21057: विशेषणं विशेष्येण बहुलम् =============================== **Padacheda:** विशेषणम् | S | 1 | 1 | विशेष्येण | S | 3 | 1 | बहुलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A case-inflected word denoting the qualifier (the Adjective), is compounded diversely with a case-inflected word denoting the thing thereby qualified, (the Substantive), the latter being in agreement (same case) with the former and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A case-inflected word denoting the qualifier (the Adjective), is compounded diversely with a case-inflected word denoting the thing thereby qualified, (the Substantive), the latter being in agreement (same case) with the former and the resulting compound is तत्-पुरुष । The 'discriminator' is called विशेषण and the 'discriminated' is called विशेष्य as नीलोत्पलं 'a blue lotus,' रक्तोत्पलं 'a red lotus.' By using in the rule the expression बहुल ' diversely' it is meant that in some cases it is imperative to make a compound (नित्यसमास) as कृष्णसर्पः 'a black snake.' लोहितशालिः 'red rice':-and sometimes it is forbidden; as, रामो जामदग्न्यः '*Rama* called also *Jamadagnya*' (as being the son of *Jamadagni*): अर्जुनः कार्त्तवीर्यः -and in some cases it is optional, नीलमुत्पलं or नीलोत्पलं. Why do we say 'qualifier ?' Observe तक्षकः सर्पः 'the *Takshaka* snake.' Why do we say 'qualified.' Observe लोहितस्तक्षकः 'the red *Takshaka*.' Bhashya ------- विशेषणं विशेष्येण बहुलम् (405) (259 तत्पुरुषसंज्ञासूत्रम् ॥ 2 । 1। 3 आ. 6 सू.) (विशेषणस्योपसर्जनत्वाधिकरणम्) (1322 आक्षेपवार्तिकम् ॥ 1 ॥) ॥ विशेषणविशेष्ययोरुभयविशेषणत्वादुभयविशेष्यत्वादुपसर्जनाप्रसिद्धिः ॥ (व्याख्याभाष्यम्) विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः। कृष्णतिला इति कृष्णशब्दोयं तिलशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तथा तिलशब्दः कृष्णशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तदुभयं विशेषणं भवत्युभयं च विशेष्यम्। विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः ॥ (1323 समाधानवार्तिकम् ॥ 2 ॥) ॥ नवान्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनप्रसिद्धिः ॥ (व्याख्याभाष्यम्) नवा एष दोषः ॥ किं कारणम्?। अन्यतरस्य प्रधानभावात्। अन्यतरदत्र प्रधानम् ॥ तद्विशेषकत्वाच्चापरस्य। तद्विशेषकं चापरम्। अन्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनसंज्ञा भविष्यति यदाऽस्य तिलाः प्राधान्येन विवक्षिता भवन्ति कृष्णो विशेषकत्वेन, तदा तिलाः प्रधानं कृष्णो विशेषणम् ॥ (आक्षेपभाष्यम्) कामं तर्ह्यनेनैव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिता भवन्ति तिला विशेषणत्वेन, तेन कर्तव्यं तिलकृष्णा इति ॥ (समाधानभाष्यम्) न कर्तव्यम्। नह्ययं द्वन्द्वः - तिलाश्च कृष्णाश्चेति। न खल्वपि षष्ठीसमासः - तिलानां कृष्णा इति। किं तर्हि?। द्वाविमौ प्रधानशब्दौ एकस्मिन्नर्थे युगपदवरुध्येते। न च द्वयोः प्रधानशब्दयोरेकस्मिन्नर्थे युगपदवरुध्यमानयोः किंचिदपि प्रयोजनमस्ति, तत्र प्रयोगादेतद्गन्तव्यम् - नूनमत्रान्यतरत्प्रधानं तद्विशेषकं चापरमिति। तत्र त्वेतावान् संदेहः - किं प्रधानं किं विशेषणमिति। स चापि क्व संदेहः यत्रोभौ गुणशब्दौ। तद्यथा - खञ्ञ्जकुब्जः कुब्जखञ्ञ्ज इति। यत्र ह्यन्यतरद् द्रव्यमन्यतरो गुणः, तत्र यद् द्रव्यं तत्प्रधानम्। तद्यथा - शुक्लमालभेत कृष्णमालभेत न पिष्टपिण्डीमालभ्य कृती भवति। अवश्यं तद्गुणं द्रव्यमाकाङ्क्षति ॥ (आक्षेपभाष्यम्) कथं तर्हीमौ द्वौ प्रधानशब्दावेकस्मिन्नर्थे युगपदवरुध्येते - वृक्षः शिंशपेति? ॥ (समाधानभाष्यम्) नैतयोरावश्यकः समावेशः। नह्यवृक्षः शिंशपास्ति ॥ विशेषणम् ॥ 56 ॥ Kashika ------- भेदकं विशेषणम, भेद्यं विशेष्यम्। विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। नीलोत्पलम्। रक्तोत्पलम्। बहुलवचनं व्यवस्थार्थम्। क्वचिन्नित्यसमास एव। कृष्णसर्पः। लोहितशालिः। क्वचिन्न भवत्येव — रामो जामदग्न्यः। अर्जुनः कार्तवीर्यः। क्वचिद् विकल्पः — नीलमुत्पलम्, नीलोत्पलम्। विशेषणमिति किम्? तक्षकः सर्पः। विशेष्येणेति किम्? लोहितस्तक्षकः॥ Siddhanta Kaumudi ----------------- भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥ Laghu Siddhanta Kaumudi ----------------------- भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥ Balamanorama ------------ **विशेषणं विशेष्येण बहुलम्** - विशेषणं विशेष्येण । विशिष्यते अनेनेति विशेषणम्, इतरस्माद्व्यावर्तकम् । व्यावर्त्त्यं तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाह — भेदकमिति प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलोत्पलमिति । नीलपदं तावदुत्पलमनीलादुत्पलाद्व्यावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्य समर्पकेण समासः । प्रतमानिर्दिष्टत्वाद्विशेषणस्यपूर्वनिपात इति भावः । नच उत्पलपदमनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यं, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषण समर्पकः, स्वभावात् । यथा-॒नीलोत्पलं॑ 'पाचकब्राआहृण' इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा-खञ्जकुब्जः कुब्जखञ्ज इति । क्रियाशब्दयोरप्यनियमः । यथा-॒खञ्जपाचकः॑ 'पाचकखञ्ज' इति -इतिभाष्ये स्पष्टम् । तथा 'कैलासाद्रिः' 'मन्दराद्रिः'अयोध्यानगरी॑त्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात् । सामान्यजाति-विशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् । 'शिंशपावृक्ष' इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह — बहुलग्रहणादिति । Tattvabodhini ------------- **विशेषणं विशेष्येण बहुलम्** - विशेषणम् । विशिष्यते येन तद्विशेषणं । कर्तुः करणत्वविवक्षायां ल्युट् । तदाह — भेदकमिति । व्यावर्तकमित्यर्थः । विशेषणविशेष्ययोः स संबन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोरुपादानां स्पष्टर्थमिति कैयटः । एतच्चकुत्सितानि कुत्सनै॑रित्यत्रापि तुल्यम् । हरदत्तस्त्वाह — ॒समस्यमानपदद्वयजन्यबोधप्रकारकयोविशेषणविशेष्यधर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो भवति, न तुतक्षकः सर्पः॑ इत्यादौ । न हि तक्षकत्वं सर्पत्वं व्यभिचरती॑ति । तन्मदम् ।कैलासाद्रिः,मन्दराद्रिः॑,॒भावपदार्थः॒॑तर्कविद्या,॒॑व्याकरणशास्त्रं॑,॒भोजराजः॑, इत्यादिप्रयोगाणामसाङ्गत्यापत्तेः । ननु विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्ययस्थितः पूर्वनिपातः स्यादिति चेदत्राहुः — जातिशब्दस्य गुणक्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । तेन॒नीलोत्पलं॑पाचकब्राआहृण॑ इति व्यवस्थित एव प्रयोगः । गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । खञ्जकुब्जः, कुब्जखञ्जः । पाचकपाठकः, पाठकपाचकाः । खञ्जपाचकः, पाचकखञ्ज इति । अत्र मूलमुपसर्जनमिति महासंज्ञा । अप्रधानां ह्रुपसर्जनम् । गुणक्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति ।अपरस्यार्ध इति । एतच्चपश्चा॑दिति सूत्रे भाष्ये स्थितम् । बहुलग्रहणादिति । एकेषु मुख्येषु वीरयते पराक्रमते इति वा बोध्यम् । Padamanjari ----------- भेदकमिति। असिश्च्छिनतीतिवत् करणस्य कर्तृत्वविवक्षायां ण्वल्। विशेषणमिति।'शिष्लृ शेषणे' विपूर्वः, विशेष्यतेऽनेनेति विशेषणम्, करणे ल्यट्। यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छद्य एकस्मिन्प्रकारे व्यवस्थापयति तत्पदं विशेषणं भेदकमिति चोच्यते। वियवस्थाप्यमानं विशेष्यं भेद्यमिति च। ननु च विशेष्यमिति च सम्बन्धिशब्दावेतौ, ततश्च विशेषणमित्युक्ते गम्यत एव - विशेष्येणेति, एवं विशेष्येणेत्युक्ते गम्यते-विशेषणमिति, तत्किमर्थमुभयमुपादीयते? यत्र पूर्वोतरपदयोर्द्वयोरपि प्रत्यकं विशेषणविशेष्यभावस्तत्रैव यथा स्याद्, यथा-नीलोत्पलमिति। अत्र हि नीलार्थो भ्रमरादिसाधारणरुपेण प्रतिपन्न उत्पलार्थेनोत्पले व्यवस्थाप्यते, उत्पलार्थो हि रक्तादिसाधारणरुपेण प्रतिपन्नो नीलार्थेन नीले व्यपस्थाप्यत इति भवति प्रत्येकमुभयभावः। यत्र तु स नास्ति न तत्र समासो भवति, यथा प्रत्युदाहरणे-तक्षकः सर्प इति, न हि तक्षकः सर्पत्वं व्यभिचरति। ननु व्यभिचरति, क्रियानिमितकोऽपि तक्षकशब्दोऽस्ति - तक्ष्णोतीति तक्षत इति? सत्यमस्ति; न त्वसौ नामधेयेन गाहते तुल्यकक्षताम्, द्रागेव रूढौ प्रतिभा क्रियाशब्दो विलम्बिता। इह तु शिंशपावृक्ष इति, शिशंपाशब्दस्य फलेऽपि दर्शनाद्वक्षव्यभिचाराद्भवत्येव समासः, न चात्र वृक्षप्रतीतिपूर्विका फले प्रतीतिर्येन बहिरङ्गा स्यात्। यथेव हि पञ्चालादयः शब्दा जनपदिनां जनपदस्य च साधारण्येनान्योऽन्ययोगमपेक्षन्ते तद्वदेदेऽपि। यथोवाच भगवान्-ठ्लुब्योगाप्रख्यानात्ऽ इति इह तर्हि कथम् ठथ जयाय नु मेरुमहीभृतःऽ इति, न मेरुर्महीभृत्वं व्यभिचरति? निरंकुशाः कवयः। यदि तर्हि यत्र प्रत्येकमुभयभावस्तत्र समासः, उभयोरपि विशेषणत्वमिति प्रथमानिर्दिष्टत्वादुपसर्जनत्वे सति पूर्वनिपातानियमः स्याद् - नीलोत्पलम्? अर्थ तश्चाप्राधान्यम्। तदिह द्रव्यगुणोपनिपाते द्रव्यं प्रधानम्, अप्रधानं गुणः। द्रव्यं हि क्रियासिध्दौ साक्षादुपयुज्यते, गुणस्तु द्रव्यावच्छेदद्वारेण। अतो गुणवचनस्यैव पूर्वनिपातः, न द्रव्यवचनस्य। ननूत्पलशब्दोऽपि जातिशब्दः, न द्रव्यशब्दः; यदि तु जातिविशिष्टे द्रव्ये पर्यवसानाद् द्रव्यशब्दत्वम्, हन्तैवं नीलशब्दोऽपि गुणिविशिष्टे द्रव्ये पर्यवस्यन् द्रव्यशब्दः स्यात्? अत्रोच्यते-उत्पतेः प्रभृत्या विनाशाज्जातिर्द्रव्यं न जहाति, न तु भवति शाबलेयस्य गौरिति। तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यत्वेन व्यवस्थाप्यते। गुणाः पुनः सत्येव द्रव्ये कदाचिदुपयन्ति, कदाचिदपयन्ति - पटस्य शक्ल इति, व्यतिरिक्ता अपि द्रव्यात्स्वशब्दैः प्रत्याय्यन्त इति न गुणात्मकं द्रव्यं भवतीति न गुणशब्दो द्रव्यशब्दत्वे व्यवस्थातुमर्हति। अत एव'श्वेतं छागमालभेत' इति चोदनायां श्वेताभावे कृष्णाश्छाग आलभ्यते, न तु छागाभावे पिष्टपिण्डीमालभ्य कृती भवति। क्रियाद्रव्ययोरुपनिपातेऽप्येवमेव द्रष्टव्यम् - याचकब्राह्मण इति। यत्र तु गुणशब्दयोः, क्रियाशब्दयोः, गणक्रियाशब्दयोश्चोपनिपातः, तत्रानियम एव भवति - खञ्जकुब्जः, कुब्जखञ्जः; पाचकपाठकः, पाठकपाचकः; खञ्जपाचकः, पाचकखञ्ज इति। शिशपावृक्ष इति। द्रव्यशब्दयोरेवोपनिपातेऽपि वृक्षत्वस्य व्यापकत्वान्महाविषयत्वाद् दूरात्प्रथमत एवोपलम्भाच्च प्राधान्यम्, शिशपात्वस्य तु विपर्ययादप्रधान्यमिति न तत्राप्यनियमः। विशेषणमिति किमिति॥ विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव विशेषणमिति लप्स्यत इति प्रश्नः। तक्षकः सर्प इति। ननु तक्षकशब्दोऽपि विशेषणं भवत्येव? एवं मन्यते-विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव पूर्वपदस्य विशेषणत्वे लब्धे पुनर्विशेषणग्रहणमुतरपदस्य विशेषणत्वप्रतिपत्यर्थम्-विशेषेयेण विशेषणं समस्यते, तच्चेद्विशेष्यं विशेषणमिति। न चात्रोतरपदं विशेषणम्; तक्षकस्य तपंत्वाव्यभिचारादिति। लोहितस्तक्षक इति। नात्र तक्षतो विशेष्यः, तस्य लोहितत्वाव्यभिचारात्। यद्येवम् लोहितो विशेषणं न स्यात्; तस्यापि विशेष्यापेक्षत्वात्? एवं तर्हि'पाठक्रमादथक्रमो बलायम्' इति तक्षको लोहित इति पाठो द्रष्टव्यः, अत्र हि तक्षको विशेषणं भवति; लोहितत्वस्य तक्षतकत्वव्यभिचारात्। यद्येवम्, लोहितत्वस्य विशेष्यत्वमपि स्यात्? अस्त्येव तस्य विशेष्यत्वम्, पूर्वपदस्य तु विशेष्यत्वाभावात्प्रत्युदाहणत्वम्। एवं च कृत्वा तक्षकः कर्प इत्येतदेवास्मिन्नपि प्रश्ने प्रत्युदाहरणं भवति। विस्पष्टार्थं तूभयोरुपादानम्॥ Nyaas ----- `भेदकं विशेषणम्` इति। `{शिष्लृ विशरणे इति मुद्रित); शिष्लृ शेषणे, विपूर्वः - पदमंजरी} शिष्लृ विशेषणे` (धातुपाठः-1451) इत्यस्माद्धातोर्विपूर्वात् करणे ल्युट्। विशिष्यतेऽनेनेति विशेषणम्। तस्येदं लक्षणम् - भदेमिति। यत् सामान्याकारेण प्रवृत्तमनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थापयति, तद् भेदकं विशेषणमिति। `भेद्यं विशेषणम्` इति। विशेषणीयं विशेष्यम्। विपूर्वात् तस्माद्धातोः `ऋहलोण्र्यत्` (3.1.124) इति कर्मणि ण्यत्। तस्येदं लक्षणम्, भेद्यमिति। यदनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद्भेद्यं विशेष्यमिति। अथ किमर्थं विशेषणविशेष्ययोरुभयोरुपादानं क्रियते? न; अन्यतरस्यैव क्रियेत, सम्बन्धिशब्दत्वाद्धि तयोरन्यतरोपादानेनैवेतरस्याप्यवगतिर्भवत्येव? सत्यमेतत्; यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्त्रैव समासो भवतीति ज्ञापानार्थमुभयोरुपादानम्, यथा - नीलोत्पलमिति। अत्र नीलार्थो भ्रमरादिभ्यो व्यावत्र्योत्पलार्थेनोत्पले व्यवस्थाप्यते। उत्पलार्थोऽपि रक्तोत्पलादिभ्यो व्यावत्र्य नीलार्थेन नीले व्यवस्थाप्यत इत्यस्ति प्रत्येकं विशेषणविशेष्यभावः। स यत्र नासत्ि तत्र तु न समासः यथा - वृक्षः शिंशपेति। वृक्षो हि शिंशपात्वं व्यभिचरति, शिंशपा तु न वृक्षत्वम्। अतस्तत्प्रकारान्तरेभ्यः पलाशादिभ्यस्तं व्यवच्छिनत्तीति शिंशपा तस्य विशेषणं भवति, न तु विशेष्यम्। वृक्षस्तु विशेष्यः शिंशपार्थस्तु वृक्षत्वं न व्यभिचरतीति न तस्यासौ विशेषणं भवति। अथ किं न भवितव्यमेव शिंशपावृक्षः, आम्रवृक्ष इति? विशेषणसमासेन भवितव्यम्, यदा शिंशपादिशब्दानां विशेषे वृत्तिर्नावधार्यते। तथा हि - शिंशपादिशब्दाः फलस्य वृक्षस्य मूलस्य च वाचकाः सामान्यशब्द इति तदर्थानां वृक्षत्वव्यभिचारादद्विशेष्यभावः, वृक्षश्च विशेषणं भवति। यदा तु कुतश्चित् प्रकरणादर्थाद्वा वृक्षाद्यर्था एवावसितवृत्तयो भवन्ति तदा न भवितव्यम्। ननु च वृक्षार्थावसितवृत्तित्वाद्वृक्षशब्दस्य तदा प्रयोग एव नोपपद्यते, उक्तार्थत्वात्, `उक्तार्थानामप्रयोगः` (व्या।प।60) इति वचनात्। ततश्च समासस्याप्रसङ्ग एव। तत्क तन्निवृत्त्यर्थेनोभयग्रहणेन? नैतदेवम्; क्वचिदुक्तार्थानामपि लोके प्रयोगो दृश्यते, यथा - अपूपौ द्वावानयेति।यदि तर्हि यत्रोभयोः प्रत्येकं विशेषमविशेष्यभावस्तत्र समासेन भवितव्यम्, एवं सति प्रत्येकमुपसर्जनत्वं स्यात्, उभयोरपि विशेषणत्वात्, विशेषणस्येह सूत्रे प्रथमानिर्दिष्टत्वात्, ततश्चोत्पलनीलरमित्यपि स्यात्, नीलोत्पलमिति तु सर्वदैवेष्यते? नैष दोषः; यस्मादेकतरं प्रधानम्, इतरदप्रधानम्। द्वयोः प्राधान्ये परस्परानुपकारित्वादसम्बन्धयोरेकत्र प्रयोगो न स्यात्। अप्राधान्येऽपि द्वयोः प्रधानापेक्षावतोर्नास्ति परस्परोपकारित्वमिति न स्यादेवैकत्र प्रयोगः। तस्मादेकत्र प्रधानम्, अपरं त्वप्रधानम्। यच्चाप्रधानं तेदवोपसर्जनसंज्ञां भवति, नेतरत्; अन्वर्थत्वादुपसर्जनसंज्ञायाः - उप = समीपे विशेष्ये स्वार्थ सृजति = क्षिपतीति। नीलशब्दश्चाप्रधानम्, तदर्थस्य गुणस्याप्राधान्यात्; उत्पलशब्दस्तु प्रधानम्, तदर्थस्य द्रव्यस्य प्राधान्यात्। तस्मान्नीलशब्द एवोपसर्जनम्, नोत्पलशब्द इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। यत्रोभावपि तत्र पर्यायेणोपसर्जनभावः, यथा - कुब्जखञ्ज, खञ्जकुब्ज इति।अथ कुतोऽत्र द्रव्यस्य प्राधान्यमवसितम्? उच्यते;यथा - ओतं छागमालभेतेत्यस्यां देशनायां देशनायां ओतगुणस्याभावेऽन्यवर्णस्यापि च्छागस्यालम्भनाच्छागाबावे ओतगुणस्यान्यद्रव्यस्यानालम्भनाच्च। न हि च्छागाभावे पिष्टकपिण्डीलमालभ्य याज्ञिकः कृती भवति। यदि च प्रधानं गुणः स्यात्तदा यथा छागाभावे पिष्टकपिण्डी नालभ्यते, तथा ओतगुणाभावेऽन्यगुणोऽपि च्छागो नालभ्यते। न च स नालभ्यते, तस्मात् द्रव्यमेव प्रधानम्, न गुण इति। ननु चोत्पलशब्दोऽपि नैव द्रव्यशब्दोऽयमिति व्यवस्थाप्यते। एवं नीलशब्देऽप्यतिप्रसङ्गः, प्रभृत्या विनाशात् स्वाधारं द्रव्यं नैव जहाति। अतो द्रव्यात्मभूतत्वाज्जातेस्तन्निमित्तकः शब्दो द्रव्यस्योत्पत्ते। गुणाः पुनरपायिनोऽनपायिनो वा सत्येतस्मिन् द्रव्ये वर्तन्ते निवर्तन्ते च। तस्मान्नैते द्रव्यात्मभूता इति न तन्निमित्तशब्दो द्रव्यशब्दो व्यवस्थाप्यत इत्यलमतिप्रसङ्गेन।`तक्षकः सर्पः` इति। ननु च तक्षकः सर्पस्य विशेषणं भवत्येव, तथा हि - सर्प त्युक्ते सर्पसामान्यं प्रतीयते, न सर्पविशेषः। तक्षक- सर्प इत्युक्ते सर्पविशेषोऽतक्षकाद्व्यावृत्तोऽवसीयते, तदयुक्तं प्रत्युदाहरणमेतत्; नैतदस्ति;उक्तं ह्रेतत्- यत्रैकैस्योभयत्र भावस्तत्र समास इति। न तु कदाचित् सर्पार्थस्य तक्षको विशेष्यो भवति। कथं न भवति? तक्षकस्य सर्पत्वाव्यभिचारात्। ननु च तक्षकशब्दस्यानेकप्रकारत्वेन प्रकारान्तरनिवृत्तये युज्यत एव सर्पस्य तक्षकोऽपि विशेष्यः? नैतदस्ति; न नामधेयस्य क्रियाशब्देन तुल्यमर्थाभिधानसामर्थ्यम्। अवयवार्थानुसारेण हि क्रियाशब्दोऽर्थं बोधयति, समुदायरूपेण तु नामधेयम्। `अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी` (व्या।प।108) इति तस्यां सत्यां क्रियाशब्दार्थविषयापेक्षा नोपजायत एव। `लोहितस्तक्षकः` इति। भवति लोहितो विशेषणम्, न तु तक्षको विशेष्यम्। तस्य लोहितत्वाव्यभिचारात्। यदि तर्हि तक्षको न विशेष्यः, लोहितोऽपि विशेषणं न स्यात्; विशेषणस्य विशेष्यापेक्षत्वात्। न च शक्यं तक्षकाद्यर्थान्तरं पटादिकं विशेष्यं तदपेक्षया लोहितस्य विशेषणत्वं परिकल्पयितुम्। एवं हि लोहिताद्यदर्थान्तरं त#ईव्रविषादिकं विशेषणं तदपेक्षं तक्षकस्यापि विशेष्यत्वं प्रसज्येत। तस्माद्विस्पष्टार्थमुभयोग्र्रहणमित्यपरे॥ Praudhamanorama --------------- विशेषणम् ॥ ननु विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावपि अव्यवस्थितः पूर्वनिपातः स्यादिति चेत् ? अत्राहुः- जातिशब्दस्य गुणक्रियाशब्दयोः समभिव्याहारे विशेष्यसमर्पकतैव । तेन ‘नीलोत्पलं’ ‘पाचकब्राह्मण’ इति व्यवस्थित एव प्रयोगः । गुणशब्दयोः, क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव । ‘खञ्जकुब्जः’, ‘कुब्जखञ्जः’ ‘पाचकपाठकः’, ‘पाठकपाचकः’ ‘खञ्जपाचकः’, ‘पाचकखञ्ज’ इति । अत्र च मूलमुपसर्जनमिति महासञ्ज्ञा । अप्रधानं ह्युपसर्जनम् । गुणक्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति । यद्वा विशेषणविशेष्ययोः ससम्बन्धिकतया अन्यतरोपादानमात्रेणेतराऽऽक्षेपसम्भवे उभयोपादानं निरूढविशेषणविशेषपरिग्रहाऽर्थम् । निरूढिश्च प्रागुक्ता भाष्यकारादिव्यवहारादवसीयते । Prakriyasarvasvam ----------------- विशेषणवाचि सुबन्तं समानाधिकरणेन विशेष्येण बहुलं लमस्यते। नीलमुत्पलम् नीलोत्पलम् । बहुलोक्तेः कृष्णसर्पादौ नित्यम् । तक्षकः सर्षः इत्यादौ नास्त्येव॥ तथैव सर्वसंज्ञानामसमासं हरोऽब्रवीत् । नाथः पुनस्तक्षकाहिरित्याद्यप्याह युक्तिभिः ॥ ३८० ॥ Sutra Prayogas -------------- * **घटितविघटितः** (शिशुपालवधम्): `विशेषणं विशेष्येण बहुलम्` इति विशेषणयोरपि मिथो गुणप्रधानभावविवक्षया समासः। * **गूढसूचितरहस्यसहासः** (शिशुपालवधम्): `विशेषणं विशेष्येण बहुलम्` इति विशेषणसमासः।