, proper, good. 13. चपल = Shaking, trembling. 14. निपुण = Clever, sharp, skillful.

Kashika

कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। येऽत्र स्त्रीलिङ्गाः पठ्यन्ते श्रमणा, प्रव्रजिता, कुलटेत्येवमादयः, तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते। ये तु पुँल्लिङ्गा अध्यापकोऽभिरूपकः पण्डित इति, तैरुभयथा प्रातिपदिग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति। कुमारी श्रमणा, कुमारश्रमणा॥ श्रमणा। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण॥

Siddhanta Kaumudi

कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥

Tattvabodhini

कुमारः श्रमणाऽऽदिभिः - एतदेवेत् । एलकारः स्फुटसिद्धतच्वद्योतनार्थो, न त्ववधारणार्थः,युवा खलती॑ति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात् । न हि युवन्शब्दस्य पुंस्त्वं जरतीसामानाधिकरण्यं सङ्गच्छते ।

Padamanjari

कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् ॥

Nyaas

तैः सह स्त्रीलिङ्ग एव कुमारीशब्दः समस्यते इति। न तु पुंल्लिङ्ग इत्यवधारणेन दर्शयति। न हि पुंल्लिङ्गस्य स्त्रीलिङ्गेन सामानाधिकरण्यमुपपद्यत इति भावः। तैरुपभयथा इति। स्त्रीलिङ्गः, पुंल्लिङश्च। कथं पुनः पुंल्लिङ्गैः समास उच्यमानः स्त्रीलिङ्गैः स्यादित्यत आह - प्रातिपदिकग्रहणे इति। गतार्थम्॥

Praudhamanorama

कुमारः ॥ एतदेवेति । एवकारः स्फुटसिद्धत्वद्योतनाऽर्थः । ज्ञापका- ऽन्तरस्याऽपि सम्भवात् । तथा हि-’युवा खलती’ ति सूत्रे ‘जरतिग्र’ हणं लिङ्गम् । न हि युवन्शब्दस्य पुंस्त्वे जरतीसामानाधिकरण्ये न्याय्यम् । यत्तु अश्वादिभ्यः फञ्चिधौ ‘पुंसि जाते’ इति गणसूत्रे ‘पुंसी’त्युक्तिरपीह ज्ञापिकेति । तन्न । एकादेशस्य पूर्वान्तग्रहणेन ज्ञापकस्य मूलशैथिल्यात् ।

Prakriyasarvasvam

कुमारशब्द एभिः समस्यते । श्रमणाप्रव्रजितावन्धकीकुलटागर्भिणीतापसी- दास्यध्यापकाभिरूपकपण्डितकुशलचपलनिपुणपटुमृदुभिः । आद्यानां सप्तानां स्त्रीत्वात् पूर्वपदस्यापि स्त्रीत्वे पुंवत्त्वम् । कुमारी श्रमणा कुमारश्रमणा । कुमारकुलटा । अस्त्रीषु कुमाराध्यापक इत्यादि ॥