21055: उपमानानि सामान्यवचनैः¶
Padacheda: उपमानानि | S | 1 | 3 |
सामान्य-वचनैः | S | 3 | 3 |
Sutrartha¶
Vasu English Summary¶
Case-inflected words denoting objects of comparison are compounded with words denoting what is likened to them, by reason of the latter possessing qualities in common with the former and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
Case-inflected words denoting objects of comparison are compounded with words denoting what is likened to them, by reason of the latter possessing qualities in common with the former and the resulting compound is तत्-पुरुष । That by or to which a thing is compared is ‘upamana’ and the ‘upameya’ (the thing compared) is called सामान्य or ‘common’. Thus घनश्याम कृष्णः ‘cloud-black Krishna’ (Krishna black as a cloud). Here श्याम is a quality common to Krishna and cloud: therefore ‘cloud’ which is the उपमान is compounded with it. So also कुमुदश्येनी ‘lily-white.’ हंसगदग्दा ‘Swan-sounding’ न्यग्रोध-पारिमण्डला ‘globular as Nyagrodha tree.’ For accent see (6.2.2).
But not so in देवदत्ता श्यामा ‘black Devadatta’ or फला इव तन्दुलाः ‘the rice are like fruits’ पर्वता इव बलाहकाः ‘clouds like mountains’.
Bhashya¶
उपमानानि सामान्यवचनैः (403) (257 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.3 आ. 4सू.) (उपमानोपमेयभावनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) उपमानानीत्युच्यते कानि पुनरुपमानानि। किं यदेवोपमानं तदेवोपमेयम्, आहोस्विदन्यदेवोपमानमन्यदुपमेयम्? ॥ (प्रत्याक्षेपभाष्यम्) किं चातः? ॥ (प्रथमपक्षे आक्षेपभाष्यम्) यदि यदेवोपमानं तदेवोपमेयम्, क इहोपमार्थः - गौरिव गौरिति ॥ (द्वितीयपक्षे आक्षेपभाष्यम्) अथान्यदेवोपमानमन्यदुपमेयम्, क इहोपमार्थः - गौरिवाश्व इति ॥ (संमाधानभाष्यम्) एवं तर्हि यत्र किंचित्सामान्यं कश्चिच्च विशेषः तत्रोपमानोपमेये भवतः ॥ (आक्षेपभाष्यम्) किं वक्तव्यमेतत्? ॥ (समाधानभाष्यम्) नहि ॥ कथमनुच्यमानं गंस्यते?। मानं हि नामानिर्ज्ञातज्ञानार्थमुपादीयते - अनिर्ज्ञातमर्थं ज्ञास्यामीति। तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानं गौरिव गवय इति। गौर्निर्ज्ञातः गवयोऽनिर्ज्ञातः ॥ (आक्षेपभाष्यम्) कामं तर्ह्यनेन्नेव हेतुना यस्य गवयो निर्ज्ञातः स्याद् गौरनिर्ज्ञातः, तेन कर्तव्यं स्याद् - गवय इव गौरिति ॥ (इष्टापत्तिभाष्यम्) बाढं कर्तव्यम् ॥ (उदाहरणनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किं पुनरिहोदाहरणम्? ॥ (समाधानभाष्यम्) शस्त्रीश्यामा ॥ (आक्षेपभाष्यम्) क्व पुनरयं श्यामाशब्दो वर्तते? ॥ (एकदेशिसमाधानभाष्यम्) शस्त्र्यामित्याह ॥ (आक्षेपभाष्यम्) केन तर्हीदानीं देवदत्ताऽभिधीयते ॥ (समाधानभाष्यम्) समासेन ॥ (आक्षेपभाष्यम्) यद्येवं शस्त्रीश्यामो देवदत्त इति न सिद्धयति प्र्प्र् (समाधानभाष्यम्) उपसर्जनस्य इति ह्रस्वत्वं भविष्यति ॥ (आक्षेपभाष्यम्) यदि तर्ह्युपसर्जनान्यप्येवंजातीयकानि भवन्ति, तित्तिरिकल्माषी कुम्भकपाललोहिनी - अनुपसर्जनलक्षण ईकारो न प्राप्नोति ॥ (समाधानभाष्यम्) एवं तर्हि शस्त्र्यामेव शस्त्रीशब्दो वर्तते, देवदत्तायां श्यामाशब्दः ॥ (आक्षेपभाष्यम्) एवमपि गुणो न निर्दिष्टो भवति। बहवः शस्त्र्यां गुणाः - तीक्ष्णा सूक्ष्मा पृथुरिति ॥ (समाधानभाष्यम्) अनिर्दिश्यमानस्यापि गुणस्य भवति लोके संप्रत्ययः। तद्यथा - चन्द्रमुखी देवदत्ता इति बहवश्चन्द्रे गुणाः, या चासौ प्रियदर्शनता सा गम्यते ॥ (आक्षेपभाष्यम्) एवमपि समानाधिकरणेन इति वर्तते। व्यधिकरणत्वात्समासो न प्राप्नोति ॥ (प्रत्याक्षेपेण समाधानभाष्यम्) किं हि वचनान्न भवति? ॥ (समाधानबाधकभाष्यम्) यद्यपि तावद्वचनात्समासः स्यात्। इह खलु मृगीव चपला मृगचपला समानाधिकरणलक्षण पुंवद्भावो न प्राप्नोति ॥ (सिद्धान्तिसमाधानभाष्यम्) एवं तर्हि तस्यामेवोभयं वर्तते। एतच्चात्र युक्तं यत्तस्यामेवोभयं वर्तत इति। इतरथा हि बह्वपेक्ष्यं स्यात् ॥ (समाधानभाष्यशेषभाष्यम्) यदि तावदेवं विग्रहः करिष्यते- शस्त्रीव श्यामा देवदत्तेति। शस्त्र्यां श्यामेत्येतदपेक्ष्यं स्यात् ॥ (समाधानभाष्यशेषभाष्यम्) अथाप्येवं विग्रहः करिष्यते - यथा शस्त्री श्यामा तद्वदियं देवदत्तेति। एवमपि देवदत्तायां श्यामेत्येतदपेक्ष्यं स्यात् ॥ (आक्षेपभाष्यम्) एव मपि गुणो न निर्दिष्टो भवति। बहवश्च शस्त्र्यां गुणाः तीक्ष्णा सूक्ष्मा पृथुरिति ॥ (समाधानभाष्यम्) अनिर्दिश्यमानस्यापि गुणस्य भवति लोके संप्रत्ययः। तद्यथा - चन्द्रमुखी देवदत्तेति बहवश्चन्द्रे गुणाः। या चासौ प्रियदर्शनता सा गम्यते ॥ (1320 वार्तिकम् ॥ 1 ॥) ॥ उपमानसमासे गुणवचनस्य विशेषभाक्त्वात्सामान्यवचनाप्रसिद्धिः ॥ (व्याख्याभाष्यम्) उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामान्यवचनस्याप्रसिद्धिः स्यात् - शस्त्रीश्यामेति। श्यामाशब्दोयं शस्त्रीशब्देनाभिसंबध्यमानो विशेषवचनः संपद्यते। तत्र सामान्यवचनैरिति समासो न प्राप्नोति ॥ (1321 वार्तिकम् ॥ 2 ॥) ॥ न वा श्यामत्वस्योभयत्र भाबात्तद्वाचकत्वाच्च शब्दस्य सामान्यवचनत्वस्य प्रसिद्धिः ॥ (व्याख्याभाष्यम्) न वा एष दोषः ॥ किं कारणम्? ॥ श्यामत्वस्योभयत्र भावात्। उभयत्रैवात्र श्यामत्वमस्ति शस्त्र्यां देवदत्तायां च। तद्वाचकत्वाच्च शब्दस्य। तद्वाचकश्चात्र श्यामाशब्दः प्रयुज्यते ॥ किंवाचकः?। उभयवाचकः। श्यामत्वस्योभयत्र भावात् तद्वाचकत्वाच्च शब्दस्य सामान्यवचनत्वं प्रसिद्धम्। सामान्यवचने प्रसिद्धे सामान्यवचनैरिति समासो भविष्यति ॥ नावश्यं स एव सामान्यवचनः यो बहूनां सामान्यमाह, द्वयोरपि यः सामान्यमाह सोपि सामान्यवचन एव ॥ अथ वा सामान्यवचनैरित्युच्यते। सर्वैश्च शब्दोन्येन शब्देनाभिसंबध्यमानो विशेषवचनः संपद्यते। त एवं विज्ञास्यामः - प्रागभिसंबन्धाद्यः सामान्यवचन इति ॥ उपमानानि ॥ 54 ॥
Kashika¶
उपमीयतेऽनेनेत्युपमानम्। उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। उपमानोपमेययोः साधारणो धर्मः सामान्यम्, तद्विशिष्टोपमेयवचनैरयं समासः। शस्त्रीव श्यामा,शस्त्रीश्यामा देवदत्ता। कुमुदश्येनी। हंसगद्गदा। न्यग्रोधपरिमण्डला। उपमानानीति किम्? देवदत्ता श्यामा। सामान्यवचनैरिति किम्? फाला इव तण्डुलाः। पर्वता इव बलाहकाः॥
Siddhanta Kaumudi¶
घन इव श्यामो घनयामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥
Laghu Siddhanta Kaumudi¶
घन इव श्यामो घनश्यामः। शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (वार्त्तिकम्) । शाकप्रियः पार्थिवः शाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः॥
Balamanorama¶
उपमानानि सामान्यवचनैः - उपमानानि । उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तानि — उपमानानि । सादृश्यनिरूपकाणीत्यर्थः । सामान्यम्ुपमानोपमेयसाधारणधर्मः, तमुक्तवन्तः शब्दाः सामान्यवचनाः । बाहुलकः कर्तरि ल्युट् । पूर्वं सामान्यमुक्त्वा तद्विति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथाच सादृश्यनिरूपकशब्दाऽपरपर्याया उपमानशब्दा उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः । घनश्याम इति । नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याऽभावात्कथमिह समासः, इवशब्दापेक्षत्वेनाऽसामर्थ्याच्चेत्यत आह — इह पूर्वपदमिति । एवं च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामानाधिकरण्यम् । अत एव मृगीव चपला मृगचपलेत्यत्रपुंवत्कर्मधारये॑ति पुंवत्त्वं सिध्यति । घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्रम् । तथाच ‘घनसदृशश्यामः’ इति बोधः । सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । एवंच सादृश्यप्रतियोग्यनुयोगिनोः साधारणधर्मवत्त्वं लब्धम् । स चेह साधारणधर्म उत्तरपदोपस्थाप्य एव गृह्रते, संनिहितत्वात् । तथाच घनगतश्यामत्वसदृशश्यामत्ववानिति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह — पूर्वनिपातेति । अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभावे कामचारात्खञ्जकुब्जः कुब्जखञ्ज इतिवदनियमः स्यादिति भावः ।
Tattvabodhini¶
उपमानानि सामान्यवचनैः - उपमानानि । उपमीयते येन तदुपमानम् । उपपूर्वान्माङः कतरणे ल्युट् । प्रादिसमासः उपपूर्वको माङ् सादृश्यहेतुके परिच्छेदे रूढः । येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानमित्यर्थः । यथागौरिव गवयः॑ । इह हि गौः करणं, सादृश्यं हेतुः, पुरुषः परिच्छेत्ता । स हि गोसादृश्येन गवयं परिच्छिनत्ति । सामान्यवचनैरिति । समानो धर्मः — सामान्यम् । चातुर्वण्र्यादित्वात्स्वार्थे ष्यञ् । उपमानोपमेयसाधारणो यो धर्मस्तद्विशिष्टवचनैरित्यर्थः, न तु साधारणधर्ममात्रवचनैरिति । एतच्च वचनग्रहणाल्लभ्यते । सामान्यमुक्तवन्तः — सामान्यवचनाः । बाहुलकात्कर्तरि भूते ल्युट् । ये पूर्वं सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः । तच्च सामान्यविशिष्टमुपमानशब्दस्य संबन्धिशब्दत्वादाक्षिप्तमुपमेयमेव विज्ञायते । लाक्षणिकमिति । अतएव सामानाधिकरण्यान्मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः । उत्तरपदोपस्थितश्यामत्वचरलत्वादिद्वारकमेवेह सादृश्यं गृह्रते, संनिधानात् । कथं तर्हि उपमानपरतेति चेत् । भूतपूर्वगत्या शक्यार्थमादाय तत्परतेत्यवेहि । पूर्वनिपातेति । अन्यथाऽनियमः स्यात्, खञ्ज कुब्जवदिति भावः । किंचतत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानव्यय#ए॑ति सूत्रे प्रतिपदोक्तस्यास्यैवोपमानग्रहणेन ग्रहणार्थमपीदं सूत्रम् । अतएव मयूरव्यंसकादित्वात्समासे न प्रवर्तत इति सिद्धान्तः ।
Padamanjari¶
उपमीयतेनेऽनेत्युपमानमिति। उपपूर्वान्माङ्ः करणे ल्युटि समास इति दर्शयति। भाष्ये तु मानस्य समीपमुपमानमित्यर्थकथनमात्रम्। अव्ययीभावे उपमानानीति रूपासिधिदिप्रसङ्गादिति भावः। उपपूर्वकश्च माङसादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम्, तद्यथा - गौरिव गवय इति; गौः करणम्, पुरुषः परिच्छेता, स हि गोः सादृश्येन गवयं परिच्छिनति - गोसदृशो गवय इति। सामान्यवचनैरिति। समानशब्दः धर्मः - सामान्यम्, चच्चोपमानस्य श्रुतत्वातस्य चोपमेयापेक्षत्वातयोरेव साधारणो धर्मो विज्ञायत इत्याह - उपमानोपमययोरित्यादि। तद्विशिष्टोपमेयवनैरिति। तेन साधारणेन धर्मेण विशिष्ट्ंअ यदुपमेयं तद्वचनैः, न तु साधारणधर्ममात्रवचनैरितियर्थः। वचनग्रहणाच्चायमर्थौ लभ्यते, सामान्यमुक्तवन्तः उ सामान्यवचनाः। ये सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः, यथा गुणमुक्तवान् गुणवचन इति। तच्च सामान्यवदुपमानशब्दस्य संबन्धिश्बदत्वातदाक्षिप्तमुपमेयमेव विज्ञायत इति सुष्ठूअक्तम् - तद्विशिष्टोपमेवचनैरिति। शस्त्रीश्यामेति। अत्र श्यामगुणविशिष्टत्वेन प्रमिध्दत्वादुपमानं शस्त्री, उपमेया देवदता, तयोः सअधारणो धर्मः श्यामत्वम्, तदभिधाय तद्विशिष्टायां श्यामाशब्दः पर्यवस्यातीति भवति सामान्यवचनः। ननु च समानाधिकरणेनेति। वर्तते, इह च शस्त्रीशब्दः शस्त्र्यां वर्तते, श्यामाशब्दस्तु देवदतायाम्, यदाह - ठुपमानवाचीनि सुबन्तानि तद्विशिष्टोपमेयवचनैःऽ इति; तथा विग्रहवाक्ये इवशब्दः प्रयुक्तः - शस्त्रीव श्यामेति? सत्यम्; वचनसामर्थ्यातु वैयधिकरण्येऽपि समासः। यद्येवम्, मृगीव चपला मृगचपला, हंसीव गद्गदा हंसगद्गदा, पुंवत्कर्मधारयेति सामानाधिकरण्यलक्षणः पुवद्भावो न प्राप्नोति? नैष दोषः; जातायन्तरनिवृत्तिपरायां चोदनायां स्त्रीत्वमकिञ्चित्करम्, तत्र कुक्कुटाण्डम्, मृगक्षीरमित्यादिवदिदमपि सिध्दम्। ननु चान्यदेव चापलं स्त्रियाः, अन्यदेव पुंसः? सत्यम्; जातिमात्रोपादानेऽपि प्रकरणादिवशात् स्त्रीत्वं प्रत्यायिष्यते, तच्च बहिरङ्गत्वान्न स्त्रीप्रत्ययस्य निमितम्। अन्यथा पुंवद्भावेन निवृतौ स्त्रीप्रत्ययस्य तवापि कथं विशंषावगतिः। अस्त्वेवम्, यदि तु मृगीव चपलेति स्त्रीप्रत्ययान्तस्य समासः क्रियते, तदा मृगीचपलेति प्राप्नोति, न हि तेन समासो दण्डवारितः, समानाधिकरणाधिकारश्च बाध्येत। एवं तर्हि समानाधिरकणसमास एवायम् - शस्त्री चासौ श्यामा चेति, कथं पुनर्देअवदतायां शस्त्रीश्बदः, जातिवचनो ह्यसौ सादृश्यनिमितादभोदोपचारात्, यथा - गौर्वाहीक इति। यद्येवम्, शस्त्रशब्दोऽप्युपमेये संक्रान्त इत्युपमानवाचित्वं नोपपद्यते? सत्यम्; पूर्वावस्थाश्रयेण तूपमानत्वं द्रष्टव्यम्। इवशब्दप्रयोगस्तूपमानप्रदर्शनार्थः, न प्रक्रियावाक्याङ्गमिति न कश्चिद्दोषः। ननु श्यामगुणत्वेन साधर्म्येण शस्त्रीशब्दो देवदतायां प्रयुज्यत इति श्यामशब्दो न प्रयोगार्हः, तन्न; बहवो हि शस्त्र्यां गुणाः - तीक्ष्णा सूक्ष्मा पृथुः श्यामेति, तत्रासति श्यामगुणेन शस्त्रीत्वसारोपितमिति। ननु सदपि श्यामपदं देवदतामुपस्थाप्य चरतार्थमिति नैव शस्त्रीगुणो निर्द्दिश्यते, नैतदस्ति; नैवमत्र वचनं व्यज्यते या श्यामा सा शस्त्रीवेति। कथं तर्हि शस्त्रीव श्यामा देवदतेति? अस्यां तु वचनव्यक्ताविवशब्देन तावदुपमेयनिष्ठत्वेन प्रतीयते, उपमेयनिष्ठो गुण उपमानं स्पृशत्येव। अथ वा चन्द्रमुखीत्यादावनिर्दिष्टोऽपि गुणः प्रियदर्शनत्वादिः प्रसिध्दिवशादुपमाननिमितत्वेन प्रतीयते, तदोपमेयेऽपि तावच्श्रुतः कथमुपमानं न स्प्रक्ष्यति। फाला इव तण्डुला। दीर्घत्वादिना धर्मेण॥
Nyaas¶
उपमीयतेऽनेनेत्युपमानम् इति। सादृश्येन येन परिच्छिद्यते तदुपमानमित्यर्थः। यथा गौरिव गवय इत्यत्र गौरुपमानम्,तेन हि सादृश्येन गवयः परिच्छिद्यते। यादृशो गौस्तादृशो गवयः इत्यर्थः प्रतीयते। सामान्यमनेकसाधारणं भवति; इह चोपमानस्य श्रुतत्वात् तस्य चोपमेयापेक्षत्वादुपमानोपमेयोरेव साधारणो धर्मः सामान्यं विज्ञायत इत्याह - उपमानोपमेययोः इत्यादि। तद्विशिष्टोपमेयवचनैरयं समासः इति। तेन सामान्येन धर्मेण विशष्टं यदुपमेयं तद्वचनैरयं समासो भवति। कृतः पुनः सामान्यवचनैरित्युक्ते सत्येष विशेषो लभ्यते? न्यायात्। तथा हि - सामान्यमुक्तवन्तः सामान्यवचनाः, यथा- गुणमुक्तवन्तो गुणवचना इति। कदा च ते सामान्यवचना भवन्ति? यदा सामान्यमभिधाय सामान्यविशिष्टे तद्वति द्रव्ये वर्तन्ते। तच्च सामान्यवदुपमानस्य सम्बन्धिशब्दत्वादुपमेयमेव विज्ञायत इति न्यायप्राप्त एवार्थो वृत्तिकृता दर्शितः। शस्त्रीश्यामा देवदत्ता इति। अत्रोपमानं शस्त्री, उपमेया देवदत्ता। प्रसिद्धं ह्रुपमानं भवति, नाप्रसिद्धम्। शस्त्र्येव श्यामगुणत्वेन प्रसिद्धा, न देवदत्ता। तयोः सामान्यं साधारणो धर्मः श्यामत्वम्। तत् श्यामत्वमुक्त्वा श्यामशब्दो द#एवदत्तयामभेदोपचारान्मतुब्लोद्वा वर्तत इति सामान्यवचनो भवति। ननु च समानाधिकरणेनेत्यनुवर्तते, इह च शस्त्रीशब्दस्य शस्त्र्यां वृत्तिः, श्यामाशब्दस्य देवदत्तायाम्, अतो वैयधिकरण्यात् समासेन न भवितव्यम्? नैतदस्ति; सर्वत्र ह्रुपमानोपमेययोर्भेदात् तद्वाचिनोर्वैयधिकरण्यमेव, उच्यते चेदं वचम्, अतो वैयधिकरण्येऽपि वचनसामर्थ्यात् समासो भविष्यति।अथ वा - शस्त्रीशब्दोऽप्यत्र देवदत्तायां वर्तते। तेन सामानाधिकरण्यं एवायं समासः - शस्त्रौ चासौ श्यामा चेति शस्त्रीश्यामा। ननु च शस्त्रीशब्दोऽयं जातिवचनः शस्त्रीत्वं प्रवृत्तिनिमित्तमुपादाय तद्वति वर्तते, न च तत् शस्त्रीत्वं देवदत्तायामस्ति, तत् कथं तत्र वर्तते? नैष दोषः; सर्व एवामी शब्दा गुणमुपादाय तद्वति द्रव्ये वर्तन्ते इत्यपि दर्शनमस्ति। तत्र श्यामत्वं गुणमुपादाय शस्त्रीशब्दो देवदत्तायां वर्तिष्यते। ताद्धम्र्याद्वा देवदत्ता शस्त्रीशब्देनाभिधास्यते। भवति हि ताद्धम्र्यात् ताच्छब्द्यमित्युक्तं प्राक्। ताद्धम्र्यं पुनः श्यामगुणत्वम्। फाला इव तण्डुलाः इति। भवन्ति हि फाला उपमानम्। तथाहि तैर्दीर्घत्वादिना सादृश्येन तण्डुला उपमीयन्ते। तण्डुलशब्दस्तु सामान्यवचनो न भवति। ननु च तण्डुलशब्दोऽपि तण्डुलत्वं सामान्यमुपादाय तद्वति द्रव्ये वर्तत इति भवत्येव सामान्यवचनः, तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; तथा ह्रुपमानोपमेययोः साधारणो धर्मः सामान्यमित्युक्तम्। न च तण्डुलत्वं फालानामस्ति, किं तर्हि? तण्डुलानामेव॥
Prakriyasarvasvam¶
उपमानवाचिनः साधर्म्यवाचिभिः समस्यन्ते। घन इव श्यामो घनश्यामः। अत्रापि कर्मधारयत्वात्पुंवत्त्वमिष्टम्। मृगीव चपला मृगचपला॥
Sutra Prayogas¶
चन्द्रमरीचिगौरैः (कुमारसम्भवम्): उपमानानि सामान्यवचनैः इति समासः।
नागयूथमलिनानि (शिशुपालवधम्): उपमानानि सामान्यवचनैः इति समासः।