21033: कृत्यैरधिकार्थवचने¶
Padacheda: कृत्यैः | S | 3 | 3 |
अधिक-अर्थ-वचने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A word ending with the Instrumental -3rd case-affix when it denotes the agent or the Instrument, is compounded optionally with a word ending in a कृत्य affix, when exaggerated statement (whether of praise or of censure) is implied and the resulting compound is तत्-पुरुष ।
Vasu English Translation¶
A word ending with the Instrumental -3rd case-affix when it denotes the agent or the Instrument, is compounded optionally with a word ending in a कृत्य affix, when exaggerated statement (whether of praise or of censure) is implied and the resulting compound is तत्-पुरुष । As काकपेयानदी ‘a shallow river’ (so shallow that a crow may dip his beak into it and touch the bottom and drink). श्वलेह्य कूपः ‘a shallow well’ (so that a dog can lick water from the brink of it). वाष्पच्छेद्यानि तृणानि ‘thin grass’ (so fragile that it can be cut by vapour) कण्टकसञ्चेय ओदनः .
This sūtra is in a way a prolongation of the last .
Vart:-The phrase ‘words ending in a kritya affix’ must not be taken universally, only the kritya affixes यत् and ण्यत् are meant in the above sutras. The following are the kritya affixes :- तव्य, अनीय, यत्, क्यप्, ण्यत्, (see sutra III.1.95-132). Therefore there is no compounding when the word ends in तव्य as in काकैः पातव्या.
Bhashya¶
कृत्यैरधिकार्थवचने (381) (243 तत्पुरुषसंज्ञासूत्रम् ॥ 2.1.2 आ.22) (इष्टानुपपत्तिपरिहाराधिकरणम्) (1257 वार्तिकम् ॥ 1 ॥ ॥ कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यते ॥ (व्याख्याभाष्यम्) कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यत इति वक्तव्यम्। बुसोपेन्ध्यं तृणोपेन्ध्यं घनघात्यम् ॥ (1258 वार्तिकम् ॥ 2 ॥ ॥ साधनं कृतेति वा पादहारकाद्यर्थम् ॥ (व्याख्याभाष्यम्) अथ वा साधनं कृता समस्यत इति वक्तव्यम् ॥ किं प्रयोजनम्?। पादहारकाद्यर्थम्। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः ॥ कृत्यैरधि ॥ 32 ॥
Kashika¶
स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनमधिकार्थवचनम्। कर्तृकरणयोर्या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यतेऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति। कर्ता — काकपेया नदी। श्वलेह्यः कूपः। करणम् — बाष्पच्छेद्यानि तृणानि। कण्टकसंचेय ओदनः। पूर्वस्यैवायं प्रपञ्चः॥ कृत्यग्रहणे यण्ण्यतोर्ग्रहणं कर्तव्यम्॥ इह मा भूत् — काकैः पातव्या इति॥
Siddhanta Kaumudi¶
स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥
Balamanorama¶
कृत्यैरधिकार्थवचने - कृत्यैरधिकार्थवचने । अर्थवादवचनमिति । असदुक्तरित्यर्थः । वातच्छेद्यमिति । वातेन च्छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः ।ऋहलोण्र्य॑दिति कृत्यप्रत्ययः । कोमलत्वेन स्तुतिः, दुर्वलत्वेन निन्दा वा । काकपेयेति ।अचो य॑दिति यत् ।ईद्यती॑ति गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा ।
Tattvabodhini¶
कृत्यैरधिकार्थवचने - कृत्यैरधिकार्थ । पूर्वसूत्रस्यैव प्रपञ्चोऽयं न तु नियमार्थमित्याहुः । वातच्छेद्येमिति । पूर्वत्कृत्यः । कोमलत्वाद्वातेनापि छेत्तु शक्यत इति स्तुतिः, वातेनापि छेत्तुं शक्यते निर्बलत्वादिति निन्दा वा । काकपेयेति ।शकि लिङ् चे॑ति शक्यार्थे कृत्यः । पूर्णतोयत्वात्तटस्थैः काकैरपि पातुं शक्येति स्तुतिः, अल्पतोयत्वेन निन्दा वा ।
Padamanjari¶
स्तुतिनिन्दाप्रयुक्तमिति। स्तुत्या निन्दया च प्रवर्तितं स्तोतुं निन्दितं च कृतमित्यर्थः। अध्यारोपितार्थवचनमिति। असन्नेवारोपितोऽध्यारोपितः। काकपेयेति। एवं नाम पूर्णतोया नदी यतटस्थैः काकैरपि शक्या पातुमिति स्तुतिः; एवं नामाल्पतोया चत्काकैरपि शक्या पातुमिति निन्दा; उभयत्र शक्यार्थे कृत्यः। श्वलेह्य इति। एवं नामाशुचिः कूपो यज्जलं श्वान एव लेढुअमर्हन्तीति निन्दा; अह्रार्थे कृत्यः। बाष्पच्छेद्यानीति। एवं नाम कोमलानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति स्तुतिः; एवं नाम कथितानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति निन्दा। कण्टकसंचेय इति। एवं नाम क्लिन्न ओदनो यत्कण्टकैः शक्यः संचेतुमिति स्तुतिः; एवं नामाल्प ओदनो यत्कण्टकैः संचीयत इति निन्दा। पूर्वस्यैवायं प्रपञ्चेति। यद्यपि स्तुतिनिन्दापरत्वात्क्रियोपादानस्य कर्तृकरणयोर्गौणत्वम्, तथापि बहुलवचनात्पूर्वेणैव सिध्दम्, तथा च काकपीता नदात्यत्राकृत्यैरप्यधिकार्थवचनैः समासो दृश्यते, अतः प्रपञ्च एवायम्, नाप्राप्तविधिः, नापि नियम इत्यर्थः॥
Nyaas¶
स्तुतिनिन्दाप्रयुक्तम् इति। स्तुत्या निन्दया वा यत् प्रयुक्तं प्रवर्त्तितं तत् स्तुतिनिन्दाप्रयुक्तम्। तदर्थमुच्चारितमित्यर्थः। अध्यारोपितार्थवचनम् इति। अध्यारोपितोऽर्थोऽसन्नेव बुद्ध्या समारोपितस्तस्य वचनमिति षष्ठीसमासः। कृर्त्तृकरणयोःट इति। अर्थे कार्यासम्भवात् तदभिधायिनि सुबन्ते कार्यं विज्ञायते। `काकपेया इति। पा पाने (धातुपाठः-925) इति अचो यत् (3.1.97) ईद्यति (6.4.65) ईत्त्वम्। अत्र सम्पूर्णतोयत्वोद्भावनं नद्याः स्तुतिः, अध्यारोपितः पुनरत्रार्थः काकपेयत्वम् - एवं नाम सम्पूर्णतोया नदी यत्तटस्थैरपि काकैः शक्या पातुम्। आलेह्रः कूपः इति। ऋहलोण्र्यत् (3.1.124) अत्राप्यासन्नोदकत्वोद्भावनं कूपस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः आलेह्रत्वम् - एवं नामासन्नोदकः कूपो यतः श्नभिरपि लिह्रते। बाष्पच्छेद्यानि तृणानि इति। अत्र मारद्वातिशयोद्भावनं तृणानां स्तुतिः। अध्यारोपितः पुनरत्रार्थो बाष्पच्छेद्यता - एवं नाम मृदूनि तृणानि यद्बाष्पेणापि शक्यानि छेत्तुम्। कण्टकसञ्चेय ओदनः इति। अत्रापि वैषद्यातिशयोद्भावनं विक्लिन्नतोद्भावनञ्चौदनस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः कण्टकसञ्चेयत्वम् - एवं नामौदनस्य विशदतातिशयो विक्लेदश्च यत्कण्टकेनापि शक्यः सञ्चेतुम्। एवं तावत् स्तुतिप्रयुक्तेऽधिकार्यवचन उदाहरणानि।निन्दाप्रयुक्तेऽधिकार्थवचन एतावन्त्येव द्रष्टव्यानि। तथा हि - काकेया नदीत्यत्राल्पतोयत्वोद्भावनं नद्या निन्दा। अध्यारोपितः पुनरत्रार्थस्तदेव पूर्वोक्तं काकपेयत्वम्, एवं आलेह्रादावपि पूर्वोक्त एवाध्यारोपितोऽर्थो द्रष्टव्यः - एवं नामाल्पतोया नदी यत्काकैरपि शक्यं पातुमिति। आलेह्रः कूप इत्यत्राप्यशुद्धतोयत्वोद्भावनं निन्दा- एवं नामाल्प ओदनो यत्कण्टकैरपि चीयत इति। ननु च बहुलवचनादधिकार्थोऽपि पूर्वेणैव सिद्धः समासः, तत्किमर्थमिदमित्याह - पूर्वस्य इत्यादि। ते वै विधयः सुसंगृहीता येषां प्रपञ्चश्चेति। सुसंगृहीतं यथा स्यादिति पूर्वस्यायं प्रपञ्च क्रियते॥दध्योदनः इति। ननु च क्रियाकृतः कारकाणां सम्बन्ध-, न तु स्वतः। न च वृत्ताविह काचन क्रिया श्रूयत इति सामर्थ्याभावः। असति च सामर्थ्ये समासाभावः। अथासत्यपि सामर्थ्ये वचनसामर्थ्यात् समासो भवतीति चेदास्यतां दध्ना, ओदनो भुज्यतां देवदत्तेनेत्यत्रापि स्यादित्यत आह - वृत्तौ इत्यादि। न ह्रसत्यामुपसेचनक्रियायां संस्कार्यं संस्कारकं सम्भवति। अस्ति चेह तदुभयमित्यतस्तद्भावादेव समासान्तर्भूता क्रिया गम्यते। तद्द्वारकश्चान्नव्यञ्जनयोः सम्बन्ध इति विद्यत एव सामर्थ्यम्॥
Prakriyasarvasvam¶
स्तुत्या निन्दया चासदर्धारोपणे सति कर्तृकरणार्था तृतीया कृत्यैः समस्यते । मुष्टिग्राह्यं मध्यमिति स्तुतिः । काकपेया नदीति तुच्छाम्बुत्वान्निन्दा ॥
Sutra Prayogas¶
करप्रचेयानि (किरातार्जुनीयम्): कृत्यैरधिकार्थवचने इति तृतीयासमासः।