21034: अन्नेन व्यञ्जनम् ======================= **Padacheda:** अन्नेन | S | 3 | 1 | व्यञ्जनम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A word ending with the Instrumental -3rd case-affix and denoting a condiment, is optionally compounded with a word ending in a case-affix, signifying food and the resulting compound is तत्-पुरुष । Vasu English Translation ------------------------ A word ending with the Instrumental -3rd case-affix and denoting a condiment, is optionally compounded with a word ending in a case-affix, signifying food and the resulting compound is तत्-पुरुष । That which is to be prepared is called अन्न, and that which prepares is व्यञ्जन; a, दध्योदनः = दध्ना उपसिक्त ओदनः 'rice prepared or made relishable with curd.' So also क्षीरौदनः. The words 'food' and 'condiment' as represented in the above compounds, are connected in sense by a verb understood. Bhashya ------- अन्नेन व्यञ्ञ्जनम् (382) Kashika ------- तृतीयेति वर्तते। व्यञ्जनवाचि तृतीयान्तमन्नवाचिना सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति। संस्कार्यमन्नम्, संस्कारकं व्यञ्जनम्। दध्ना उपसिक्त ओदनः, दध्योदनः। क्षीरौदनः। वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम्॥ Siddhanta Kaumudi ----------------- संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥ Balamanorama ------------ **अन्नेन व्यञ्जनम्** - अन्ने व्यञ्जनम् । व्यञ्जनशब्दं व्याचष्टे — संस्कारेति । संस्क्रियते गुणविशेषवतया क्रियते अनेनेति संस्कारः=उपसेकादिसाधनं दद्यादि, त्दावचकमित्यर्थः । अन्ननेति । अन्नम्-ओदनः । तद्वाचकशब्देनेत्यर्थः ।भिस्सा स्त्री भक्तमन्धोऽन्न॑मिति कोशः । दध्योदन इति । नन्विह दध्नेति करणत्वस्योपसिक्तपदापेक्षत्वादसामर्थ्यात्कथमिह समास इत्यत आह — अन्तर्भूतेति । उपसेकक्रियां विना दध्नोऽन्नसंस्कारकत्वानुपपत्त्या दध्नेत्यस्य दधिकरणकोपसेके वृत्तेर्नाऽसामर्थ्यामिति भावः । तदुक्तं भाष्ये — ॒युक्तार्थसंप्रत्ययाच्च सामर्थ्य॑मिति । Tattvabodhini ------------- **अन्नेन व्यञ्जनम्** - अन्नेन ।भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री॑ इत्यमरः । व्याख्यानान्नेह स्वरूपग्रहणं, तदाह — संस्कारकेत्यादि । Padamanjari ----------- दध्योदन इति। ननु च नेह क्रिया श्रूयते, न चान्तरेण क्रियां द्रव्याणां परस्परेण सम्बन्ध इत्यसामर्थ्यादत्र समासो न प्राप्नोति, अथासप्यपि सामर्थ्ये वचनाप्समासः? इहापि तर्हि स्यात् - किं दध्ना, ओदनो भूज्यतामिति, तत्राह - वृतौ क्रियाया अन्तर्भावादिति। स्वभावादेव वृतावन्तर्भूता क्रियेति तद्द्वारकस्य सम्बन्धस्य सद्भावात्सामर्थ्यमित्यर्थः॥ Prakriyasarvasvam ----------------- व्यञ्जनवाचि तृतीयान्तमन्नेन समस्यते । क्षीरेण सिक्त ओदनः क्षीरौदनः ॥