14100: तङानावात्मनेपदम् ======================= **Padacheda:** तङानौ | S | 1 | 2 | आत्मनेपदम् | S | 1 | 1 | Sutrartha --------- **लकारस्य स्थाने विहिताः तङ् तथा आन इति आदेशाः आत्मनेपदसंज्ञकाः भवन्ति । आवली इयम् - त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ्, शानच्, कानच् ।** **तङ्** = त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् । लकारप्रत्ययानां स्थाने भिन्नैः सूत्रैः ये आदेशाः विधीयन्ते, तेभ्यः ****तङ्** इति प्रत्याहारस्थानाम् नव आदेशानाम्, तथा च **आन** इति स्वरूपिणोः द्वयोः आदेशयोः आत्मनेपदम् इति संज्ञा भवति** - इति अस्य सूत्रस्य आशयः । लकारस्य स्थाने भिन्नैः सूत्रैः आहत्य द्वाविंशतिः (22) आदेशाः विधीयन्ते । एतेषाम् सर्वेषाम् अपि **लः परस्मैपदम्** (3.4.81) इति पूर्वसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, तेभ्यः एकादशानाम् (11) आदेशानाम् प्रकृतसूत्रेण आत्मनेपदसंज्ञा विधीयते । **इयम् आत्मनेपदसंज्ञा एकसंज्ञाधिकारात् पूर्वसूत्रेण उक्ताम् परस्मैपदसंज्ञां बाधते** । अतः अन्ते एतेषाम् एकादशानाम् आदेशानाम् केवलम् **आत्मनेपदम्** इत्येव संज्ञा भवति । एते एकादश आदेशाः एतादृशाः -
  • 1. **तङ् इति नव आदेशाः ** - **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इत्यस्य सूत्रस्य **तातांझथासाथांध्वमिड्वहिमहिङ्** इति उत्तरार्धः एव **तङ्** इति प्रत्याहारेण निर्दिश्यते । अतः अस्मिन् उत्तरार्धे पाठिताः , आताम्, , थास्, आथाम्, ध्वम्, इट्, वहि, महिङ् - एते नव आदेशाः आत्मनेपदसंज्ञकाः भवन्ति ।
  • 2. **आन इति द्वौ आदेशौ **- लट्-लकारस्य स्थाने **लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इत्यनेन विहितः शानच् इति आदेशः, तथा च लिट्-लकारस्य स्थाने **लिटः कानज्वा** (3.2.106) इत्यनेन विहितः कानच् इति आदेशः - एतौ द्वौ आदेशौ प्रकृतसूत्रेण आत्मनेपदसंज्ञकौ भवतः । एतयोः द्वयोः अपि दृश्यरूपम् **आन** इति अस्ति, अतश्च एतयोः युगपत् निर्देशार्थम् प्रकृतसूत्रे **आन** इति शब्दः स्थापितः वर्तते । आत्मनेपदसंज्ञायाः प्रयोगः **अनुदात्तङित आत्मनेपदम्** (1.3.12), **आत्मनेपदेष्वनतः** (7.1.5), **आत्मनेपदेष्वन्यतरस्याम्** (2.4.44) एतादृशेषु सूत्रेषु कृतः अस्ति । येभ्यः धातुभ्यः केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते, ते धातवः **आत्मनेपदिनः** (प्रातिपदिकम् - आत्मनेपदिन्, प्रथमैकवचनम् - आत्मनेपदी) इति नाम्ना धातुपाठे परिगणिताः सन्ति । धातुपाठे विद्यमानेभ्यः ~2000 धातुभ्यः प्रायेण 500 धातवः (इत्युक्ते, 25% धातवः) आत्मनेपदिनः सन्ति । ****ल:** इति अनुवृत्तेः प्रयोजनम्** प्रकृतसूत्रे **लः परस्मैपदम्** (3.4.81) इति पूर्वसूत्रात् **लः** इति पदम् अनुवृत्तिरूपेण स्वीक्रियते । **इयम् अनुवृत्तिः **चानश्** इति प्रत्ययस्य आत्मनेपदसंज्ञानिवृत्त्यर्थं कृता अस्ति** । **ताच्छील्यवयोवचनशक्तिषु चानश्** (3.2.129) इति सूत्रेण विहितस्य **चानश्** इत्यस्य दृश्यरूपम् अपि **आन** इत्येव अस्ति, परन्तु अयं प्रत्ययः लकारस्य स्थाने न विधीयते अपितु पृथक् रूपेण उक्तः अस्ति । अस्यां स्थितौ यदि **चानश्** प्रत्ययस्य अपि आत्मनेपदसंज्ञा अभविष्यत्, तर्हि **हनँ (हिंसागत्योः)** इति परस्मैपदि-धातोः अयं प्रत्ययः नैव योजयितुं शक्यं स्यात्, येन **हन्**-धातोः **चानश्**-प्रत्ययान्तस्य "निघ्नान" इति रूपस्य साधुत्वज्ञापने अपि बाधः आगमिष्यत् । तत् तथा मा भूत् इति हेतुना प्रकृतसूत्रे **लः** इत्यस्य अनुवृत्तिः क्रियते । अनया अनुवृत्त्या **आन**-प्रत्ययस्य आत्मनेपदसंज्ञा तदा एव सिद्धा भवति यदा सः लकारस्य स्थाने विहितः वर्तते । अनेन **चानश्**-प्रत्ययस्य आत्मनेपदसंज्ञायाः वारणं भवति, येन परस्मैपदिनः **हन्**-धातोः योगे अस्य प्रयोगः अवश्यं सम्भवति । Sutrartha (English) ------------------- The तङ्, शानच् and कानच् आदेशाः that occur in place of a लकार are known as आत्मनेपद. Vasu English Summary -------------------- The nine affixes comprised under the प्रत्याहार - तङ् and the two ending in आन (शानच् and कानच्), which are substitutes of ल are called आत्मनेपद। Vasu English Translation ------------------------ The nine affixes comprised under the प्रत्याहार - तङ् and the two ending in आन (शानच् and कानच्), which are substitutes of ल are called आत्मनेपद। The following are the *Atmanepada* affixes:-- - 3rd person - त, आताम्, झ - 2nd person - थास्, आथाम्, ध्वम् - 1st person - इट्, वहि, महिङ् And the affixes भाव and ज्ञान (3.2.106), Kashika ------- तङिति प्रत्याहारो नवानां वचनानाम्। आन इति शानच्कानचोर्ग्रहणम्। पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते। त, आताम्, झ। थास्, आथाम्, ध्वम्। इट्, वहि, महिङ्। आनः खल्वपि — शानच्कानचौ। ल इत्येव — कतीह निघ्नानाः। आत्मनेपदप्रदेशाः — **अनुदात्तङित आत्मनेपदम्** (१.३.१२) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥ Laghu Siddhanta Kaumudi ----------------------- तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्वसंज्ञाऽपवादः॥ Balamanorama ------------ **तङानावात्मनेपदम्** - तङानौ । तङ् च आनश्चेति द्वन्द्वः । प्रत्याहार इति ।त आतामिति तशब्दमारभ्य महिङिति ङकारेणे॑ति शेषः । तदाह — तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनग्रहणेन शानच्कानचावेव गृह्रते, न तुताच्छील्यवयोवचनशक्तिषु चान॑शिति विहितश्चानशपि, तस्य लादेशत्वाऽभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति — निघ्नाना इत्यादौ । तदाह — शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः । पूर्वसंज्ञेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदं, कस्मादात्मनेपदमित्याकाङ्क्षायामाह — अनुदात्तङितः । अनुदात्तश्च ङ्च अनुदात्तङौ । तावितौ यस्य सः - अनुदात्तङित् । तस्मात् — अनुदात्तङितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते । अनुदात्तेतो ङितश्चेति । लभ्यते ।उपदेशेऽजनुनासिक इ॑दित्यस्मान्मण्डूकप्लुत्या उपदेश इत्यनुवृत्तं ङित इत्यनेन सम्बध्यते, नत्वनुदात्तेत इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाऽव्यभिचारात् । 'भूवादयो धातव' इत्यस्मान्मण्डूकप्लुत्या 'धातव' इत्यनुवृत्तं पञ्चम्या विपरिणतमनुदात्तेता ङिता च विशेष्यत#ए । तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाऽभावान्ङिदंशे तदन्तविधिः । तदाह — अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम्, तिङां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र 'गाङ्कुटादिभ्य' इति सन आतिदेशिकमेव ङित्त्वम्, नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्रणिश्री॑ति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु 'बोभूयते' इत्यादौ 'सनाद्यन्ता' इति धातुसंज्ञकाद्यङन्तादात्मनेपदं न स्यात् । 'ङित' इत्येवोक्तौ यङो ङित्त्वेऽपि तद्वन्तस्य धातोर्ङित्त्वाऽभावादात्मनेपदं न स्यात् । Tattvabodhini ------------- **तङानावात्मनेपदम्** - लस्येत्यस्यानुवृत्तेर्लादेश एवाऽऽनो गृह्रते इत्याशयेनाह — शानच्कानचौ चेति । तेन परस्मैपदिभ्योऽपिताच्छील्यवयोवचने॑इति चानश्भवत्येव ।कतीह निघ्नानाः॑॥ Padamanjari ----------- अथ कस्माल्लस्येत्यस्यानन्तरमेते संज्ञे न विहिते, एवं हि पुरुषसंज्ञाभिरन्यत्रसिद्धोऽनयोः समावेशो भवति, तत्राह - पूर्वेणेति। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधो यथा स्यादित्येवमर्थमस्मिन् प्रकरणेऽनयोर्विधानमिति भावः। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन॥ Prakriyasarvasvam ----------------- तातांझेत्यादिमहिङन्ताः शानच्कानचौ च लादेशत्वेऽप्यात्मनेपदसंज्ञाः ।