21049: पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन

Padacheda: पूर्वकाल-एक-सर्व-जरत्-पुराण-नव-केवलाः | S | 1 | 3 |

समान-अधिकरणेन | S | 3 | 1 |

Sutrartha


Vasu English Summary

A case-inflected word denoting an action which naturally precedes in time (पूर्वकाल) and the words एक ‘one’, सर्व ‘all’ जरत ‘old’, पुराण ‘ancient’, नव ‘new’, and केवल ‘only’ are compounded with their co-relative case-inflected words which are in the same case with them and the resulting compound is तत्-पुरुष ।

Vasu English Translation

A case-inflected word denoting an action which naturally precedes in time (पूर्वकाल) and the words एक ‘one’, सर्व ‘all’ जरत ‘old’, पुराण ‘ancient’, नव ‘new’, and केवल ‘only’ are compounded with their co-relative case-inflected words which are in the same case with them and the resulting compound is तत्-पुरुष । The phrase सुप् सुपा is understood here, the whole sútra qualifying it.

Words which separately can be applied to many distinct and different objects, when they apply to one common object, are said to be in apposition (समानाधिकरणं) or abiding in a common substratum.

ln the present sútra the word-form púrva-kála, is not to be taken (1.1.68) but its significates; while of the rest एक &c., the very word-form is to be taken. A word denoting action which naturally precedes in time, is compounded with a word denoting action which naturally succeeds it. As, स्नातानुलिप्तः ‘bathed and perfumed’ कृष्टसमीकृतम् ‘ ploughed and levelled.’ दग्धप्ररूढम् ‘burnt and healed.’ एकशाटी ‘having one petticoat.’ एकभिक्षा ‘begging once in a day.’ सर्वदेवाः ‘All gods.’ सर्वमनुष्याः ‘all men.’ जरद्धस्ती ‘old elephant.’ जरद्गृष्टिः ‘an old cow.’ जरद्वृत्तिः ‘old occupation.’ पुराणान्नम् ‘old rice.’ पुराणावसथम् ‘an old habitation.’ So नवान्नम्; नवावसथम्; केवलान्नम् ‘only rice.’

Why do we say when they are in the same case? Observe एकस्याः शाटी ‘one’s petticoat.’ These and the subsequent compounds are *Karmadháraya * Compounds (1.2.42).

Bhashya

पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (397) (252 तत्पुरुषसंज्ञासूत्रम् ॥ 2 । 1 । 2 आ. 32) (एकनदीशब्देऽव्ययीभाववारणाधिकरणम्) (आक्षेपभाष्यम्) इह कस्मादव्ययीभावो न भवति - एका नदी एकनदी नदीभिः संख्या इति प्राप्नोति ॥ (समाधानभाष्यम्) नैष दोषः। इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते ॥ (समाधानभाष्यम्) अथ वाव्ययीभावः क्रियताम्, तत्पुरुष इति, तत्पुरुषो भविष्यति विप्रतिषेधेन ॥ (आक्षेपभाष्यम्) भवेदेकसंज्ञाधिकारे सिद्धम्। परंकार्यत्वे तु न सिद्ध्यति। आरम्भसार्मथ्याच्चाव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च तत्पुरुषः प्राप्नोति ॥ (समाधानभाष्यम्) परं कार्यत्वे च न दोषः ॥ कथम् ?। नदीभिः समाहारेऽव्ययीभावो वक्तव्यः। स चावश्यं वक्तव्यः। सर्वमेकनदीतरे ॥ पूर्वका ॥ 48 ॥

Kashika

सुप् सुपा इति वर्तते, तस्य विशेषणमेतत्। पूर्वकाल एक सर्व जरत् पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्य शब्दस्यैकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्। पूर्वकाल इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम्। पूर्वकालोऽपरकालेन समस्यते। स्नातानुलिप्तः। कृष्टसमीकृतम्। दग्धप्ररूढम्। एकशाटी। एकभिक्षा। सर्वदेवाः। सर्वमनुष्याः। जरद्धस्ती। जरद्गृष्टिः। जरद्वृत्तिः। पुराणान्नम्। पुराणावसथम्। नवान्नम्। नवावसथम्। केवलान्नम्। समानाधिकरणेनेति किम्? एकस्याः शाटी॥

Siddhanta Kaumudi

विशेषणं विशेष्येण (SK736) इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायाम् (SK727) इति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ॥

Balamanorama

पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन - पूर्वकालैक ।सु॑बित्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः । ततश्चपूर्वकाले॑त्यनेन पूर्वकालवृत्त्यर्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयः सप्तसुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते, स तत्पुरुष इत्यर्थः । समानम्-एकमधिकरणं=वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्वं स्नातत्वेन, पूर्वं स्नातो वा पश्चादनुलिप्तत्वेन विशेष्टुं शक्यते, अतोविशेषणं विशेष्येणे॑ति समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह — एकशब्दस्येति ।दिक्संख्ये संज्ञायां समस्येते॑ इति नियमस्य वक्ष्यमाणतया ‘एकनाथ’ इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाऽभावेऽपि स्नानानुलेपनयोः पौर्वापर्यं समासगम्यमेव । ‘पूर्वकालः समस्यते’ इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाज्ञिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः ।क्रतूक्थादिसूत्रान्ताट्ठक् । सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति । मीमांसामधीयते मीमांसकाः ।क्रमादिभ्यो वुन् । पुराणश्च ते मीमांसकाश्चेति विग्रहः । नवपाठका इति । नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यान्नवशब्दो नूतनवाच्येव गृह्रते, न तु सङ्ख्याविशेषवाची । केवलवैयकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः ।तदधीते तद्वेदे॑त्यण् । न य्वाभ्या॑मिति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः ।

Tattvabodhini

पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन - पूर्वकालै ।पूर्वकैले॑त्यर्थनिर्देशः । इतरेषां तु षण्णां स्वरूपग्रहणम् । पूर्वत्वस्य ससंबन्धिकत्वात्पूर्वकालोऽपरकालेन समस्यते । तथैवोदाहरति — स्नतानुलिस इति । अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः । याज्ञिका इत्यादि । यज्ञमधीयते विदन्ति वा याज्ञिकाः ।क्रतूक्थादी॑ति ठक् । एवं नैयायिकाः ।जीर्यतेरतृन् इति भूतेर्थेऽतृन् । जरन्तश्च ते नैयायिकाश्च । जीर्णनैयायिकाश्च । जीर्णनैयायिका इत्यर्थः । मीमांसामधीयते विदन्ति वा मीमांसकाः ।क्रमादिभ्यो वुन् । नवपाठका इति । पठन्तीति पाठकाः ।ण्वुल्तृचौ॑इति ण्वुल् । संख्यावाची नवशब्दोऽत्र न गृह्रते,दिक्सङ्ख्यते संज्ञाया॑मिति नियमात् । समानाधिकरणेनेति किम् । एकस्याः शौक्ल्यम् । षष्ठीसमासोऽपि इह न भवति,पुरणगुमे॑ति निषेधात् ।

Nyaas

भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्य इत्यादि। भिन्नप्रवृत्तिनिमित्तग्रहणं पर्यायनिवृत्त्यर्थम्। एकग्रहणं गौरआ इत्यादिनिवृत्त्यर्थम्। पूर्वकाल इत्यर्थनिर्देशः इति। अर्थप्रधानत्वान्निर्देशस्य। तेन स्वरूपग्रहणं न भवतीति भावः। परिशिष्टानां स्वरूपग्रहणम् इति। शब्दप्रधानत्वान्निर्देशस्य। पूर्वकालोऽपरकालेन इति। कुतः पुनरनुक्तोऽप्येषोऽर्थविशेषो लभ्यते; सम्बन्धिशब्दत्वात् पूर्वकालस्य? न ह्रनपेक्ष्यापरकालं पूर्वकालं सम्भवति; अतः पूर्वकालपरिग्रहे कृते सत्यपरकालस्यापि परिग्रहः कृत एव। स्नानानुलिप्तः इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यत्र स्नातशब्दः स्नानेन निमित्तेन प्रयुक्तः, अनुलिप्तशब्दोऽनुलेपनेन; तयोश्चैकत्रार्थे वृत्तिरित्यस्ति सामानाधिकरण्यम्। एकशाटी इति। एका चासौ शाटी चेति पुंवत् कर्मधारयजातीयदेशीयेषु (6.3.42) इत्यादिना पुंवद्भावः॥

Prakriyasarvasvam

पूर्वकालार्था एकाद्याश्च समानाधिकरणेन समस्यन्ते । पूर्वकालक्रियार्था उत्तरकालक्रियार्थैरेव । स्नातानुलिप्तः । अत्र स्नातस्यानुलिप्तस्य चैकत्वात् समानाधिकरणत्वम् ॥

Sutra Prayogas

  • सर्वशैलाः (कुमारसम्भवम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः।

  • व्यवस्थापितसंहृतानि (कुमारसम्भवम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति तत्पुरुषसमासः।

  • दष्टमुक्तम् (कुमारसम्भवम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इत्यनेन समासः।

  • लीढमुक्ता (किरातार्जुनीयम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समानाधिकरणसमासः।

  • नाकवनितापरिभुक्तमुक्तं (किरातार्जुनीयम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इत्यादिना तत्पुरुषः।

  • निपीडितकृशस्य (किरातार्जुनीयम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः।

  • निर्भिन्नपातिता (किरातार्जुनीयम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः।

  • कृतध्वस्तगुणात् (किरातार्जुनीयम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः।

  • क्षणशयितविबुद्धाः (शिशुपालवधम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः।

  • सर्वरात्रम् (शिशुपालवधम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः।

  • जितसंयतं (शिशुपालवधम्): पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन इति समासः।

  • नग्न-मुषित-प्रख्यं (भट्टिकाव्यम्): पूर्वकाल इति सः तयोः पूर्वापरकालत्वात् समासः।

  • सर्व-रात्र-कल्यान्यः (भट्टिकाव्यम्): पूर्वकाल इति सः।