14110: विरामोऽवसानम् ==================== **Padacheda:** विरामः | S | 1 | 1 | अवसानम् | S | 1 | 1 | Sutrartha --------- **वर्णानाम् अभाव: अवसानसंज्ञकः भवति ।** व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति अवसानम् इति संज्ञा, या प्रकृतसूत्रेण पाठिता अस्ति । **अर्धमात्रायाः अपेक्षया अधिकम् कालम् यावत् उच्चारणस्य अभावः इति**अवसानम्** इति संज्ञया निर्दिश्यते** - इति अस्य सूत्रस्य आशयः । यथा, फलम् इत्यत्र मकारात् अनन्तरम् कोऽपि वर्णः न विद्यते, अतः मकारात् अनन्तरम् **अवसानम्** अस्ति इति उच्यते । एवमेव, फलम् पतति इत्यत्र "फलम्" इति उक्त्वा ततः अर्धमात्रातः अधिकं विरामं स्वीकृत्य ततः "पतति" इति उच्चार्यते चेत् अत्रापि मकारात् अनन्तरम् **अवसानम्** अस्ति इति उच्यते **अवसानसंज्ञायाः प्रयोजनम्** अष्टाध्याय्याम् **अवसान**संज्ञायाः आहत्य त्रीणि प्रयोजनानि वर्तन्ते —
  • 1) विसर्गनिर्माणम् — **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यनेन सूत्रेण पदान्तरेफस्य **अवसाने परे** विसर्गादेशः भवति । यथा, "राम"-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ — .. code-block:: text राम + सुँ [प्रथमैकवचनस्य प्रत्ययः] → राम + स् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः। अग्रे **सुप्तिङन्तम् पदम्** (1.4.14) इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।] → राम + रुँ [**ससजुषो रुँ** (8.2.66) इति रुँत्वम् ] → रामः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति अवसाने परे रेफस्य विसर्गः]
  • 2) वैकल्पिकं चर्त्वम् — **वाऽवसाने** (8.4.56) इत्यनेन सूत्रेण पदान्ते विद्यमानस्य "जश्"-वर्णस्य **अवसाने परे** विकल्पेन चर्त्वं भवति ।यथा, "राम"-शब्दस्य पञ्चम्येकवचनस्य रूपसिद्धौ — .. code-block:: text राम + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] → राम + आत् [**टाङसिङसामिनात्स्याः** (7.1.12) इति आत्-आदेशः] --> रामात् [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] --> रामाद् [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्] --> रामाद्, रामात् [**वाऽवसाने** (8.4.56) इति विकल्पेन चर्त्वम् ।]
  • 3) वैकल्पिकः अनुनासिकादेशः — **अणोऽप्रगृह्यस्यानुनासिकः** (8.4.57) इत्यनेन प्रगृह्यभिन्नशब्दानाम् अन्ते विद्यमानः अण्-वर्णः **अवसाने परे** विकल्पेन अनुनासिकत्वं प्राप्नोति । यथा, "दधि" शब्दस्य प्रथमैकवचनम् "दधि" इत्यत्र धकारोत्तरः इकारः **अवसाने परे** अनेन सूत्रेण विकल्पेन अनुनासिकः भवति, येन "दधि" तथा च "दधिँ" एते द्वे रूपे भवतः । **संहिता तथा अवसानम्** **संहिता** तथा **विरामः** एतौ **विरुद्धार्थकशब्दौ** । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र **संहिता** अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र **अवसानम्** अस्ति इति उच्यते । **अस्य सूत्रस्य प्रत्याख्यानम्** **विरामोऽवसानम्** (1.4.110) इत्यस्मिन् सूत्रे भाष्यकारः इति किञ्चन वार्त्तिकं पाठयति । **संहिता** तथा **अवसानम्** एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् एव विषये कैयटः प्रदीपे — न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे । Sutrartha (English) ------------------- Absence of letters is called अवसान. Vasu English Summary -------------------- The cessation or the absence of succeeding letters is called pause or अवसान। Vasu English Translation ------------------------ The cessation or the absence of succeeding letters is called pause or अवसान। The word *avasana* occurs in *sutra* (8.3.15) &c. Bhashya ------- विरामोऽवसानम् इदं विचार्यते - अभावो वाऽवसानलक्षणं स्याद्विरामो वेति ? कश्चात्र विशेषः ? अभावेऽवसानलक्षणे उपर्यभाववचनम् ॥ 1 ॥ अभावेऽवसानलक्षणे उपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः, रथः, खरवसानयोविसर्जनीयः (8.3.16) इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि - विरामः । विरामे विरामवचनम् ॥ 2 ॥ यस्य विरामः, विरामग्रहणं तेन कर्तव्यम् । ननु च यस्याऽप्यभावस्तेनाऽप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति - अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति - विरामो लोपः, अवसानं चेति । उपरिविरामवचनम् ॥3 ॥ उपरि यो विराम इति वक्तव्यम् । पुरस्तादपि (हि) शब्दस्य विरामस्तत्र मा भूत् । किं च स्यात्? रसः रथः, खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । नैष दोषः आरम्भपूर्वको मम विरामः । अथवा नेदमवसानलक्षणं विचार्यते । किं तर्हि ? संज्ञी । अभावोऽवसानसंज्ञी स्याद्विरामो वेति । कश्चात्र विशेषः ? अभावेऽवसानसंज्ञिन्युपर्यभाववचनम् ॥ 4 ॥ अभावेऽवसानसंज्ञिन्युपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः रथः, खरवसानयोर्विसर्जनीय इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि - विरामोऽवसानम् । विरामे विरामवचनम् ॥ 5 ॥ यस्य विरामस्तेन विरामग्रहणं कर्तव्यम् । ननु च यस्याप्यभावस्तेनाप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति - अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति - विरामो लोपोऽवसानं चेति । उपरि यो विराम इति वक्तव्यम् । ननु चोक्तम् - आरम्भपूर्वके - इति । नावश्यमयं रमिः प्रवृत्तावेव वर्तते । किं तर्हि ? अप्रवृत्तावपि । तद्यथा, - उपरतान्यस्मिन्कुले व्रतानि उपरतः स्वाध्याय इति । न च तत्र स्वाध्यायो भूतपूर्वो भवति, नापि व्रतानि । भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं न ॥ 5 ॥ भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं नोपपद्यते । किमिदं भावाऽविरामभावित्वादिति ? भावस्याऽविरामो भावाऽविरामः, भावाऽविरामेण भवतीति भावाऽविरामभावी, भावाऽविरामभाविनो भावो भावाऽविरामभावित्वम् । अपर आह - भावभावित्वादविरामभावित्वाच्च शब्दस्याऽवसानलक्षणं नोपपद्यते - इति । तत्पर इति वा वर्णस्याऽवसानम् ॥ 6 ॥ विरामपरो वर्णोऽवसानसंज्ञो भवतीति वक्तव्यम् । वर्णोऽन्त्यो वाऽवसानम् ॥ 7 ॥ अथवा व्यक्तमेव पठितव्यम् - अन्यो वर्णोऽवसानसंज्ञो भवतीति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । संहिताऽवसानयोर्लोकविदितत्वात्सिद्धम् ॥ 8 ॥ संहिताऽवसानमिति लोकविदितावेतावर्थौ । एवं हि कश्चित्कंचिदधीयानमाह-शन्नोदेवीयं संहितयाऽधीष्वेति । स तत्र परमसन्निकर्षमधीते । अपर आह-केनाऽवस्यसीति ? स आह - अकारेणेकारेणोकारेणेति । एवमेतौ लोकविदितावर्थौ, तयोर्लोकविदितत्वात्सिद्धमिति ॥ 110 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे चतुर्थमाह्निकम् । पादश्च समाप्तः । प्रथमोऽध्यायः समाप्तः । (221 समर्थपरिभाषासूत्रम् ॥ 2.1.1। अ.1 सू.) Kashika ------- विरतिर्विरामः। विरम्यतेऽनेनेति वा विरामः। सोऽवसानसंज्ञो भवति। दधिँ। मधुँ। वृक्षः। प्लक्षः। अवसानप्रदेशाः — **खरवसानयोर्विसर्जनीयः** (८.३.१५) इत्येवमादयः॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः॥ Siddhanta Kaumudi ----------------- वर्णानामभावोऽवसानसंज्ञः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- वर्णानामभावोऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥ Laghu Shabdendushekhar ---------------------- **विरामोऽवसानम्** ।शब्दानुशासनप्रस्तावादाह **वर्णानामिति** । उच्चारणाभाव इत्यर्थः । स च व्याख्यानात्किञ्चिद्वर्णोच्चारणानन्तरकालिक एव गृह्यते । प्रदेशाः **वावसाने** (8.4.56) । अभावस्यापि बुद्धिकृतं पौर्वापर्यं वर्णवत् । Balamanorama ------------ **विरामोऽवसानम्** - विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः । सामीपिकेऽधिकरणे घञ् । विरमणं-क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद्वर्णानामुच्चारणाऽभावात्मक इति लभ्यते । तथा चयस्मिन्वर्णे उच्चारिते सति अव्यवहितात्तरकाले वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक॑ इत्यर्थः फलति । तदभिप्रेत्य व्याचष्टे — वर्णानामिति । यस्मिन्नुच्चारिते सति वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक इत्यद्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाऽभावो विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एव गृह्रते , व्याख्यानात् । अस्मिन् पक्षेकिञ्चिद्वर्णोच्चारणोत्तरं वर्णान्तराणामुच्चारणाभावोऽवसान॑मिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतो रेफस्य विसर्गः, अवसाने तुरेफे स्थानिनी॑ति योज्यम् । खपवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् । Tattvabodhini ------------- **विरामोऽवसानम्** - विरामोऽवसानम् । विरमणं विरामः । भांवेघञ् । शब्दानुसासनप्रस्तावादाह-वर्णानामिति । संज्ञाप्रदेशाः-वावसाने॑ इत्यादयः । अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव, यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम् । यद्वा विरम्यतेऽनेनेति विरामः, बाहुलकात्करणे घञ् । यदुच्चारणोत्तरं वर्णान्तरं नोच्चार्यते सोऽन्त्यवर्णोऽवसानसंज्ञ इत्यर्थः । अस्मस्तु पक्षेखरवसानयोः॑ इत्येकापि सप्तमी विषयभेदाद्भिद्यते-खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति । Padamanjari ----------- विरतिर्विराम इति। विराम इति भावे घञ्। विरामःउ वर्णोच्चारणाभावः। अर्थान्तरमाह - विरम्यतेऽनेनेति वा विराम इति।'कृत्यल्युटो बहुलम्' इत्यसंज्ञायामपि'हलश्च' इति करणे घञ्, पूर्वत्राभावः संज्ञी उतरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षेठ्खरवसानयोःऽ इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं'वावसाने' इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते - खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं'वा' वसानेऽ इत्यत्रापि। दधिं मधुÄ इति । ठणोऽप्रगृह्यस्यानुनासिकःऽ अत्र'वावसाने' इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह - संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्तिककारो मन्यते॥ हरदतमिश्रविरचितायां पदमञ्जर्यो प्रथमाध्यायस्य चतुथः पादः॥ Nyaas ----- `विरतिर्विरामः` इति। भावे घञ्। विरामो वणोच्चारणाभावोऽवसानसंज्ञो भवति। `विरम्यतेऽनेनेति विरामः` इति विरामशब्दस्य द्वितीयमर्थं दर्शयति। **कृत्यल्युटो बहुलम्** (3.3.113) इति बहुलवचनादसंज्ञायामपि `हलश्च` (3.3.121) इति घञ्। अत्र पक्षे येनान्त्येन वर्णेन विरम्यते सोऽवसानसंज्ञो भवति। तत्र पूर्वस्मिन् पक्षेऽभावे पौर्वापर्याभावात् `खरवसानयोः` (8.3.15) इत्यत्रावसानापेक्षया विषयसप्तमीयं विज्ञायते; न परसमप्तमी। खरपेक्षया तु सप्तमीयम्।अन्ये तु - यद्यभावे पौर्वापर्यं न सम्भवतीत्यवसनापेक्षया `खरवसानयोः` (8.3.15) इति परसप्तमी नोपपद्यते, तदा **इको यणचि** (6.1.77) इत्यादावपि परसप्तमी नोपपद्यते। कथम्? वर्णानां क्रमभावित्वात्, उच्चरितप्रध्वंसितत्वाच्च। यदेगस्ति तदाञ् नास्ति, यदा त्वजस्ति तदेग् नास्ति। अथात्र बुद्धिप्रकल्पितं पौर्वापर्यमाश्रित्य परसप्तमीष्यते, तदा `खरवसानयोः` (8.3.15) इत्यत्रापितथैवैष्टव्येति मन्यमाना अवसानापेक्षयापि परसप्तमीमिच्छन्ति।अपरे तु - अन्त्यस्य तु वर्णस्यावसानसंज्ञायां सत्यां `खरवसानयोः` (8.3.15) इति षष्ठी विज्ञायते। अत्रावसानापक्षया स्थानषष्ठी। रेफस्यावसानस्य विसर्जनीय इति खरपेक्षया तवानन्तर्यलक्षणा षष्ठीति वदन्ति। तन्मते स्थानषष्ठआं हि `रो रि` (8.3.14) इत्यतो रेफस्यानुवृत्तस्य यत् स्थानित्वं तदविरुध्यते तदेवमेकापि विभक्तिर्यथायोगं विभज्यते। ननु चाभावपक्षेऽपि पूर्वस्मिन्नपि भागेऽनुच्चारममस्ति, तत्रापि विसर्जनीयः प्राप्नोति - रथ इति, अस्ति ह्यत्रापि रेफात् प्रागुच्चारणम्? नैष दोषः तत्र हि प्रकृतं पदग्रहणं रेफेण विशिष्यते - रेफान्तस्य पदस्येति। न च पूर्वेण रेफेण पदं भवति। नन्वेवप्यर्थस्यैषा संज्ञा स्यादिति `खरवसनायोः` (8.3.15) इत्यत्र **तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति परिभाषा नोपतिष्ठते। शब्दे हि सप्तमीनिर्दिष्टे सतीयमुपतिष्ठते, नार्थे। तदनुपस्थाने च परेण रेफेण रेफान्तस्य रथ इत्येतस्य पदस्य पूर्वो यो रेफस्तस्य व्यवहितस्यापि विसर्जनीयः स्यात्, नैष दोषः; ज्ञापकान्न भविष्यति, यदयं **उरण् रपरः** (1.1.51) इति व्यवहितस्य रेफस्य विसर्जनीयमकृत्वा निर्देशं करोति, तज्ज्ञापयति- व्यवहितस्य रेफस्य विसर्जनीयो न भवतीति। `नन्वत्र लोके प्रसिद्धेरेवायन्त्ये वर्णेऽवसानशब्दस्य सम्प्रत्ययो भविष्यति। प्रसिद्धो हि लोके - अन्त्ये वर्णेऽवस्यतेः प्रयोगः। तथा हि केनावस्यतीत्युक्ते वक्तारो वदन्ति - इकारेणोकारेण वेति। इकारादिवर्णेनावसानं करोतीत्यर्थः। ततः प्रदेश एवावसानग्रहणं कर्तव्यमिति नार्थः संज्ञासंज्ञिप्रणनेन, नैतदस्ति; अपूर्वो हि स्यतिः परिसमाप्तावपि वर्तते - अवसितो वाद इति, अवगमेऽपि वर्तते - अवसितोऽर्थ इति, पराभवेऽपि वर्तते - द्वयोर्विवादेऽवसितो दवदत्त इति। तत्र यदीयं नारभ्यते, तदावसानग्रणे सन्देहः स्यात् - किमभिधानावसानशब्दस्य ग्रहणमिति? **विरामोऽवसानम्** (1.4.110) इति तु ह्रन्तग्रहणं कर्तव्यम् - खरन्त्ययोरिति? एतदपि नास्ति; एवं हि सन्देहः स्यात् - किमन्त्यस्य वर्णस्य? उत पदस्य? आहोस्वद्वाक्यस्येति? तत्रान्त्यस्य विशेषणार्थं वर्णग्रहणं कर्तव्यं स्यात्। तस्मात् संज्ञासंज्ञिसम्बन्धः कर्तव्यः।`वृक्षः, प्लक्षः` इति। `खरवसनायोर्विसर्जनीयः` (8.3.15) । `दधिं मधुँ` इति। **अणोऽप्रगृह्यस्यानुनासिकः** (8.4.57) इति। अत्र हि **वाऽवसाने** (8.4.56) इत्यतोऽवसानग्रहणमनुवर्तते॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यचतुर्थः पादः समाप्तश्चायं प्रथमोऽध्यायः॥ Prakriyasarvasvam ----------------- वर्णानां¹ विरामोऽवसानसंज्ञः । Sarala ------ शब्दानुशासनेऽभावो भावो वा वर्णानामेव सम्भवतीत्यत आह - **वर्णानामिति** ॥ Sudha ----- **विरामोऽवसानमिति ।** विरम्यते अस्मिन्निति विरामः सामीपिकेऽधिकरणे घञ् । विरमणम्-क्रियाया अभावः । स च शब्दशास्त्रप्रस्तावात् वर्णानामुच्चारणाभावात्मक इति लभ्यते । तदेतदाह - **वर्णानामभाव इत्यादिना । राम इति ।** रमन्तेयोगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ इति श्रुतिः । अत्रैव यदि यौगिको रामशब्द आश्रीयते तदा **कृत्तद्धितसमासाश्च**(1.2.46) इत्यनेन प्रातिपदिकसंज्ञा । यदि च रूढो दशरथात्मजो रामशब्दस्तदा **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्**(1.2.45) इत्यनेन प्रातिपदिकसंज्ञा । तस्यां कृतायां **ङ्याप्प्रातिपदिकात्**(4.1.1) इतिसूत्रेण प्रातिपदिकसंज्ञकरामशब्दात् खले कपोतन्यायेन सर्वे स्वादयः प्राप्ताः, तत्र **सुपः**(1.4.103) इत्यनेन प्रथमादिसप्तम्यन्तत्रिके प्रत्येकम् एकद्विबहुवचनसंज्ञाः विहिताः । तेषु प्रथमायाः एकवचनविवक्षायां रामशब्दात् सुप्रत्यये "राम सु" इति जाते सकारोत्तरवर्त्युकारस्य **उपदेशेऽजनुनासिक इत्**(1.3.2) इतीत्संज्ञायाम् **तस्य लोपः**(1.3.9) इति लोपे "रामस्" अत्र **ससजुषो रुः**(8.2.66) इत्यनेन रुत्वे रेफोत्तरवर्तिन उकारस्येत्संज्ञायां लोपे च **खरवसानयोर्विसर्जनीयः**(8.3.15) इति विसर्गे "रामः" इति रूपम् । रामशब्दात् द्विवचनविवक्षायां प्रथमाया द्विवचने औ समागते 'राम राम औ' अत्र **सरूपाणामेकशेष एकविभक्तौ**(1.2.64) इति एकरामस्य शेषे सति **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते **नादिचि**(6.1.104) इत्यनेन तस्य निषेधे **वृद्धिरेचि**(6.1.88) इति वृद्धौ - **रामौ इति ।**