14097: अधिरीश्वरे ================= **Padacheda:** अधिः | S | 1 | 1 | ईश्वरे | S | 7 | 1 | Sutrartha --------- **स्वस्वामीसम्बन्धस्य निर्देशार्थम् प्रयुक्तः "अधि" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - अधि भुवि रामः, अधि रामे भूः ।** **कर्मप्रवचनीयाः** (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं चतुर्दशं सूत्रम् । ****स्व-स्वामीभावसम्बन्धः**(इत्युक्ते परिपाल्य-परिपालकसम्बन्धः) इत्यस्य निर्देशार्थम् प्रयुक्तस्य **अधि** इति शब्दस्य अनेन सूत्रेण **कर्मप्रवचनीयसंज्ञा** विधीयते ** । अपि च, एतादृशस्य कर्मप्रवचनीयसंज्ञकस्य अपि इति शब्दस्य उपस्थितौ विवक्षाम् अनुसृत्य **परिपाल्य-परिपालकाभ्याम् कस्यापि एकस्य** **यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी** (2.3.9) इत्यनेन **सप्तमीविभक्त्या** निर्देशः भवति । कानिचन उदाहरणानि एतादृशानि -
  • 1. रामे अधि भूः / भुवि अधि रामः । अत्र "रामः पृथिव्याः स्वामी अस्ति" इति भावः वर्तते । इत्युक्ते, अत्र **परिपाल्यः = यस्य पालनं कृतम् तादृशः पदार्थः = भूः** तथा च **परिपालकः = यः पालनं करोति सः पदार्थः = रामः ** - एतयोर्मध्ये विद्यमानः स्व-स्वामीभावसम्बन्धः अधि इति कर्मप्रवचनीयेन निर्दिष्टः अस्ति । अस्यां स्थितौ **यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी** (2.3.9) इत्यनेन **कस्यापि एकस्य** (इत्युक्ते, परिपाल्यस्य परिपालकस्य वा) निर्देशः सप्तमीविभक्त्या भवति । यदि परिपाल्यस्य निर्देशार्थं सप्तमीविभक्तिः प्रयुज्यते, तर्हि भुवि अधि रामः (= पृथिव्याः स्वामी रामः इत्याशयः) इति वाक्यं सिद्ध्यति । परन्तु यदि परिपालकस्य निर्देशार्थं सप्तमीविभक्तिः प्रयुज्यते, तर्हि रामे अधि भूः (रामस्य अधिकारे पृथिवी) इति वाक्यं सिद्ध्यति ।
  • 2. अधि ब्रह्मदत्ते पञ्चालाः / अधि पञ्चालेषु ब्रह्मदत्तः । पञ्चाल-जनपदस्य स्वामी ब्रह्मदत्तः अस्ति इति आशयः । जनपदवाचकशब्दाः नित्यं बहुवचने एव प्रयुज्यन्ते, अतः "पञ्चालाः" तथा च "पञ्चालेषु" इति उभयत्र बहुवचनप्रत्ययः प्रयुक्तः अस्ति ।
  • 3. अधि विक्रमादित्ये उज्जयनी / अधि उज्जयन्यां विक्रमादित्य । उज्जयनीनगरी विक्रमादित्यस्य आधिपत्ये विराजते इत्यर्थः । **प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्** प्रकृतसूत्रेण विहितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् **सप्तमीविभक्तिविधानम्** इति अस्ति । कर्मप्रवचनीयस्य योगे **कर्मप्रवचनीययुक्ते द्वितीया** (2.3.8) इत्यनेन द्वितीयायां प्राप्तायां, तां बाधित्वा **यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी** (2.3.9) इत्यनेन तस्य स्थाने सप्तमीविभक्तिः विधीयते । इयं सप्तमीविभक्तिः विवक्षाम् अनुसृत्य परिपाल्य-परिपालकाभ्याम् कस्यापि एकस्य निर्देशार्थं भवति, अतएव रामे अधि भूः तथा च भुवि अधि रामः इति द्वे वाक्ये सिद्ध्यतः । Vasu English Summary -------------------- The words अधि is कर्म-प्रवचनीय when used in the sense of 'lord' ('being as a lord' or 'having as a lord') Vasu English Translation ------------------------ The words अधि is कर्म-प्रवचनीय when used in the sense of 'lord' ('being as a lord' or 'having as a lord') The word ईश्वर means 'master,' and it therefore requires another correlative word denoting 'property' of which one is master. The word *adhi* governs a Locative case. Sometimes locative of the person possessing, sometime locative of the property possessed: as अधि ब्रह्मदत्ते पंचालाः or अधि पंचालेषु ब्रह्मदत्तः. *Brahmadatta* rules over *Panchalas*. Kashika ------- ईश्वरः स्वामी, स च स्वमपेक्षते। तदयं स्वस्वामिसम्बन्धे कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः॥ Siddhanta Kaumudi ----------------- स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥ Balamanorama ------------ **अधिरीश्वरे** - अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह — अधिरीश्वरे । ईआरशब्देन इआरत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम् । 'कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते । तदाह — स्वस्वामीति । Padamanjari ----------- तदयमिति। यथा'हीने इत्यत्र हीनोत्कृष्टसम्बन्धे संज्ञा, ठुपो' धिके चऽ इत्यत्राधिकाधिकिसम्बन्धे, तथात्रापीत्यर्थः। विभक्तिस्तु तत्रान्यतरस्मादुच्यते, इह तु न तथेत्याह - तत्र कदाचिदिति।'यस्य चेश्वरवचनम्' इत्यत्रार्थद्वयम् - ईश्वरशब्दो भावप्रधानः, यस्य स्वस्येश्वर उच्यते तम्मात्स्वात्सप्तमीत्यपरः। तत्र यदा स्वाम्यर्थे व्यतिरेकविवक्षा तदा ततः सप्तमी, स्वस्य तु व्यतिरेके तत इति। न पुनरुभाभ्यां युगपद्भवति, एकयैव विभक्त्या द्विष्ठस्यापि सम्बन्धस्याभिधानादिति मत्वा'कदाचिद्' इत्यक्तम्। ब्रह्मदत इति। ब्रह्मदतस्य स्वाः पञ्चाला इत्यर्थः। आधपञ्चालेष्विति। पञ्चालनां ब्रह्मदतः स्वामीत्यर्थः॥ Nyaas ----- `तदयं स्वस्वामिसम्बन्धे` इति। परिलपालनादिक्रियाजनितोऽत्र सम्बन्धः। `तत्र` इत्यादि। सर्वत्र हि सम्बन्धे किञ्चिदनूद्यते, किञ्चिदाख्यायते। यत्प्रसिद्धं तदनूद्यते, यदप्रसिद्धं तदाख्यायते = विधीयते; ज्ञाप्यते; यथा - यः कुण्डली स देवदत्त इति। कुण्डलित्वानुवादेन देवदत्तनुवादेन देवदत्तत्वं विधीयते। यच्च विधीयते तत्प्रधानम्, इतरदप्रधानं विशेषमम्। तत्र यदा स्वमप्रसिद्धत्वाद्विधीयते तदा स्वामी प्रधानत्वाद्वयतिरेकमापद्यत इति तत इव कर्मप्रवचनीयसंज्ञायुक्तत्वाद्व्यतिरेकनिबन्धनविभक्तो षष्ठआं प्राप्तायां तदपवादः `यस्मादधिकं यस्य चेआरवचनं तत्र सप्तमी` (2.3.9) इति सप्तमी भवति। तयैव सम्बन्धस्य द्योतितत्वात् स्वात् प्रथमैव भवति, न सप्तमी। यदा तु स्वाम्यप्रसिद्धत्वात् विधीयते, तदा विपर्ययो वेदितव्यः॥ Prakriyasarvasvam ----------------- अधिपतित्वेऽर्थेऽधिः कर्मप्रवचनीयः ॥ Sutra Prayogas -------------- * **अधिरामे** (भट्टिकाव्यम्): `अधिरीश्वरे` इति स्वस्वामिसंबन्धे अधेः कर्मप्रवचनीयसंज्ञा।