21056: उपमितं व्याघ्रादिभिः सामान्याप्रयोगे

Padacheda: उपमितम् | S | 1 | 1 |

व्याघ्र-आदिभिः | S | 3 | 3 |

सामान्य-अप्रयोगे | S | 7 | 1 |

Sutrartha


Vasu English Summary

A case-inflected word denoting subject of comparison is compounded with the words व्याघ्र ‘tiger’ etc., the latter being the standard of comparison and in construction with the former and the resulting compound is तत्-पुरुष ; provided that any word expressing the common characteristic (सामान्य) as explained above, is not used.

Vasu English Translation

A case-inflected word denoting subject of comparison is compounded with the words व्याघ्र ‘tiger’ etc., the latter being the standard of comparison and in construction with the former and the resulting compound is तत्-पुरुष ; provided that any word expressing the common characteristic (सामान्य) as explained above, is not used. This is a modification of sůtra 57, by which the objective would have stood first; by the present, the attribute stands second. As पुरुषोऽयं व्याघ्र इव = पुरुषव्याघ्रः ‘a person-tiger’ (in strength) पुरुषसिंहः

In the last sutra, the compounding was between the उपमान and the common quality. In the present, the compounding is between the उपमित and certain उपमान but never with सामान्य वचन. Therefore we can not form this kind of compound from the following sentence:- पुरुषो व्याघ्र इव शूरः ‘a man strong as a tiger.’ Similarly मुखपद्मम्, मुखकमलं, करकिसलयम्, पार्थिवचन्द्रम्॥

The words व्याघ्र &c. are आकृतिगणः i. e., this is a class of compound words, the fact of a word belonging to which, is known by its form, a posteriori and is not discoverable by any consideration of its constituent parts a priori.

The following is the list of such words:- 1. व्याघ्र = A tiger. 2. सिंह = A lion. 3. ऋक्ष = A bear. 4. ऋषभ = A bull. 5. चन्दन = Sandal. 6. वृक = A wolf. 7. वृष = A bull!. 8. वराह = A boar, hog. 9. हस्तिन = An elephant. 10. तरु = A tree. 11. कुञ्जर = An elephant. 12. रुरु = A kind of deer. 13. पृषत = The spotted antelope. 14. पुण्डरीक = A lotus flower. 15. पलाश = A tree Butea Frondosa. 16. कितव = A rogue, cheat.

आकृतिगणोऽयम्

  1. मुखपद्मम् A lotus-like face.

  2. मुखकमलम् A lotus-like face.

  3. करकिसलयम् = Sprout-like hand, a tender hand. 4. पार्थिवचन्द्रः .

Bhashya

उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (404) (258 तत्पुरुषसंज्ञासूत्रम् ॥ 2 । 1। 3 आ. 5 सू.) (सामान्याप्रयोगप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) सामान्याप्रयोग इति किमर्थम्? ॥ (समाधानभाष्यम्) इह मा भूत् - पुरुषोयं व्याघ्र इव शूरः, पुरुषोऽयं व्याघ्र इव बलवान् ॥ (प्रत्यख्यानभाष्यम्) सामान्याप्रयोग इति शक्यमवक्तुम् ॥ (आक्षेपभाष्यम्) इह कस्मान्न भवति - पुरुषोयं व्याघ्र इव शूरः, पुरुषोऽयं व्याघ्र इव बलवान्? ॥ (समाधानभाष्यम्) असार्मथ्यात् ॥ कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति ॥ एवं तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यो भवति वै प्रधानस्य सापेक्षस्यापि समासः इति ॥ किमेतस्य ज्ञापने प्रयोजनम्?। राजपुरुषोऽभिरूपः राजपुरुषो दर्शनीयः। अत्र वृत्तिः सिद्धा भवति ॥ उपमितम् ॥ 55 ॥

Kashika

उपमेयमुपमितम्, तद्वाचि सुबन्तं व्याघ्रादिभिः सामर्थ्याद् उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति, न चेत् सामान्यवाची शब्दः प्रयुज्यते। विशेषणं विशेष्येण० (२.१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः। पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः। पुरुषसिंहः। सामान्याप्रयोग इति किम्? पुरुषोऽयं व्याघ्र इव शूरः॥ व्याघ्र। सिंह। ऋक्ष। ऋषभ। चन्दन। वृक्ष। वृष। वराह। हस्तिन्। कुञ्जर। रुरु। पृषत। पुण्डरीक। बलाहक। आकृतिगणश्चायम्, तेनेदमपि भवति — मुखपद्मम्। मुखकमलम्। करकिसलयम्। पार्थिवचन्द्र इत्येवमादि॥

Siddhanta Kaumudi

उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्यप्रयेगे किम् । पुरुषो व्याघ्र इव शूरः ॥

Balamanorama

उपमितं व्याघ्रादिभिः सामान्याप्रयोगे - उपमितम् । प्राग्वदिति । समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । अत्रोपमितस्य नित्यमुपमानाकाङ्क्षत्वादुपमानभूतव्याघ्रादिभिरित्यर्थसिद्धम् । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-विशेष्यस्येति । उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातनार्थमिदमित्यर्थः । पुरुषव्याघ्र इति । पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृश्योपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः । पुरुषोव्याघ्र इव शूर इति । शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः ।भाष्याब्धिः क्वातिगम्भीरः॑ इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । बाष्यमेवाब्धिरिति रूपकं वा । न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वादसामर्थ्यादेवात्र समासस्य न प्रवृत्तिः, अतः ‘सामान्याऽप्रयोगे’ इति व्यर्थमिति वाच्यं, समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामर्थ्यविघातकं न तु प्रधानस्य । तथाचाऽत्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्यमिति समासप्रवृत्तेः, तन्निवृत्त्यर्थं सामान्याऽप्रयोग इति वचनम् । इदमेवप्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्व॑मिति ज्ञापयति । तेन ‘राजपुरुषः सुन्दर’ इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम् ।

Tattvabodhini

उपमितं व्याघ्रादिभिः सामान्याप्रयोगे - उपमितम् । उपमेयमुपमितम् । भूतकालोऽत्र न विवक्षितः । तच्च संबन्धिशब्दादुपमानमाक्षिपति । तथा चोपमानभूतैव्र्याघ्रादिभिरित्यर्थः । पुरुषो व्याघ्रा इव शूर इति । तत्र हि शूरसापेक्षस्यापि पुरुषस्य प्रधानत्वात्राजपुरषः सुन्दरः॑इतिवदत्रापि समासः स्यात्स मा भूदितिसामान्याऽप्रयोगे॑इत्युक्तमिति भावः । कथं तर्हिभाष्याब्धिः क्वातिगम्भीरः॑ इति कैयटः, सामान्यप्रयोदसत्त्वेनाऽस्याऽप्राप्तेः । अत्र केचित् — प्रमाद एवायमित्याहुः । इह गम्भीर्येण सादृश्यं न विवक्षितं, किंतु विततदुरवगाहत्वादिना । तस्य हि विततत्वादेरप्रयोगोऽस्त्येवेति निर्बाधः समास इति मनोरमायां स्थितम् ।

Padamanjari

उपमितमित्यत्र भूतकालो न विवक्ष्यत इत्याह - उपमोयमुपमितमिति। सामर्थ्यादिति। उपमेयमुपमानापेक्षमित्येतत्सामर्थ्येन चेत्सामान्यवाचीति यदा प्रकरणादिवशान्नियतः साधारणगुणः प्रतीयते तदा समासः, यदा तु गुणान्तरव्यवच्छेदाय विशिष्टः साधारणगुणवचनः शब्दः प्रयुज्यते तदा न समास इत्यर्थः। पुरुषोऽयं व्याघ्र इवेति। उपमानप्रदर्शनमेतत्, अत्र हि वैयधिकरण्यात्समासस्याप्रसङ्गः। यदा तु व्याघ्रश्बदस्ताध्दर्म्यात्पुरुषे वर्तते तदा सामानाधिकरण्ये सति समासः। अत एवोक्तम् - विशेषणं विशेष्येणेति प्राप्ते इति। पुरुषोऽयं व्याघ्र इव शूर इति। ननु सामान्यशब्दप्रयोगे सति तदपेक्षत्वादसामर्थ्यादेव न भविष्यति, एवं तर्ह्यतज्ज्ञापयति - भवति प्रधानस्य सापेक्षस्य वृत्तिरिति। तेन राजपुरुषोऽभिरुप औपगवः शोभन इत्यादि सिध्दं भवति। न्यायसिध्द एवार्थे लिङ्गदर्शनमिदम्। प्राधान्यादेवानेकोपकार्यत्वसम्भवात्पुरुषव्याघ्रोऽभिरुप इति भवत्येव। शौर्यं ह्यत्र समानधर्मः, नाभिरुपम्। अत एव’सामान्याप्रयोगे’ इत्युक्तम्, न तु’गुणाप्रयोगे’ इति॥

Nyaas

सामर्थ्यादुपमानवचनैः इति। यद्यपि उपमानवचनैः इति सूत्रे नोपात्तं, तथाप्युपमेयमानापेक्षमित्युपमितशब्दः सम्बन्धिशब्दत्वादुपमानत्वं व्याघ्रदीनां गमयति। तेन विशेषानभिधानेऽपि सामर्थ्यादुपमानवचनैस्तैः समासो विज्ञायते। न चेत्सामान्यवाची शब्दः प्रयुज्यते इति। उपमानोपमेययोः साधारणो धर्मः, शौर्यादि, सामान्यम्ष यदि तद्वाची शब्दो न प्रयुज्यते, एवं सति समासो भवति; नान्यथा। ननु च सामान्यस्य समासेऽन्तर्भूत्तवात् त्दवाचिनां शब्दानां प्रयोगो नास्ति, तत्क प्रतिषेधेन? नैतदस्ति; साधारणधर्मः सामान्यं हि समासेऽन्तर्भूतम्, न तु तद्विशेषः। तत्रासति प्रतिषेधे विशिष्टसाधारणधर्मवाचिनः प्रयोगः स्यादेवेति कर्तव्यः प्रतिषेधः? न कर्तव्यः,कथम्? सामान्यशब्दप्रयोगे हि सति तदपेक्षत्वेन सापेक्षमसमर्थ भवतीत्यसामर्थ्यादेव समासो न भविष्यति। एं तह्र्रेतज्ज्ञापयति - भवति हि प्रधानस्य सापेक्ष्यस्यापि समासः इति। पुरुषाश्चात्रोपमेयत्वात् प्रधानः, उपमानन्तु व्याघ्रादि तदर्थत्वादप्रधानम्। किमेतेन ज्ञापकेन प्रयोजनम्? राजपुरुषः शोभनः इत्येवमादि सिद्धं भवति। विशेषणं विशेष्येणेति प्राप्ते इति। ननु च विशेषणस्य विशेष्येण समानाधिकरणेन समासं वक्ष्यति, उपमानोपमेययोश्च भेदाद्वैयधिकरण्यम्, तत्कुतो विशेषणं विशेष्येणेति प्राप्तिः? एवं मन्यते - पुरुषादावुपमेये वत्र्मानैव्र्याघ्रादिभिरुपमानशब्दैरयं समासो भवति। यथा चोपमानशब्दानामुपमेयवृत्तित्वे सामानाधिकरण्यं तथा पूर्वसूत्र एव व्याख्यातम्॥

Praudhamanorama

उपमितम् ॥ कथं ‘भाष्याऽब्धिः क्वाऽतिगम्भीर’ इति कैयटः । सामान्यप्रयोगसत्त्वेनाऽस्याऽप्राप्तेः । उच्यते । इह गाम्भीर्येण सादृश्यं न विवक्षितं, किन्तु विततदुरवगाहत्वादिना । तस्य चाऽप्रयोगोऽस्त्येवेति निर्बाधः समासः ।

Prakriyasarvasvam

उपमेयमुपमानभूतैर्व्याघ्रादिभिः सह साधर्म्याप्रयोगे समस्यते। व्याघ्र इव नृपो नृपव्याघ्रः। नृपचन्दनः। एवं नृपसिंहमुखाब्ज-मुखेन्दु-करपल्लवादि। साधर्म्यप्रयोगे तु न। पुरुषो व्याघ्र इव शूरः। प्राग्वदिहापि पुंवत्त्वाद् राज्ञी सिंहीव राजसिंही॥

Sutra Prayogas

  • राजेन्दुः (रघुवंशम्): उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति समासः।

  • करयुग्मपद्ममुकुलापवर्जितैः (शिशुपालवधम्): उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण उपमितसमासः।

  • विप्र-वह्निर्यास्यन्सुतस्तप्स्यति (भट्टिकाव्यम्): उपमितम् इति समासः ।

  • कपि-द्विपम् (भट्टिकाव्यम्): उपमितं व्याघ्रादि इत्यादिना कर्मधारयः ।

  • वानर-भू-धर (भट्टिकाव्यम्): उपमितम् इति समासः।