14097: अधिरीश्वरे¶
Padacheda: अधिः | S | 1 | 1 |
ईश्वरे | S | 7 | 1 |
Sutrartha¶
स्वस्वामीसम्बन्धस्य निर्देशार्थम् प्रयुक्तः “अधि” इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - अधि भुवि रामः, अधि रामे भूः ।
कर्मप्रवचनीयाः (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं चतुर्दशं सूत्रम् । **स्व-स्वामीभावसम्बन्धः**(इत्युक्ते परिपाल्य-परिपालकसम्बन्धः) इत्यस्य निर्देशार्थम् प्रयुक्तस्य <ex>**अधि**</ex> इति शब्दस्य अनेन सूत्रेण **कर्मप्रवचनीयसंज्ञा विधीयते ** । अपि च, एतादृशस्य कर्मप्रवचनीयसंज्ञकस्य <ex>अपि</ex> इति शब्दस्य उपस्थितौ विवक्षाम् अनुसृत्य परिपाल्य-परिपालकाभ्याम् कस्यापि एकस्य यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी (2.3.9) इत्यनेन सप्तमीविभक्त्या निर्देशः भवति । कानिचन उदाहरणानि एतादृशानि - <listsp> <li>1. <ex>रामे अधि भूः</ex> / <ex>भुवि अधि रामः</ex> । अत्र “रामः पृथिव्याः स्वामी अस्ति” इति भावः वर्तते । इत्युक्ते, अत्र परिपाल्यः = यस्य पालनं कृतम् तादृशः पदार्थः = भूः तथा च परिपालकः = यः पालनं करोति सः पदार्थः = रामः ** - एतयोर्मध्ये विद्यमानः स्व-स्वामीभावसम्बन्धः <ex>अधि</ex> इति कर्मप्रवचनीयेन निर्दिष्टः अस्ति । अस्यां स्थितौ **यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी (2.3.9) इत्यनेन कस्यापि एकस्य (इत्युक्ते, परिपाल्यस्य परिपालकस्य वा) निर्देशः सप्तमीविभक्त्या भवति । यदि परिपाल्यस्य निर्देशार्थं सप्तमीविभक्तिः प्रयुज्यते, तर्हि <ex>भुवि अधि रामः</ex> (= पृथिव्याः स्वामी रामः इत्याशयः) इति वाक्यं सिद्ध्यति । परन्तु यदि परिपालकस्य निर्देशार्थं सप्तमीविभक्तिः प्रयुज्यते, तर्हि <ex>रामे अधि भूः</ex> (रामस्य अधिकारे पृथिवी) इति वाक्यं सिद्ध्यति । <li>2. <ex>अधि ब्रह्मदत्ते पञ्चालाः</ex> / <ex>अधि पञ्चालेषु ब्रह्मदत्तः</ex> । पञ्चाल-जनपदस्य स्वामी ब्रह्मदत्तः अस्ति इति आशयः । जनपदवाचकशब्दाः नित्यं बहुवचने एव प्रयुज्यन्ते, अतः “पञ्चालाः” तथा च “पञ्चालेषु” इति उभयत्र बहुवचनप्रत्ययः प्रयुक्तः अस्ति । <li>3. <ex>अधि विक्रमादित्ये उज्जयनी</ex> / <ex>अधि उज्जयन्यां विक्रमादित्य</ex> । उज्जयनीनगरी विक्रमादित्यस्य आधिपत्ये विराजते इत्यर्थः । </listsp>
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण विहितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् सप्तमीविभक्तिविधानम् इति अस्ति । कर्मप्रवचनीयस्य योगे कर्मप्रवचनीययुक्ते द्वितीया (2.3.8) इत्यनेन द्वितीयायां प्राप्तायां, तां बाधित्वा यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी (2.3.9) इत्यनेन तस्य स्थाने सप्तमीविभक्तिः विधीयते । इयं सप्तमीविभक्तिः विवक्षाम् अनुसृत्य परिपाल्य-परिपालकाभ्याम् कस्यापि एकस्य निर्देशार्थं भवति, अतएव <ex>रामे अधि भूः</ex> तथा च <ex>भुवि अधि रामः</ex> इति द्वे वाक्ये सिद्ध्यतः ।
Vasu English Summary¶
The words अधि is कर्म-प्रवचनीय when used in the sense of ‘lord’ (‘being as a lord’ or ‘having as a lord’)
Vasu English Translation¶
The words अधि is कर्म-प्रवचनीय when used in the sense of ‘lord’ (‘being as a lord’ or ‘having as a lord’) The word ईश्वर means ‘master,’ and it therefore requires another correlative word denoting ‘property’ of which one is master. The word adhi governs a Locative case. Sometimes locative of the person possessing, sometime locative of the property possessed: as अधि ब्रह्मदत्ते पंचालाः or अधि पंचालेषु ब्रह्मदत्तः. Brahmadatta rules over Panchalas.
Kashika¶
ईश्वरः स्वामी, स च स्वमपेक्षते। तदयं स्वस्वामिसम्बन्धे कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः॥
Siddhanta Kaumudi¶
स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥
Balamanorama¶
अधिरीश्वरे - अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह — अधिरीश्वरे । ईआरशब्देन इआरत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम् । ‘कर्मप्रवचनीयाः’ इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह — स्वस्वामीति ।
Padamanjari¶
तदयमिति। यथा’हीने इत्यत्र हीनोत्कृष्टसम्बन्धे संज्ञा, ठुपो’ धिके चऽ इत्यत्राधिकाधिकिसम्बन्धे, तथात्रापीत्यर्थः। विभक्तिस्तु तत्रान्यतरस्मादुच्यते, इह तु न तथेत्याह - तत्र कदाचिदिति।’यस्य चेश्वरवचनम्’ इत्यत्रार्थद्वयम् - ईश्वरशब्दो भावप्रधानः, यस्य स्वस्येश्वर उच्यते तम्मात्स्वात्सप्तमीत्यपरः। तत्र यदा स्वाम्यर्थे व्यतिरेकविवक्षा तदा ततः सप्तमी, स्वस्य तु व्यतिरेके तत इति। न पुनरुभाभ्यां युगपद्भवति, एकयैव विभक्त्या द्विष्ठस्यापि सम्बन्धस्याभिधानादिति मत्वा’कदाचिद्’ इत्यक्तम्। ब्रह्मदत इति। ब्रह्मदतस्य स्वाः पञ्चाला इत्यर्थः। आधपञ्चालेष्विति। पञ्चालनां ब्रह्मदतः स्वामीत्यर्थः॥
Nyaas¶
तदयं स्वस्वामिसम्बन्धे इति। परिलपालनादिक्रियाजनितोऽत्र सम्बन्धः। तत्र इत्यादि। सर्वत्र हि सम्बन्धे किञ्चिदनूद्यते, किञ्चिदाख्यायते। यत्प्रसिद्धं तदनूद्यते, यदप्रसिद्धं तदाख्यायते = विधीयते; ज्ञाप्यते; यथा - यः कुण्डली स देवदत्त इति। कुण्डलित्वानुवादेन देवदत्तनुवादेन देवदत्तत्वं विधीयते। यच्च विधीयते तत्प्रधानम्, इतरदप्रधानं विशेषमम्। तत्र यदा स्वमप्रसिद्धत्वाद्विधीयते तदा स्वामी प्रधानत्वाद्वयतिरेकमापद्यत इति तत इव कर्मप्रवचनीयसंज्ञायुक्तत्वाद्व्यतिरेकनिबन्धनविभक्तो षष्ठआं प्राप्तायां तदपवादः यस्मादधिकं यस्य चेआरवचनं तत्र सप्तमी (2.3.9) इति सप्तमी भवति। तयैव सम्बन्धस्य द्योतितत्वात् स्वात् प्रथमैव भवति, न सप्तमी। यदा तु स्वाम्यप्रसिद्धत्वात् विधीयते, तदा विपर्ययो वेदितव्यः॥
Prakriyasarvasvam¶
अधिपतित्वेऽर्थेऽधिः कर्मप्रवचनीयः ॥
Sutra Prayogas¶
अधिरामे (भट्टिकाव्यम्): अधिरीश्वरे इति स्वस्वामिसंबन्धे अधेः कर्मप्रवचनीयसंज्ञा।