21062: वृन्दारकनागकुञ्जरैः पूज्यमानम्

Padacheda: वृन्दारक-नाग-कुञ्जरैः | S | 3 | 3 |

पूज्यमानम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

A case-inflected word denoting object deserving of respect is compounded with the words वृन्दारक ‘eminent’, नाग ‘serpent or elephant’, कुञ्जर ‘elephant’ and the resulting compound is तत्-पुरुष ।

Vasu English Translation

A case-inflected word denoting object deserving of respect is compounded with the words वृन्दारक ‘eminent’, नाग ‘serpent or elephant’, कुञ्जर ‘elephant’ and the resulting compound is तत्-पुरुष । As गोवृन्दारकः ‘an excellent bull or cow.’ अश्ववृन्दारकः ‘an excellent horse’. So also गोनागः &c. Why do we say ‘when meaning the object deserving of respect?’ Observe सुसीमोनागः ‘the serpent Susima.’

Kashika

वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। पूज्यमानमिति वचनाद् वृन्दारकादयः पूजावचना गृह्यन्ते। गोवृन्दारकः। अश्ववृन्दारकः। गोनागः। अश्वनागः। गोकुञ्जरः। अश्वकुञ्जरः। पूज्यमानमिति किम्? सुषीमो नागः॥

Siddhanta Kaumudi

गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ॥

Balamanorama

वृन्दारकनागकुञ्जरैः पूज्यमानम् - वृन्दारकनाग ।समानाधिकरणैः समस्यते॑ इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम् । गोवृन्दारक इति । वृन्दारकशब्दो देवतावाची ।अमरा निर्जरा देवाः॑ इत्युपक्रम्यं,वृन्दारका दैवतानी॑त्यमरः । गौर्वृन्दारक इवेति विग्रहः । गौर्नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गौर्वृन्दारादितुल्यत्वात् श्रैष्ठं गम्यत इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वात्उपमितं व्याघ्रादिभि॑रित्येव सिद्धे किमर्थमिदमित्यत आह — व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादिविति भावः ।

Padamanjari

वृन्दाकरश्बदो देवजातिवचजनः, इतरौ हस्तिजातिवचनौ, तत्रोपमानत्वे सति पूजावचनता सम्भवति। तत्र व्याघ्रादेराकृतिगणत्वात्सिध्दे समासे पूजायामेव यथा स्यान्निन्दायां मा भूदित्येवमर्थं वचनम्। इह मा भूत् - माणवकोऽयं नागो यस्मान्मूर्क इति। समान्यप्रयोगेऽपि यथा स्यादित्यन्ये। सुषीम इति संज्ञेयं नागविशेषस्य। यद्येवम्, विशेषणं विशेष्येणेत्यधिकारादेवात्र न भविष्यति, न ह्यनागः सुषीमोऽस्ति? तस्यम्; प्रत्युदाहरणदिगियं दर्शिता, माणवकोऽयं नाग इति प्रत्युदाहरणम्॥

Nyaas

वन्दारकादयो जातिशब्दाः। ते चोपमानत्वे सति पूजावचना भवन्ति। तत्र व्याघ्रादेराकृतिगणत्वात् उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2.1.56) इत्येवं सिद्धे समान्यप्रयोगगेऽपि यथा स्यादित्येवमर्थोऽयमारम्भः। ``पूज्यमानम्` इति वचनाद्वृन्दारकादयः पूजावचनना गृह्यन्ते` इति। न ह्रन्यथा पूज्यमानत्वमुपपद्यत इति भावः।सुषीमो नागः इति। ननु च विशेषणं विशेष्येणेति वर्तते। न च नागादन्यः सुषीमोऽस्ति, संज्ञा ह्रेषा नागस्यैव? एवं तर्हि प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता।इदन्त्वत्र प्रत्युदाहरणम् - देवदत्तो नागो यस्मान्मूर्ख इति॥

Prakriyasarvasvam

पूज्यमानमेतैः समस्यते । वृन्दारकः श्रेष्ठवाची । द्विजवृन्दारकः । बुधनागः । कविकुञ्जरः ॥

Sutra Prayogas

  • कपि-कुञ्जरः (भट्टिकाव्यम्): वृन्दारक-नाग- कुञ्जरैः इत्यादिना कर्मधारयः ।