21034: अन्नेन व्यञ्जनम्¶
Padacheda: अन्नेन | S | 3 | 1 |
व्यञ्जनम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A word ending with the Instrumental -3rd case-affix and denoting a condiment, is optionally compounded with a word ending in a case-affix, signifying food and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
A word ending with the Instrumental -3rd case-affix and denoting a condiment, is optionally compounded with a word ending in a case-affix, signifying food and the resulting compound is तत्-पुरुष । That which is to be prepared is called अन्न, and that which prepares is व्यञ्जन; a, दध्योदनः = दध्ना उपसिक्त ओदनः ‘rice prepared or made relishable with curd.’ So also क्षीरौदनः. The words ‘food’ and ‘condiment’ as represented in the above compounds, are connected in sense by a verb understood.
Bhashya¶
अन्नेन व्यञ्ञ्जनम् (382)
Kashika¶
तृतीयेति वर्तते। व्यञ्जनवाचि तृतीयान्तमन्नवाचिना सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। संस्कार्यमन्नम्, संस्कारकं व्यञ्जनम्। दध्ना उपसिक्त ओदनः, दध्योदनः। क्षीरौदनः। वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम्॥
Siddhanta Kaumudi¶
संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥
Balamanorama¶
अन्नेन व्यञ्जनम् - अन्ने व्यञ्जनम् । व्यञ्जनशब्दं व्याचष्टे — संस्कारेति । संस्क्रियते गुणविशेषवतया क्रियते अनेनेति संस्कारः=उपसेकादिसाधनं दद्यादि, त्दावचकमित्यर्थः । अन्ननेति । अन्नम्-ओदनः । तद्वाचकशब्देनेत्यर्थः ।भिस्सा स्त्री भक्तमन्धोऽन्न॑मिति कोशः । दध्योदन इति । नन्विह दध्नेति करणत्वस्योपसिक्तपदापेक्षत्वादसामर्थ्यात्कथमिह समास इत्यत आह — अन्तर्भूतेति । उपसेकक्रियां विना दध्नोऽन्नसंस्कारकत्वानुपपत्त्या दध्नेत्यस्य दधिकरणकोपसेके वृत्तेर्नाऽसामर्थ्यामिति भावः । तदुक्तं भाष्ये — ॒युक्तार्थसंप्रत्ययाच्च सामर्थ्य॑मिति ।
Tattvabodhini¶
अन्नेन व्यञ्जनम् - अन्नेन ।भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री॑ इत्यमरः । व्याख्यानान्नेह स्वरूपग्रहणं, तदाह — संस्कारकेत्यादि ।
Padamanjari¶
दध्योदन इति। ननु च नेह क्रिया श्रूयते, न चान्तरेण क्रियां द्रव्याणां परस्परेण सम्बन्ध इत्यसामर्थ्यादत्र समासो न प्राप्नोति, अथासप्यपि सामर्थ्ये वचनाप्समासः? इहापि तर्हि स्यात् - किं दध्ना, ओदनो भूज्यतामिति, तत्राह - वृतौ क्रियाया अन्तर्भावादिति। स्वभावादेव वृतावन्तर्भूता क्रियेति तद्द्वारकस्य सम्बन्धस्य सद्भावात्सामर्थ्यमित्यर्थः॥
Prakriyasarvasvam¶
व्यञ्जनवाचि तृतीयान्तमन्नेन समस्यते । क्षीरेण सिक्त ओदनः क्षीरौदनः ॥