21070: कुमारः श्रमणादिभिः ========================= **Padacheda:** कुमारः | S | 1 | 1 | श्रमण-आदिभिः | S | 3 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The word कुमार 'a boy' is compounded with co-ordinate words श्रमण 'an ascetic' etc. and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ The word कुमार 'a boy' is compounded with co-ordinate words श्रमण 'an ascetic' etc. and the resulting compound is तत्-पुरुष । In this list of श्रमणा and the rest, with the words which are feminine such as श्रमणा, प्रव्रजिता, कुलटा, the word कुमार must also be in the feminine gender; with the words which appear as masculine, e.g. अध्यापक, अभिरूपक, पण्डित the word कुमार must -also be masculine, because 'a *Prátipadika* denotes, whenever it is employed also such a crude form as is derived from it by the addition of an affix denoting gender.' As, कुमारीश्रमणा and कुमारश्रमणाः 'a virgin ascetic or a bachelor ascetic.' श्रमणादिभिः 1. श्रमण = Labouring, toiling. 2. प्रव्रजिता = Gone abroad or into exile. 3. कुलटा = An unchaste woman. 4. गर्भिणी = A pregnant female. 5. तापसी = A hermit, devotee. 6. दासी = A female servant. 7. बन्धकी = An unchaste woman. 8. अध्यापक = A teacher. 9. अभिरूपक = Handsome. 10. पण्डित = Learned, wise. 11. मृदु = Soft. 12. कुशल = Right, proper, good. 13. चपल = Shaking, trembling. 14. निपुण = Clever, sharp, skillful. Kashika ------- कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। येऽत्र स्त्रीलिङ्गाः पठ्यन्ते श्रमणा, प्रव्रजिता, कुलटेत्येवमादयः, तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते। ये तु पुँल्लिङ्गा अध्यापकोऽभिरूपकः पण्डित इति, तैरुभयथा **प्रातिपदिग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्** इति। कुमारी श्रमणा, कुमारश्रमणा॥ श्रमणा। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण॥ Siddhanta Kaumudi ----------------- कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥ Tattvabodhini ------------- **कुमारः श्रमणाऽऽदिभिः** - एतदेवेत् । एलकारः स्फुटसिद्धतच्वद्योतनार्थो, न त्ववधारणार्थः,युवा खलती॑ति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात् । न हि युवन्शब्दस्य पुंस्त्वं जरतीसामानाधिकरण्यं सङ्गच्छते । Padamanjari ----------- कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् ॥ Nyaas ----- `तैः सह स्त्रीलिङ्ग एव कुमारीशब्दः समस्यते` इति। न तु पुंल्लिङ्ग इत्यवधारणेन दर्शयति। न हि पुंल्लिङ्गस्य स्त्रीलिङ्गेन सामानाधिकरण्यमुपपद्यत इति भावः। `तैरुपभयथा` इति। स्त्रीलिङ्गः, पुंल्लिङश्च। कथं पुनः पुंल्लिङ्गैः समास उच्यमानः स्त्रीलिङ्गैः स्यादित्यत आह - `प्रातिपदिकग्रहणे` इति। गतार्थम्॥ Praudhamanorama --------------- कुमारः ॥ **एतदेवेति ।** एवकारः स्फुटसिद्धत्वद्योतनाऽर्थः । ज्ञापका- ऽन्तरस्याऽपि सम्भवात् । तथा हि-’युवा खलती’ ति सूत्रे ‘जरतिग्र’ हणं लिङ्गम् । न हि युवन्शब्दस्य पुंस्त्वे जरतीसामानाधिकरण्ये न्याय्यम् । यत्तु अश्वादिभ्यः फञ्चिधौ ‘पुंसि जाते’ इति गणसूत्रे ‘पुंसी’त्युक्तिरपीह ज्ञापिकेति । तन्न । एकादेशस्य पूर्वान्तग्रहणेन ज्ञापकस्य मूलशैथिल्यात् । Prakriyasarvasvam ----------------- कुमारशब्द एभिः समस्यते । श्रमणाप्रव्रजितावन्धकीकुलटागर्भिणीतापसी- दास्यध्यापकाभिरूपकपण्डितकुशलचपलनिपुणपटुमृदुभिः । आद्यानां सप्तानां स्त्रीत्वात् पूर्वपदस्यापि स्त्रीत्वे पुंवत्त्वम् । कुमारी श्रमणा कुमारश्रमणा । कुमारकुलटा । अस्त्रीषु कुमाराध्यापक इत्यादि ॥