21062: वृन्दारकनागकुञ्जरैः पूज्यमानम् ===================================== **Padacheda:** वृन्दारक-नाग-कुञ्जरैः | S | 3 | 3 | पूज्यमानम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A case-inflected word denoting object deserving of respect is compounded with the words वृन्दारक 'eminent', नाग 'serpent or elephant', कुञ्जर 'elephant' and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A case-inflected word denoting object deserving of respect is compounded with the words वृन्दारक 'eminent', नाग 'serpent or elephant', कुञ्जर 'elephant' and the resulting compound is तत्-पुरुष । As गोवृन्दारकः 'an excellent bull or cow.' अश्ववृन्दारकः 'an excellent horse'. So also गोनागः &c. Why do we say 'when meaning the object deserving of respect?' Observe सुसीमोनागः 'the serpent *Susima*.' Kashika ------- वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। पूज्यमानमिति वचनाद् वृन्दारकादयः पूजावचना गृह्यन्ते। गोवृन्दारकः। अश्ववृन्दारकः। गोनागः। अश्वनागः। गोकुञ्जरः। अश्वकुञ्जरः। पूज्यमानमिति किम्? सुषीमो नागः॥ Siddhanta Kaumudi ----------------- गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ॥ Balamanorama ------------ **वृन्दारकनागकुञ्जरैः पूज्यमानम्** - वृन्दारकनाग ।समानाधिकरणैः समस्यते॑ इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम् । गोवृन्दारक इति । वृन्दारकशब्दो देवतावाची ।अमरा निर्जरा देवाः॑ इत्युपक्रम्यं,वृन्दारका दैवतानी॑त्यमरः । गौर्वृन्दारक इवेति विग्रहः । गौर्नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गौर्वृन्दारादितुल्यत्वात् श्रैष्ठं गम्यत इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वात्उपमितं व्याघ्रादिभि॑रित्येव सिद्धे किमर्थमिदमित्यत आह — व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादिविति भावः । Padamanjari ----------- वृन्दाकरश्बदो देवजातिवचजनः, इतरौ हस्तिजातिवचनौ, तत्रोपमानत्वे सति पूजावचनता सम्भवति। तत्र व्याघ्रादेराकृतिगणत्वात्सिध्दे समासे पूजायामेव यथा स्यान्निन्दायां मा भूदित्येवमर्थं वचनम्। इह मा भूत् - माणवकोऽयं नागो यस्मान्मूर्क इति। समान्यप्रयोगेऽपि यथा स्यादित्यन्ये। सुषीम इति संज्ञेयं नागविशेषस्य। यद्येवम्, विशेषणं विशेष्येणेत्यधिकारादेवात्र न भविष्यति, न ह्यनागः सुषीमोऽस्ति? तस्यम्; प्रत्युदाहरणदिगियं दर्शिता, माणवकोऽयं नाग इति प्रत्युदाहरणम्॥ Nyaas ----- वन्दारकादयो जातिशब्दाः। ते चोपमानत्वे सति पूजावचना भवन्ति। तत्र व्याघ्रादेराकृतिगणत्वात् **उपमितं व्याघ्रादिभिः सामान्याप्रयोगे** (2.1.56) इत्येवं सिद्धे समान्यप्रयोगगेऽपि यथा स्यादित्येवमर्थोऽयमारम्भः। ``पूज्यमानम्` इति वचनाद्वृन्दारकादयः पूजावचनना गृह्यन्ते` इति। न ह्रन्यथा पूज्यमानत्वमुपपद्यत इति भावः।`सुषीमो नागः` इति। ननु च विशेषणं विशेष्येणेति वर्तते। न च नागादन्यः सुषीमोऽस्ति, संज्ञा ह्रेषा नागस्यैव? एवं तर्हि प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता।इदन्त्वत्र प्रत्युदाहरणम् - देवदत्तो नागो यस्मान्मूर्ख इति॥ Prakriyasarvasvam ----------------- पूज्यमानमेतैः समस्यते । वृन्दारकः श्रेष्ठवाची । द्विजवृन्दारकः । बुधनागः । कविकुञ्जरः ॥ Sutra Prayogas -------------- * **कपि-कुञ्जरः** (भट्टिकाव्यम्): `वृन्दारक-नाग- कुञ्जरैः` इत्यादिना कर्मधारयः ।