21050: दिक्संख्ये संज्ञायाम्

Padacheda: दिक्-संख्ये | S | 1 | 2 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words expressing a point of the compass or a number (संख्या ) enter into composition with the word correlated to them by being in the same case, when the sense of the compound is that of an appellative and the resulting compound is तत्-पुरुष ।

Vasu English Translation

The words expressing a point of the compass or a number (संख्या ) enter into composition with the word correlated to them by being in the same case, when the sense of the compound is that of an appellative and the resulting compound is तत्-पुरुष । The phrase ‘being in apposition,’ is understood in every one of these sútras up to the end of the chapter.

  • As पूर्वेषुकामशमी ‘the town of Ishukamasami -in-the-east.’ अपरेषुकामशमी the town of Ishukamasami -in-the-west.’ पञ्चाम्राः ‘the five mangoes’ सप्तर्षयः ‘the seven-sages’ (the constellation of the Great Bear),

Why do we say ‘when the sense is that of an appellative ?’ Observe उत्तरा वृक्षाः ‘northern trees.’ पञ्च ब्राह्मणाः ‘five Brahmanas.’ See (4.2.107)

Kashika

समानाधिकरणेन इत्या पादसमाप्तेरनुवर्तते। दिग्वाचिनः शब्दाः संख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति संज्ञायां विषये। पूर्वेषुकामशमी। अपरेषुकामशमी। संख्या — पञ्चाम्राः। सप्तर्षयः। संज्ञायमिति किम्? उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥

Siddhanta Kaumudi

समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥

Laghu Siddhanta Kaumudi

संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। तेनेह न - उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥

Balamanorama

दिक्सङ्ख्ये संज्ञायाम् - दिक्संख्ये । अधिकार इति ।पूर्वकालैके॑ति सूत्रस्थंसमानाधिकरणेने॑त्येतदा पादसमाप्तेरनुवर्तत इत्यर्थः । ततश्च दिक्सङ्ख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः । ननुविशेषणं विशेष्येणे॑ति यदि दिक्सङ्ख्ययोस्समासः स्यात्तर्हि संज्ञायामेवे॑ति नियमशरीराभ्युपगमात् । ‘पूर्वसूत्रं’ ‘पूर्वमासः’ ‘पूर्वसमुद्रः’ इत्यादौ तु संज्ञात्वाऽभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव । ननुत्रिलोकनाथः पितृसद्मगोचरः॑ इति कथं कालिदासप्रयोगः, त्रिलोकशब्दस्य असंज्ञात्वात् । त्रयाणां लोकानां समाहार इति विग्रहे ‘तद्धितार्थ’ इति द्विगुसमासे तु ‘द्विगोः’ इति ङीप्प्रसङ्गः ।अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीलिङ्गत्वात् । पात्रादित्वान्न स्त्रीत्वमित्यभ्युपगमेयदि त्रिलोकी गणनापरा स्या॑दित्यादिप्रयोगा न युज्येरन्निति चेत्सत्यम् । लोकशब्दोऽत्र लोकसमुदायपरः । त्त्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः । एतच्च ‘द्विगोर्लुगनपत्ये’ इति सूत्रे भाष्ये स्पष्टम् ।षोडशपदार्थाना॑मित्यत्र तु षोडशसंख्याकाः पदार्था इति मध्यमपदलोपी समास इत्यलम् । पूर्वेषुकामशमीति । पूर्वशब्दस्य इषुकामशमीशब्देन समासः । देशविशेषस्य संज्ञेयम् । सप्तर्षय इति । मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम् । नेहेति । असंज्ञात्वादिति भावः ।

Tattvabodhini

दिक्सङ्ख्ये संज्ञायाम् - दिक्सङ्ख्ये संज्ञायाम् । नियमार्थमिति ।तत्पुरुषे संज्ञायामेव दिक्सङ्ख्ये समस्येते॑इति नियमशरीरम् । तेन पञ्चगुरित्यादि सिद्ध्यति । कथं तर्हित्रिलोकनाथः पितृसद्मगोचरः॑इति कालिदासः । त्रिलोकशब्दस्याऽसंज्ञात्वात् । न च समाहारे द्विगु),द्विगोः॑इति ङीप्प्रसङ्गात् । न च पात्रादित्वं कल्प्यं,यदि त्रिलोकी गणना परा स्या॑दित्यादिप्रयोगाणामसङ्गत्यापत्तेः । न चउत्तरपदे॑इति समासः, त्रिपदतत्परुषस्येह दुर्लभत्वात् । अत्राहुः — लोकशब्दोऽत्र लोकसमुदायपरः । त्र्यवयवो लोकस्त्रिलोकः । शाकपार्थिवादित्वादुत्तरपदलोप॑इति । पञ्च ब्राआहृणा इति । यद्यप्यत्र कृतेऽपि समासे रूपे विशेषो नास्ति, तथापि विभक्त्यन्वये पञ्चभिब्र्राआहृणौरित्यादौ विशेषो बोध्यः । तद्धितार्थो । असंज्ञार्थं वचनम् । एकापि सप्तमी विषयेभेदाद्भिद्यत इत्याशयेनाह ।

Padamanjari

‘विशेषणं विशेषण’ इति सिध्दे नियमार्थमेतत् - संज्ञायामेव ,नान्यत्रेति। पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात् समासः॥

Nyaas

पूर्वेषुकामशमीत्यादिः ग्रामाणां संज्ञा। पूर्वा चासाविषुकामशमी चेति पूर्वेषुकामशमी। मन्दश्रियां पूर्वोत्तरपदविभागमात्रप्रदर्शनार्थं वाक्यं कृतम्। न ह्यत्र वाक्येन भवितव्यम्। न हि वाक्येन संज्ञा गम्यते॥

Praudhamanorama

दिक्सङ्ख्ये सञ्ज्ञायाम् ॥ नियमार्थमिति । कथं तर्हि ‘त्रिलोकनाथेन सदा मखद्विषः’ इति कालिदासः । त्रिलोकशब्दस्याऽसञ्ज्ञात्वात् । न च समाहारै द्विगुः । ‘द्विगोरि’ति ङीप्प्रसङ्गात् । न च पात्रादित्वं कल्प्यम् । ‘यदि त्रिलोकीगणनापरा स्यादि’ति प्रयोगविरोधात् । न च ‘उत्तरपदे’ इति समासः । त्रिपदतत्पुरुषस्येह दुर्लभत्वात् । अत्रोच्यते लोकशब्दोऽत्र लोकसमुदायपरः । त्र्यवयवो लोकस्त्रिलोकः । शाकपार्थिवादिः । एतच्च ‘द्विगोर्लुगनपत्ये’ इति सूत्रे भाष्ये एव स्पष्टम् । एतेन ‘नवरसरुचिराम्’ इत्यादि व्याख्यातम् ।

Prakriyasarvasvam

दिक्‌छब्दाः सङ्ख्याशब्दाश्च नाम्नि समानाधिकरणेन समस्यन्ते । उत्तर- कोसलाः । सप्तर्षयः । त्रिवली ॥

Sutra Prayogas

  • सप्तर्षिहस्तोद्धृतहेमपद्माम् (रघुवंशम्): दिक्संख्ये संज्ञायाम् इति तत्पुरुषसमासः।

  • त्रिपुष्करेषु (रघुवंशम्): दिक्संख्ये संज्ञायाम् इति समासः।

  • सप्तर्षिहस्तावचितावशेषाण्यधो (कुमारसम्भवम्): दिक्संख्ये संज्ञायाम् इति समासः।

  • विकीर्णसप्तर्षिबलिप्रहासिभिः (कुमारसम्भवम्): दिक्संख्ये संज्ञायाम् इति समासः।