21048: पात्रेसमितादयश्च

Padacheda: पात्रेसमित-आदयः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The words like पात्रे-सम्मित ‘a dish-companion’ (a parasite) etc. are तत्-पुरुष compounds when contempt is implied.

Vasu English Translation

The words like पात्रे-सम्मित ‘a dish-companion’ (a parasite) etc. are तत्-पुरुष compounds when contempt is implied. The words like pátre-sammita ‘a dish-companion’ (a parasite), &c., are Tat-purusha compounds, when contempt is implied.

All these are irregular compounds. Some of the words contained in this list are compounds formed with the past-participle (क्त); they could have been formed by previous aphorism also. Their inclusion in this list is for the purpose that their first member should have udatta on the beginning; because all the words belonging to this class, are a subdivision of a larger class called ‘युक्तारोह्यादि Class’ treated of in sútra (VI.2.81.)

The following is the list of the words:- 1 पात्रेसम्मिताः, 2 पात्रेबहुलाः, ‘a parasite’ (constant at meals or dinner time). 3 उदुम्बरमशकः, 4 उदुम्बरकृमिः, 5 उदरकृमिः, 6 कूपकच्छपः, 7 अवटकच्छपः, 8 कूपमण्डूकः, 9 कुम्भमण्डूकः, 10 उदपानमण्डूकः, 11 नगरकाकः, 12 नगरवायसः, 13 मातरिपुरुषः, 14 पिण्डीशूरः, 15 पितरिशूरः, 16 गेहेशूरः, 17 गेहेनर्दी, 18 गेहेक्ष्वेडी, 19 गेहेविजिती, 20 गेहव्याडः, 21 गेहेमेही, 22 गेहेदाही, 23 गेहेदृप्तः, 24 गेहेधृष्टः, 25 गर्भेतृप्तः, 26 आखनिकबकः, गोष्ठेशूरः, 28 गोष्ठेविजिती, 29 गोष्ठेक्ष्वेडी, 30 गोष्ठेपटुः, 31 गोष्ठेपण्डितः, 32 गोष्ठेप्रगल्भः, 33 कर्णेटिरिटिरा, 34 कर्णेचुरुचुरा।।

Bhashya

पात्रेसमितादयश्च (396) (251 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ.31) (चकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थश्चकारः? ॥ (समाधानभाष्यम्) एवकारार्थः। पात्रेसमितादय एव ॥ क्व मा भूत्?। परमं पात्रे समिता इति ॥ पात्रेसमि ॥ 47 ॥

Kashika

समुदाया एव निपात्यन्ते। पात्रेसमितादयः शब्दास्तत्पुरुषसंज्ञा भवन्ति क्षेपे गम्यमाने। ये चात्र क्तान्तेन सह समासाः, तेषां पूर्वेणैव सिद्धे पुनः पाठो युक्तारोह्यादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा स्यादिति। युक्तारोह्यादिषु (६.२.८१) हि पात्रेसमितादयश्च (ग०सू० १७४) इति पठ्यते। पात्रेसमिताः। पात्रेबहुलाः। अवधारणेन क्षेपो गम्यते, पात्र एव समिताः, न पुनः क्वचित् कार्य इति। उदुम्बरमशकादिषूपमया क्षेपः। मातरिपुरुष इति प्रतिषिद्धसेवनेन। पिण्डीशूरादिषु निरीहतया। अव्यक्तत्वाच्चाकृतिगणोऽयम्॥ पात्रेसमिताः। पात्रेबहुलाः। उदुम्बरमशकाः। उदरक्रिमिः। कूपकच्छपः। कृपचूर्णकः। अवटकच्छपः। कूपमण्डूकः।कुम्भमण्डूकः। उदपानमण्डूकः। नगरकाकः। नगरवायसः। मातरिपुरुषः। पिण्डीशूरः। पितरिशूरः। गेहेशूरः। गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती। गेहेव्याडः। गेहेमेही। गेहेदाही। गेहेदृप्तः। गेहेधृष्टः। गर्भेतृप्तः। आखनिकबकः। गोष्ठेशूरः। गोष्ठेविजिती। गोष्ठेक्ष्वेडी। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेटिट्टिभः। कर्णेटिरिटिरा। कर्णेचुरचुरा। चकारोऽवधारणार्थः, तेन समासान्तरं न भवति — परमपात्रेसमिता इति॥

Siddhanta Kaumudi

एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥

Balamanorama

पात्रेसंमितादयश्च - पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण् गतौ । संपूर्वात्गत्यर्थाकर्मके॑ति कर्तरि क्तः । निपातनात्सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः । फलितमाह — भोजनेति । गेहेशूर इति । गेह एव प्रकटितशौर्यो, न तु युद्ध इत्यर्थः । गेहेनर्दीति । ‘नर्द शब्दे’ ‘सुप्यजातौ’ इति णिनिः । समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । अवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः । ततः किमित्यत आह — तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति ।

Tattvabodhini

पात्रेसंमितादयश्च - पात्रेसमितादयश्च । संपूर्वादिणः क्तः । गेहेनर्दीति ।नर्द शब्देq॑इत्यस्मात्सुप्यजातौ -॑इति णिनिः । घटकतया प्रवेशो नेति ।परमाः पात्रेसमिताः॑इति वाक्यमेव भवति, न तुसन्मह॑दित्यादिना समासान्तरमिति भावः । एतच्च शब्दकौस्तुभे स्थितम् । अन्ये तुकवलाः पात्रेसमिताः॑इति वाक्यमेव, न तुपूर्वकालैके॑त्यादिना समासान्तरमित्याहुः ।

Padamanjari

युक्तारोह्यादिपरिग्रगर्थमिति। युक्तारोह्यादयश्चेत्यत्रैषामपि परिग्रहो यथा स्यादित्यर्थः। प्रत्र एव समिता इति। भोजनसमय एव सङ्गता इत्यर्थः। पात्रेबहुला इति। भोजनसमय एव सङ्घीभवन्ति, नान्यकार्य इत्यर्थः। उबुम्बरमशकादिष्विति। यस्तत्रैव तृप्तो नास्मात्परमस्तीति मन्यते, सोऽयमदृष्टविस्तारः पुरुष उदुम्बरमशकादिरुच्यत इत्यर्थः। प्रतिषिध्दसेवनेनेति। शत्रुषु भार्यायां वा पुरुषायितव्यम्, मातरि पुरुषायितं प्रतिषिध्दप्। निरीहतयेति। पिण्डी उ ओदनपिण्डः, तत्रैव शूरो नान्यत्रेति निरीहता। परमपात्रेसमिता इति। एवंरूपं वृत्यन्तरं न भवति, परमाः पात्रेसमिता इति वाक्यमेव भवतीत्यर्थः॥ 49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ॥ 2-1-49 ॥ भिन्नप्रवृत्तिनिमितस्येत्यादि। भिन्नग्रहणं पर्यानिवृत्यर्थम्। एकग्रहणं गौरश्च इत्यादिनिवृत्यर्थम्। क्वचिद् भिन्नन्मितप्रयुक्तस्येति पाठः, भिन्नेन निमितेन प्रवृत्तिनिमितेन प्रवर्तितस्येत्यर्थः।’विशेषणं विशेष्येण’ इति सिध्दे पूर्वकालादीनां पूर्वनिपातार्थं वचनम्, एकशब्दस्य तु’दिक्संख्ये संज्ञायाम्’ इति नियमात्प्राप्त्यर्थमेव। पूर्वकाल इत्यर्थग्रहणमिति। पूर्वः कालोऽस्य पूर्वकालः, पूर्वमनुष्ठत इत्यर्थः। स च चरमानुष्ठितमपेक्ष्य भवतीत्यर्थातेनैव समासो विज्ञायत इत्याह - परकालेनेति। स्नातानुलिप्त इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यर्थः। अत्र क्रियाशब्दत्वात्पाचकपाठकादिवत्पूर्वनिपातः पर्यायात्स्यात्। एकशाटिति। शाटशब्दाज्जतिलक्षणो ङीष्, ठेकतध्दिते चऽ इति ह्रस्वः। सर्वमनुष्य इति। अत्र विशेषणमित्यपि समेसे न दोषः, तस्मात्क्रियावाचिनां कूणवाचिनां वा समासो दर्शनीयः। एवं जरदादिष्वपि एकस्याः शाटीति। अत्र भवितव्यमेव षष्ठीसमासेन, तस्मादेकरस्याः शौक्ल्यगिति प्रत्युदाहर्तव्यम्। अत्र हि गुणेन नेति प्रतिषेधः॥

Nyaas

युक्तारोह्राविपरिग्रहार्थः इति। युक्तारोह्रादिषु युक्तारोह्रादिभिर्वा परिगर्होऽर्थः प्रयोजनं यस्य पाठस्य स तथोक्कतः। किमर्थं पुनर्युक्तारोह्रादिषु परिग्रहस्तेषामिष्यत इत्याह - पूर्वपदाद्युदात्तत्वं यथा स्यात् इति युक्तारोह्रादीनां हि युक्तारोह्रादयश्च (6.2.81) इत्यनेन पूरवपदाद्युदात्तत्वं विधीयते। तत्र यदि ये क्तान्तास्ते न पठएरन्, तदा तेषामाद्युदात्तत्वं न स्यात्। कथं पुनः पात्रेसमितादयो युक्तारोह्रादिग्रहणेन गृह्यन्ते; यतस्तेषां विधीयमानमाद्युदात्तत्वं पात्रेसमितादीनमपि भवतीत्याह - युक्तारोह्रादिषु हि इत्यादि। उदुम्बरमशकादिषूपमया क्षेपः इति। यस्तत्रैवावरुद्धो न क्वचिद्गच्छति तमव विशिष्टचं मन्यते - नास्मात्परमस्तीति, सोऽदृष्टविस्तार उच्यत उदुम्बरमशक इति। एवमन्यत्राप्यपमानात् क्षेपः। प्रतिषिद्धसेवनेन इति। यः कश्चित् प्रतिषिद्धमाचरति स मातरिपुरुषः इत्युच्यते। निरीहतया इति। यो न किञ्चित् कर्तुं समर्थः स पिण्डीशूरः इत्येवमादिभिः पदैरभिधीयते। चकारोऽवधारणार्थः इति। पात्रेसमितादय एव यता स्युः, यदन्यत् समासान्तरं तेषां प्राप्नोति तन्मा भूदिति। तेन परमपात्रेसमिता इत#इ सन्महत् (2.1.60) इत्यादिना समासान्तरं न भवति॥

Prakriyasarvasvam

एते क्षेपे स्युः । ‘पात्रमवधारणे समितबहुलाभ्यां न चान्यसमासः’ (स० ३-२-६६) । पात्रेसर्मितोऽयम् । भोक्तुं पात्र एव सङ्गतः, नान्यत्रोपयोगीत्यव- धारणेन क्षेपः । एवं भोक्तुमेव प्रायेणागच्छन् पात्रेबहुलः । अन्यसमासनिषेधात् पापपात्रेसमितः इत्यादि न । ‘तत्पुरुषे कृति—’ (६–३–१४) इति बहुलोक्तेः सर्वत्रालुक् । ‘गेहगोष्ठौ शूरक्ष्वेलिनर्दिविजितव्याडपटुपण्डितप्रगल्भैः’ (स० ३– २–६७) । अवधारणे सति क्षेपे समस्येते । गेह एव शूरः गेहेशूरः । क्ष्वेलिनर्दिनौ गर्जकार्थौ । व्याड उक्तः । गेहेक्ष्वेली । गोष्ठेक्ष्वेलीत्यादि । सर्वत्रालुग्गुह्यः । ‘उदुम्बरः कृमिमशकाभ्यामुपमायाम्’ (स० ३–२–६८) । उदुम्बरकृमिः । उदुम्बरमशकः । तत्फलान्तर्गतौ ताविवादृष्टविस्तार इत्यर्थः । ‘अवटक्रूपौ कच्छपमण्डूकाभ्याम् (स० ३–२–६८) । उपमायामेव । अवटकच्छपः । कूपमण्डूकः । प्राग्वदल्पदर्शीत्यर्थः । उदपानमण्डूकः कच्छपमण्डूक इत्यपि माधवः । ‘नगरं काकादिभिः (स० ३–२– ७०) । नगरकाकः । नगरवायसः । नगरश्वा । तथा धृष्ट उक्तः । ‘गेहेमेहिपिण्डोशूरौ निरीहतायाम्’ (स० ३-२-७१) । ‘पितरि शूरमातरिपुरुषौ क्षियायाम्’ (स० ३-२-७२) । क्षिया दुराचारः । ‘गर्भः सुहिततृप्तदृप्तैरनौचित्ये’ (स० ३-२-७३)। गर्भेसुहितः । गर्भे तृप्तः । गर्भे दृप्तः गर्भमात्रेण पुत्रोत्पत्तिवच्चेष्टत इत्यनौचित्यम् । कर्णेटिरिटिराचुरुचुराऽभ्याम् । अनौचित्य एव । कर्णेटिरिटिरा । कर्णे चुरुचुरा । असह्यवागनुकरणाभ्यामाभ्यामनुचितक्रियोच्यत इति ॥ <karika>इहानुक्तैः समासार्थं द्वितीयेत्यादि खण्ड्यताम् । कृता बहुलमित्येतत् बाहुल्यं वा विजृम्भताम् ॥ ३७९ ॥</karika>

Sutra Prayogas

  • पात्रे-समितैः (भट्टिकाव्यम्): पात्रेसमितादयश्च इति क्षेपे सः ।

  • गेहे-नर्दिनम् (भट्टिकाव्यम्): पान्ने-समितादयश्च इति सः।

  • पिण्डी-शूरान् (भट्टिकाव्यम्): पात्रेसमितादयश्च इति सः समासः।