21061: सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः¶
Padacheda: सत्-महत्-परम-उत्तम-उत्कृष्टाः | S | 1 | 3 |
पूज्यमानैः | S | 3 | 1 |
Sutrartha¶
Vasu English Summary¶
The words सत् ‘good, महत् ‘great’, परम ‘highest’, उत्तम ‘best’ and उत्कृष्ट ‘excellent’ are compounded with the words denoting the person deserving the respect and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
The words सत् ‘good, महत् ‘great’, परम ‘highest’, उत्तम ‘best’ and उत्कृष्ट ‘excellent’ are compounded with the words denoting the person deserving the respect and the resulting compound is तत्-पुरुष । As सत्पुरुषः ‘a good person,’ महापुरुषः ‘a great man;’ परमपुरुषः ‘the highest person;’ उत्तमपुरुषः ‘the best person ;’ उत्कृष्टपुरुषः ‘the excellent person.’
Why do we say ‘with words denoting the person deserving of respect ?’ Observe उत्कृष्टः गौः कर्दमात् ‘the ox was pulled out of the mud’.
Kashika¶
सत् महत् परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। सत्पुरुषः। महापुरुषः। परमपुरुषः। उत्तमपुरुषः। उत्कृष्टपुरुषः। पूज्यमानैरिति किम्? उत्कृष्टो गौः कर्दमात्॥
Siddhanta Kaumudi¶
सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ॥
Balamanorama¶
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः - सन्महत्परम ।समानाधिकरणैः समस्यन्ते स तत्पुरुषः॑ इति शेषः । सद्वैद्य इति । सन्-वैद्य इति विग्रहः । चिकित्साशास्त्ररकूलङ्कषज्ञानवत्त्वं सत्त्वम् । तेन वैद्यस्य पूजा गम्यते । पूर्वनिपातनियमार्थं सूत्रम् । वक्ष्यमाणेनेति । महांश्चासौ वैयाकरणश्चेति विग्रहेऽनेन समासे सति महच्छब्दस्य ‘आन्महतः’ इति वक्ष्यमाणेन आकारेऽन्तादेशे सवर्णदीर्घे ‘महावैयाकरण’ इति भवतीत्यर्थः । ननूत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्याऽतिशयितवाचितया तेन गोः पूजावगमात्कथमिह समासो न भवतीत्यत आह — पङ्कादुद्धृत इत्यर्थ इति । उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः । गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम् ।
Tattvabodhini¶
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः - सन्महत् । गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् । कतरकतमौ । जातिपरिप्रश्ने किम् । कतरो देवदत्तः ।वा बहूनां जातिपरिप्रश्ने डतम॑जिति व्युत्पादितकतमशब्दसाहचर्यातादृशास्यैव कतरशब्दस्यापि ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं ज्ञापयतिकतमश दोऽर्थान्तरेऽपिसाधुः॑इति । तथा च प्रत्युदाहृतं प्राचीनवृत्तिषुकतरो भवतोर्देवदत्तः, कतमो भवतां देवदत्तः॑इति ।
Padamanjari¶
पूज्यमानैरिति वचनादिति। पूज्यमानस्य पूजापेक्षत्वादिति भावुः। अत एव सदिति स्वरूपग्रहणं न शतृशानचोः, न हि तौ पूजामाहतुः। उत्कृष्टो गोरिति। उध्दृत इत्यर्थः। महाजनः, महोदधिरित्यादौ पूजाभावेऽपि विशेषणं विशेष्येणेति समासः। वचनं तु गुणक्रियाश्बदैरपि समासे सदादीनामेव पूर्वनिपातनियमार्थम्॥
Praudhamanorama¶
सन्महत् ॥ गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् ।
Prakriyasarvasvam¶
सत्पुरुषः । महामुनिरित्यादि । अत्र ‘आन्महतः–’ (६-३-४६) इत्यात्त्वम् ॥
Sutra Prayogas¶
महासुरः (कुमारसम्भवम्): सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति तत्पुरुषः।
परमर्षयः (कुमारसम्भवम्): सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः इति तत्पुरुषः।