21057: विशेषणं विशेष्येण बहुलम्

Padacheda: विशेषणम् | S | 1 | 1 |

विशेष्येण | S | 3 | 1 |

बहुलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

A case-inflected word denoting the qualifier (the Adjective), is compounded diversely with a case-inflected word denoting the thing thereby qualified, (the Substantive), the latter being in agreement (same case) with the former and the resulting compound is तत्-पुरुष ।

Vasu English Translation

A case-inflected word denoting the qualifier (the Adjective), is compounded diversely with a case-inflected word denoting the thing thereby qualified, (the Substantive), the latter being in agreement (same case) with the former and the resulting compound is तत्-पुरुष । The ‘discriminator’ is called विशेषण and the ‘discriminated’ is called विशेष्य as नीलोत्पलं ‘a blue lotus,’ रक्तोत्पलं ‘a red lotus.’

By using in the rule the expression बहुल ‘ diversely’ it is meant that in some cases it is imperative to make a compound (नित्यसमास) as कृष्णसर्पः ‘a black snake.’ लोहितशालिः ‘red rice’:-and sometimes it is forbidden; as, रामो जामदग्न्यः ‘Rama called also Jamadagnya’ (as being the son of Jamadagni): अर्जुनः कार्त्तवीर्यः -and in some cases it is optional, नीलमुत्पलं or नीलोत्पलं.

Why do we say ‘qualifier ?’ Observe तक्षकः सर्पः ‘the Takshaka snake.’

Why do we say ‘qualified.’ Observe लोहितस्तक्षकः ‘the red Takshaka.’

Bhashya

विशेषणं विशेष्येण बहुलम् (405) (259 तत्पुरुषसंज्ञासूत्रम् ॥ 2 । 1। 3 आ. 6 सू.) (विशेषणस्योपसर्जनत्वाधिकरणम्) (1322 आक्षेपवार्तिकम् ॥ 1 ॥) ॥ विशेषणविशेष्ययोरुभयविशेषणत्वादुभयविशेष्यत्वादुपसर्जनाप्रसिद्धिः ॥ (व्याख्याभाष्यम्) विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः। कृष्णतिला इति कृष्णशब्दोयं तिलशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तथा तिलशब्दः कृष्णशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तदुभयं विशेषणं भवत्युभयं च विशेष्यम्। विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः ॥ (1323 समाधानवार्तिकम् ॥ 2 ॥) ॥ नवान्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनप्रसिद्धिः ॥ (व्याख्याभाष्यम्) नवा एष दोषः ॥ किं कारणम्?। अन्यतरस्य प्रधानभावात्। अन्यतरदत्र प्रधानम् ॥ तद्विशेषकत्वाच्चापरस्य। तद्विशेषकं चापरम्। अन्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनसंज्ञा भविष्यति यदाऽस्य तिलाः प्राधान्येन विवक्षिता भवन्ति कृष्णो विशेषकत्वेन, तदा तिलाः प्रधानं कृष्णो विशेषणम् ॥ (आक्षेपभाष्यम्) कामं तर्ह्यनेनैव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिता भवन्ति तिला विशेषणत्वेन, तेन कर्तव्यं तिलकृष्णा इति ॥ (समाधानभाष्यम्) न कर्तव्यम्। नह्ययं द्वन्द्वः - तिलाश्च कृष्णाश्चेति। न खल्वपि षष्ठीसमासः - तिलानां कृष्णा इति। किं तर्हि?। द्वाविमौ प्रधानशब्दौ एकस्मिन्नर्थे युगपदवरुध्येते। न च द्वयोः प्रधानशब्दयोरेकस्मिन्नर्थे युगपदवरुध्यमानयोः किंचिदपि प्रयोजनमस्ति, तत्र प्रयोगादेतद्गन्तव्यम् - नूनमत्रान्यतरत्प्रधानं तद्विशेषकं चापरमिति। तत्र त्वेतावान् संदेहः - किं प्रधानं किं विशेषणमिति। स चापि क्व संदेहः यत्रोभौ गुणशब्दौ। तद्यथा - खञ्ञ्जकुब्जः कुब्जखञ्ञ्ज इति। यत्र ह्यन्यतरद् द्रव्यमन्यतरो गुणः, तत्र यद् द्रव्यं तत्प्रधानम्। तद्यथा - शुक्लमालभेत कृष्णमालभेत न पिष्टपिण्डीमालभ्य कृती भवति। अवश्यं तद्गुणं द्रव्यमाकाङ्क्षति ॥ (आक्षेपभाष्यम्) कथं तर्हीमौ द्वौ प्रधानशब्दावेकस्मिन्नर्थे युगपदवरुध्येते - वृक्षः शिंशपेति? ॥ (समाधानभाष्यम्) नैतयोरावश्यकः समावेशः। नह्यवृक्षः शिंशपास्ति ॥ विशेषणम् ॥ 56 ॥

Kashika

भेदकं विशेषणम, भेद्यं विशेष्यम्। विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। नीलोत्पलम्। रक्तोत्पलम्। बहुलवचनं व्यवस्थार्थम्। क्वचिन्नित्यसमास एव। कृष्णसर्पः। लोहितशालिः। क्वचिन्न भवत्येव — रामो जामदग्न्यः। अर्जुनः कार्तवीर्यः। क्वचिद् विकल्पः — नीलमुत्पलम्, नीलोत्पलम्। विशेषणमिति किम्? तक्षकः सर्पः। विशेष्येणेति किम्? लोहितस्तक्षकः॥

Siddhanta Kaumudi

भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥

Laghu Siddhanta Kaumudi

भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥

Balamanorama

विशेषणं विशेष्येण बहुलम् - विशेषणं विशेष्येण । विशिष्यते अनेनेति विशेषणम्, इतरस्माद्व्यावर्तकम् । व्यावर्त्त्यं तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाह — भेदकमिति प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलोत्पलमिति । नीलपदं तावदुत्पलमनीलादुत्पलाद्व्यावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्य समर्पकेण समासः । प्रतमानिर्दिष्टत्वाद्विशेषणस्यपूर्वनिपात इति भावः । नच उत्पलपदमनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यं, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषण समर्पकः, स्वभावात् । यथा-॒नीलोत्पलं॑ ‘पाचकब्राआहृण’ इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा-खञ्जकुब्जः कुब्जखञ्ज इति । क्रियाशब्दयोरप्यनियमः । यथा-॒खञ्जपाचकः॑ ‘पाचकखञ्ज’ इति -इतिभाष्ये स्पष्टम् । तथा ‘कैलासाद्रिः’ ‘मन्दराद्रिः’अयोध्यानगरी॑त्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात् । सामान्यजाति-विशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् । ‘शिंशपावृक्ष’ इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह — बहुलग्रहणादिति ।

Tattvabodhini

विशेषणं विशेष्येण बहुलम् - विशेषणम् । विशिष्यते येन तद्विशेषणं । कर्तुः करणत्वविवक्षायां ल्युट् । तदाह — भेदकमिति । व्यावर्तकमित्यर्थः । विशेषणविशेष्ययोः स संबन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोरुपादानां स्पष्टर्थमिति कैयटः । एतच्चकुत्सितानि कुत्सनै॑रित्यत्रापि तुल्यम् । हरदत्तस्त्वाह — ॒समस्यमानपदद्वयजन्यबोधप्रकारकयोविशेषणविशेष्यधर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो भवति, न तुतक्षकः सर्पः॑ इत्यादौ । न हि तक्षकत्वं सर्पत्वं व्यभिचरती॑ति । तन्मदम् ।कैलासाद्रिः,मन्दराद्रिः॑,॒भावपदार्थः॒॑तर्कविद्या,॒॑व्याकरणशास्त्रं॑,॒भोजराजः॑, इत्यादिप्रयोगाणामसाङ्गत्यापत्तेः । ननु विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्ययस्थितः पूर्वनिपातः स्यादिति चेदत्राहुः — जातिशब्दस्य गुणक्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । तेन॒नीलोत्पलं॑पाचकब्राआहृण॑ इति व्यवस्थित एव प्रयोगः । गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । खञ्जकुब्जः, कुब्जखञ्जः । पाचकपाठकः, पाठकपाचकाः । खञ्जपाचकः, पाचकखञ्ज इति । अत्र मूलमुपसर्जनमिति महासंज्ञा । अप्रधानां ह्रुपसर्जनम् । गुणक्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति ।अपरस्यार्ध इति । एतच्चपश्चा॑दिति सूत्रे भाष्ये स्थितम् । बहुलग्रहणादिति । एकेषु मुख्येषु वीरयते पराक्रमते इति वा बोध्यम् ।

Padamanjari

भेदकमिति। असिश्च्छिनतीतिवत् करणस्य कर्तृत्वविवक्षायां ण्वल्। विशेषणमिति।’शिष्लृ शेषणे’ विपूर्वः, विशेष्यतेऽनेनेति विशेषणम्, करणे ल्यट्। यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छद्य एकस्मिन्प्रकारे व्यवस्थापयति तत्पदं विशेषणं भेदकमिति चोच्यते। वियवस्थाप्यमानं विशेष्यं भेद्यमिति च। ननु च विशेष्यमिति च सम्बन्धिशब्दावेतौ, ततश्च विशेषणमित्युक्ते गम्यत एव - विशेष्येणेति, एवं विशेष्येणेत्युक्ते गम्यते-विशेषणमिति, तत्किमर्थमुभयमुपादीयते? यत्र पूर्वोतरपदयोर्द्वयोरपि प्रत्यकं विशेषणविशेष्यभावस्तत्रैव यथा स्याद्, यथा-नीलोत्पलमिति। अत्र हि नीलार्थो भ्रमरादिसाधारणरुपेण प्रतिपन्न उत्पलार्थेनोत्पले व्यवस्थाप्यते, उत्पलार्थो हि रक्तादिसाधारणरुपेण प्रतिपन्नो नीलार्थेन नीले व्यपस्थाप्यत इति भवति प्रत्येकमुभयभावः। यत्र तु स नास्ति न तत्र समासो भवति, यथा प्रत्युदाहरणे-तक्षकः सर्प इति, न हि तक्षकः सर्पत्वं व्यभिचरति। ननु व्यभिचरति, क्रियानिमितकोऽपि तक्षकशब्दोऽस्ति - तक्ष्णोतीति तक्षत इति? सत्यमस्ति; न त्वसौ नामधेयेन गाहते तुल्यकक्षताम्, द्रागेव रूढौ प्रतिभा क्रियाशब्दो विलम्बिता। इह तु शिंशपावृक्ष इति, शिशंपाशब्दस्य फलेऽपि दर्शनाद्वक्षव्यभिचाराद्भवत्येव समासः, न चात्र वृक्षप्रतीतिपूर्विका फले प्रतीतिर्येन बहिरङ्गा स्यात्। यथेव हि पञ्चालादयः शब्दा जनपदिनां जनपदस्य च साधारण्येनान्योऽन्ययोगमपेक्षन्ते तद्वदेदेऽपि। यथोवाच भगवान्-ठ्लुब्योगाप्रख्यानात्ऽ इति इह तर्हि कथम् ठथ जयाय नु मेरुमहीभृतःऽ इति, न मेरुर्महीभृत्वं व्यभिचरति? निरंकुशाः कवयः। यदि तर्हि यत्र प्रत्येकमुभयभावस्तत्र समासः, उभयोरपि विशेषणत्वमिति प्रथमानिर्दिष्टत्वादुपसर्जनत्वे सति पूर्वनिपातानियमः स्याद् - नीलोत्पलम्? अर्थ तश्चाप्राधान्यम्। तदिह द्रव्यगुणोपनिपाते द्रव्यं प्रधानम्, अप्रधानं गुणः। द्रव्यं हि क्रियासिध्दौ साक्षादुपयुज्यते, गुणस्तु द्रव्यावच्छेदद्वारेण। अतो गुणवचनस्यैव पूर्वनिपातः, न द्रव्यवचनस्य। ननूत्पलशब्दोऽपि जातिशब्दः, न द्रव्यशब्दः; यदि तु जातिविशिष्टे द्रव्ये पर्यवसानाद् द्रव्यशब्दत्वम्, हन्तैवं नीलशब्दोऽपि गुणिविशिष्टे द्रव्ये पर्यवस्यन् द्रव्यशब्दः स्यात्? अत्रोच्यते-उत्पतेः प्रभृत्या विनाशाज्जातिर्द्रव्यं न जहाति, न तु भवति शाबलेयस्य गौरिति। तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यत्वेन व्यवस्थाप्यते। गुणाः पुनः सत्येव द्रव्ये कदाचिदुपयन्ति, कदाचिदपयन्ति - पटस्य शक्ल इति, व्यतिरिक्ता अपि द्रव्यात्स्वशब्दैः प्रत्याय्यन्त इति न गुणात्मकं द्रव्यं भवतीति न गुणशब्दो द्रव्यशब्दत्वे व्यवस्थातुमर्हति। अत एव’श्वेतं छागमालभेत’ इति चोदनायां श्वेताभावे कृष्णाश्छाग आलभ्यते, न तु छागाभावे पिष्टपिण्डीमालभ्य कृती भवति। क्रियाद्रव्ययोरुपनिपातेऽप्येवमेव द्रष्टव्यम् - याचकब्राह्मण इति। यत्र तु गुणशब्दयोः, क्रियाशब्दयोः, गणक्रियाशब्दयोश्चोपनिपातः, तत्रानियम एव भवति - खञ्जकुब्जः, कुब्जखञ्जः; पाचकपाठकः, पाठकपाचकः; खञ्जपाचकः, पाचकखञ्ज इति। शिशपावृक्ष इति। द्रव्यशब्दयोरेवोपनिपातेऽपि वृक्षत्वस्य व्यापकत्वान्महाविषयत्वाद् दूरात्प्रथमत एवोपलम्भाच्च प्राधान्यम्, शिशपात्वस्य तु विपर्ययादप्रधान्यमिति न तत्राप्यनियमः। विशेषणमिति किमिति॥ विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव विशेषणमिति लप्स्यत इति प्रश्नः। तक्षकः सर्प इति। ननु तक्षकशब्दोऽपि विशेषणं भवत्येव? एवं मन्यते-विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव पूर्वपदस्य विशेषणत्वे लब्धे पुनर्विशेषणग्रहणमुतरपदस्य विशेषणत्वप्रतिपत्यर्थम्-विशेषेयेण विशेषणं समस्यते, तच्चेद्विशेष्यं विशेषणमिति। न चात्रोतरपदं विशेषणम्; तक्षकस्य तपंत्वाव्यभिचारादिति। लोहितस्तक्षक इति। नात्र तक्षतो विशेष्यः, तस्य लोहितत्वाव्यभिचारात्। यद्येवम् लोहितो विशेषणं न स्यात्; तस्यापि विशेष्यापेक्षत्वात्? एवं तर्हि’पाठक्रमादथक्रमो बलायम्’ इति तक्षको लोहित इति पाठो द्रष्टव्यः, अत्र हि तक्षको विशेषणं भवति; लोहितत्वस्य तक्षतकत्वव्यभिचारात्। यद्येवम्, लोहितत्वस्य विशेष्यत्वमपि स्यात्? अस्त्येव तस्य विशेष्यत्वम्, पूर्वपदस्य तु विशेष्यत्वाभावात्प्रत्युदाहणत्वम्। एवं च कृत्वा तक्षकः कर्प इत्येतदेवास्मिन्नपि प्रश्ने प्रत्युदाहरणं भवति। विस्पष्टार्थं तूभयोरुपादानम्॥

Nyaas

भेदकं विशेषणम् इति। {शिष्लृ विशरणे इति मुद्रित); शिष्लृ शेषणे, विपूर्वः - पदमंजरी} शिष्लृ विशेषणे (धातुपाठः-1451) इत्यस्माद्धातोर्विपूर्वात् करणे ल्युट्। विशिष्यतेऽनेनेति विशेषणम्। तस्येदं लक्षणम् - भदेमिति। यत् सामान्याकारेण प्रवृत्तमनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थापयति, तद् भेदकं विशेषणमिति। भेद्यं विशेषणम् इति। विशेषणीयं विशेष्यम्। विपूर्वात् तस्माद्धातोः ऋहलोण्र्यत् (3.1.124) इति कर्मणि ण्यत्। तस्येदं लक्षणम्, भेद्यमिति। यदनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद्भेद्यं विशेष्यमिति। अथ किमर्थं विशेषणविशेष्ययोरुभयोरुपादानं क्रियते? न; अन्यतरस्यैव क्रियेत, सम्बन्धिशब्दत्वाद्धि तयोरन्यतरोपादानेनैवेतरस्याप्यवगतिर्भवत्येव? सत्यमेतत्; यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्त्रैव समासो भवतीति ज्ञापानार्थमुभयोरुपादानम्, यथा - नीलोत्पलमिति। अत्र नीलार्थो भ्रमरादिभ्यो व्यावत्र्योत्पलार्थेनोत्पले व्यवस्थाप्यते। उत्पलार्थोऽपि रक्तोत्पलादिभ्यो व्यावत्र्य नीलार्थेन नीले व्यवस्थाप्यत इत्यस्ति प्रत्येकं विशेषणविशेष्यभावः। स यत्र नासत्ि तत्र तु न समासः यथा - वृक्षः शिंशपेति। वृक्षो हि शिंशपात्वं व्यभिचरति, शिंशपा तु न वृक्षत्वम्। अतस्तत्प्रकारान्तरेभ्यः पलाशादिभ्यस्तं व्यवच्छिनत्तीति शिंशपा तस्य विशेषणं भवति, न तु विशेष्यम्। वृक्षस्तु विशेष्यः शिंशपार्थस्तु वृक्षत्वं न व्यभिचरतीति न तस्यासौ विशेषणं भवति। अथ किं न भवितव्यमेव शिंशपावृक्षः, आम्रवृक्ष इति? विशेषणसमासेन भवितव्यम्, यदा शिंशपादिशब्दानां विशेषे वृत्तिर्नावधार्यते। तथा हि - शिंशपादिशब्दाः फलस्य वृक्षस्य मूलस्य च वाचकाः सामान्यशब्द इति तदर्थानां वृक्षत्वव्यभिचारादद्विशेष्यभावः, वृक्षश्च विशेषणं भवति। यदा तु कुतश्चित् प्रकरणादर्थाद्वा वृक्षाद्यर्था एवावसितवृत्तयो भवन्ति तदा न भवितव्यम्। ननु च वृक्षार्थावसितवृत्तित्वाद्वृक्षशब्दस्य तदा प्रयोग एव नोपपद्यते, उक्तार्थत्वात्, उक्तार्थानामप्रयोगः (व्या।प।60) इति वचनात्। ततश्च समासस्याप्रसङ्ग एव। तत्क तन्निवृत्त्यर्थेनोभयग्रहणेन? नैतदेवम्; क्वचिदुक्तार्थानामपि लोके प्रयोगो दृश्यते, यथा - अपूपौ द्वावानयेति।यदि तर्हि यत्रोभयोः प्रत्येकं विशेषमविशेष्यभावस्तत्र समासेन भवितव्यम्, एवं सति प्रत्येकमुपसर्जनत्वं स्यात्, उभयोरपि विशेषणत्वात्, विशेषणस्येह सूत्रे प्रथमानिर्दिष्टत्वात्, ततश्चोत्पलनीलरमित्यपि स्यात्, नीलोत्पलमिति तु सर्वदैवेष्यते? नैष दोषः; यस्मादेकतरं प्रधानम्, इतरदप्रधानम्। द्वयोः प्राधान्ये परस्परानुपकारित्वादसम्बन्धयोरेकत्र प्रयोगो न स्यात्। अप्राधान्येऽपि द्वयोः प्रधानापेक्षावतोर्नास्ति परस्परोपकारित्वमिति न स्यादेवैकत्र प्रयोगः। तस्मादेकत्र प्रधानम्, अपरं त्वप्रधानम्। यच्चाप्रधानं तेदवोपसर्जनसंज्ञां भवति, नेतरत्; अन्वर्थत्वादुपसर्जनसंज्ञायाः - उप = समीपे विशेष्ये स्वार्थ सृजति = क्षिपतीति। नीलशब्दश्चाप्रधानम्, तदर्थस्य गुणस्याप्राधान्यात्; उत्पलशब्दस्तु प्रधानम्, तदर्थस्य द्रव्यस्य प्राधान्यात्। तस्मान्नीलशब्द एवोपसर्जनम्, नोत्पलशब्द इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। यत्रोभावपि तत्र पर्यायेणोपसर्जनभावः, यथा - कुब्जखञ्ज, खञ्जकुब्ज इति।अथ कुतोऽत्र द्रव्यस्य प्राधान्यमवसितम्? उच्यते;यथा - ओतं छागमालभेतेत्यस्यां देशनायां देशनायां ओतगुणस्याभावेऽन्यवर्णस्यापि च्छागस्यालम्भनाच्छागाबावे ओतगुणस्यान्यद्रव्यस्यानालम्भनाच्च। न हि च्छागाभावे पिष्टकपिण्डीलमालभ्य याज्ञिकः कृती भवति। यदि च प्रधानं गुणः स्यात्तदा यथा छागाभावे पिष्टकपिण्डी नालभ्यते, तथा ओतगुणाभावेऽन्यगुणोऽपि च्छागो नालभ्यते। न च स नालभ्यते, तस्मात् द्रव्यमेव प्रधानम्, न गुण इति। ननु चोत्पलशब्दोऽपि नैव द्रव्यशब्दोऽयमिति व्यवस्थाप्यते। एवं नीलशब्देऽप्यतिप्रसङ्गः, प्रभृत्या विनाशात् स्वाधारं द्रव्यं नैव जहाति। अतो द्रव्यात्मभूतत्वाज्जातेस्तन्निमित्तकः शब्दो द्रव्यस्योत्पत्ते। गुणाः पुनरपायिनोऽनपायिनो वा सत्येतस्मिन् द्रव्ये वर्तन्ते निवर्तन्ते च। तस्मान्नैते द्रव्यात्मभूता इति न तन्निमित्तशब्दो द्रव्यशब्दो व्यवस्थाप्यत इत्यलमतिप्रसङ्गेन।तक्षकः सर्पः इति। ननु च तक्षकः सर्पस्य विशेषणं भवत्येव, तथा हि - सर्प त्युक्ते सर्पसामान्यं प्रतीयते, न सर्पविशेषः। तक्षक- सर्प इत्युक्ते सर्पविशेषोऽतक्षकाद्व्यावृत्तोऽवसीयते, तदयुक्तं प्रत्युदाहरणमेतत्; नैतदस्ति;उक्तं ह्रेतत्- यत्रैकैस्योभयत्र भावस्तत्र समास इति। न तु कदाचित् सर्पार्थस्य तक्षको विशेष्यो भवति। कथं न भवति? तक्षकस्य सर्पत्वाव्यभिचारात्। ननु च तक्षकशब्दस्यानेकप्रकारत्वेन प्रकारान्तरनिवृत्तये युज्यत एव सर्पस्य तक्षकोऽपि विशेष्यः? नैतदस्ति; न नामधेयस्य क्रियाशब्देन तुल्यमर्थाभिधानसामर्थ्यम्। अवयवार्थानुसारेण हि क्रियाशब्दोऽर्थं बोधयति, समुदायरूपेण तु नामधेयम्। अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी (व्या।प।108) इति तस्यां सत्यां क्रियाशब्दार्थविषयापेक्षा नोपजायत एव। लोहितस्तक्षकः इति। भवति लोहितो विशेषणम्, न तु तक्षको विशेष्यम्। तस्य लोहितत्वाव्यभिचारात्। यदि तर्हि तक्षको न विशेष्यः, लोहितोऽपि विशेषणं न स्यात्; विशेषणस्य विशेष्यापेक्षत्वात्। न च शक्यं तक्षकाद्यर्थान्तरं पटादिकं विशेष्यं तदपेक्षया लोहितस्य विशेषणत्वं परिकल्पयितुम्। एवं हि लोहिताद्यदर्थान्तरं त#ईव्रविषादिकं विशेषणं तदपेक्षं तक्षकस्यापि विशेष्यत्वं प्रसज्येत। तस्माद्विस्पष्टार्थमुभयोग्र्रहणमित्यपरे॥

Praudhamanorama

विशेषणम् ॥ ननु विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावपि अव्यवस्थितः पूर्वनिपातः स्यादिति चेत् ? अत्राहुः- जातिशब्दस्य गुणक्रियाशब्दयोः समभिव्याहारे विशेष्यसमर्पकतैव । तेन ‘नीलोत्पलं’ ‘पाचकब्राह्मण’ इति व्यवस्थित एव प्रयोगः । गुणशब्दयोः, क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । ‘खञ्जकुब्जः’, ‘कुब्जखञ्जः’ ‘पाचकपाठकः’, ‘पाठकपाचकः’ ‘खञ्जपाचकः’, ‘पाचकखञ्ज’ इति । अत्र च मूलमुपसर्जनमिति महासञ्ज्ञा । अप्रधानं ह्युपसर्जनम् । गुणक्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति । यद्वा विशेषणविशेष्ययोः ससम्बन्धिकतया अन्यतरोपादानमात्रेणेतराऽऽक्षेपसम्भवे उभयोपादानं निरूढविशेषणविशेषपरिग्रहाऽर्थम् । निरूढिश्च प्रागुक्ता भाष्यकारादिव्यवहारादवसीयते ।

Prakriyasarvasvam

विशेषणवाचि सुबन्तं समानाधिकरणेन विशेष्येण बहुलं लमस्यते। नीलमुत्पलम् नीलोत्पलम् । बहुलोक्तेः कृष्णसर्पादौ नित्यम् । तक्षकः सर्षः इत्यादौ नास्त्येव॥ <karika>तथैव सर्वसंज्ञानामसमासं हरोऽब्रवीत् । नाथः पुनस्तक्षकाहिरित्याद्यप्याह युक्तिभिः ॥ ३८० ॥</karika>

Sutra Prayogas

  • घटितविघटितः (शिशुपालवधम्): विशेषणं विशेष्येण बहुलम् इति विशेषणयोरपि मिथो गुणप्रधानभावविवक्षया समासः।

  • गूढसूचितरहस्यसहासः (शिशुपालवधम्): विशेषणं विशेष्येण बहुलम् इति विशेषणसमासः।