14098: विभाषा कृञि¶
Padacheda: विभाषा | S | 1 | 1 |
कृञि | S | 7 | 1 |
Sutrartha¶
स्वामी इति अर्थस्य निर्देशार्थम् प्रयुक्तः “अधि” इति शब्दः कृ-धातोः योगे विकल्पेन कर्मप्रवचनीयसंज्ञकः भवति । यथा - यदत्र मामधि॑करि॒ष्यति॑ ।
कर्मप्रवचनीयाः (1.4.83) अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं अन्तिमं सूत्रम् । **स्व-स्वामीभावसम्बन्धः (इत्युक्ते परिपाल्य-परिपालकसम्बन्धः) इत्यस्य निर्देशार्थम् प्रयुक्तस्य ** <ex>अधि**</ex> इत्यस्य अधिरीश्वरे (1.4.97) इति पूर्वसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा प्रकृतसूत्रेण कृ-धातोः योगे विकल्प्यते ** । यथा, <ex>रामः भरतम् अधि करोति</ex> (रामः भरतम् स्वामिरूपेण नियुक्तं करोति इत्यर्थः) अस्मिन् वाक्ये <ex>अधि</ex> इति शब्दः विकल्पेन कर्मप्रवनीयसंज्ञकः अस्ति ।
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण <ex>अधि</ex> इत्यस्य कर्मप्रवचनीयसंज्ञा उचितं स्वरसञ्चारं साधयितुम् कृता अस्ति । तदित्थम् - प्रादिगणस्य <ex>अधि</ex> इति शब्दः यदा कृ-धातोः योगे प्रयुज्यते, तदा गतिश्च (1.4.60) इत्यनेन “अधि” इत्यस्य गतिसंज्ञा भवति । अस्मिन् गतिसंज्ञके “अधि” इति शब्दे अकारः उदात्तः अस्ति, तथा च इकारः स्वरितः अस्ति ( “अधि॑” इति) । एतादृश्यां गतिसंज्ञायां सत्याम्, “यद् अत्र माम् अधि करिष्यति” (यः माम् अत्र अधिकारिरूपेण स्थापयिष्यति - इत्यर्थः) अस्मिन् विशिष्टे वाक्ये तिङि चोदात्तवति (8.1.71) इत्यनेन सूत्रेण “अधि” इति गतिसंज्ञकस्य द्वौ अपि स्वरौ अनुदात्तसंज्ञकौ भवतः (”अ॒धि॒” इति) । एतादृशम् “अधि” इत्यस्य अस्मिन् वाक्ये सर्वानुदात्तरूपेण कृतम् उच्चारणम् तु उचितम् अस्ति एव, परन्तु लोके अस्मिन्नेव वाक्ये अस्य शब्दस्य मूलप्रकारेण - इत्युक्ते “अधि॑” इति उच्चारणम् अपि उचितम् एव स्वीक्रियते । परन्तु एतादृशः “अधि॑” इति स्वरसञ्चारः तदा एव सम्भवति यदा <ex>अधि</ex> इत्यस्य गतिसंज्ञा न विद्यते । एतद् एव साधयितुम् प्रकृतसूत्रेण अस्य शब्दस्य विकल्पेन कर्मप्रवचनीयसंज्ञा विधीयते । कर्मप्रवचनीयसंज्ञायाः पक्षे एकसंज्ञाधिकारात्, गतिसंज्ञायाः बाधः जायते, येन <ex>अधि</ex> इत्यत्र विद्यमानौ मूलस्वरौ तादृशौ एव तिष्ठतः ( “अधि॑” इति) । कर्मप्रवचनीयसंज्ञायाः अभावस्य पक्षे तु गतिसंज्ञा अवश्यं विधीयते, येन तिङि चोदात्तवति (8.1.71) इत्यनेन सूत्रेण सर्वानुदात्तत्वम् (”अ॒धि॒” इति) अपि सिद्ध्यति । अनेन प्रकारेण <ex>अधि</ex> इत्यस्य द्वयोः अपि उच्चारणयोः साधुत्वं सिद्धं भवति । <note>अत्र दत्तम् “यद् अत्र माम् अधि करिष्यति” इति उदाहरणम् बहु विशिष्टम् अस्ति । अस्मिन् उदाहरणे विद्यमानस्य “यद्” इति शब्दस्य उपस्थितौ निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ** (8.1.30) इति सूत्रेण “करिष्यति” इति तिङन्तम् ** उदात्तवत् भवति । एतादृशस्य उदात्तवतः तिङन्तस्य उपस्थितौ एव तिङि चोदात्तवति (8.1.71) इति सूत्रेण “अधि” इत्यस्य सर्वानुदात्तत्वं सिद्ध्यति ।</note>
प्राप्तविभाषा इयम्
<ex>अधि</ex> इत्यस्य अधिरीश्वरे (1.4.97) इति पूर्वसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा प्रकृतसूत्रेण कृ-धातोः योगे विकल्प्यते </hl> । पूर्वेण नित्यं प्राप्तः विधिः विशिष्टे स्थले विकल्पेन उक्तः अस्ति अतः इदम् प्राप्तविभाषायाः उदाहरणम् अस्ति ।
Vasu English Summary¶
The words अधि is optionally कर्म-प्रवचनीय when the verb कृ follows.
Vasu English Translation¶
The words अधि is optionally कर्म-प्रवचनीय when the verb कृ follows. As यदत्र मामधि करिष्यति. Here the word अधि may be treated either as a गति or a कर्मप्रवचनीय. When it is a गति the accent will be regulated by Sutra. (8.1.71); otherwise not.
Kashika¶
अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति। यदत्र मामधि॑करि॒ष्यति॑। कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् तिङि चोदात्तवति (८.१.७१) इति निघातो न भवति॥
Siddhanta Kaumudi¶
अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् तिङि चोदात्तवति (SK3978) इति निघातो न ॥ इति सप्तमी ॥
Balamanorama¶
विभाषा कृञि - विभाषा कृञि । ‘अधिरीश्वरे’ इत्यनुवर्तते । ‘कर्मप्रवचनीया’ इत्यधिकृतम् । तदाह — अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीआरत्वे इति यावत् । यदत्रमामधिकरिष्यतीति । अत्र=अस्मिन्विषये मामधिकरिव्यतीति यत्नयुक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतद्व्याचष्टे — विनियोक्ष्यत इत्यर्थ इति । तर्हि कर्मत्वादेव द्वितीयासिद्धेः किं कर्मप्रवचनीयत्वेनेत्यत आह — अगतित्वादिति । तिङि चेति । उदात्तवति तिङि परे गतिर्निहन्यत इति तदर्थः । अत्र करिप्यतीति तिङन्तमुदात्तवत्, तिङ्ङतिङः॑ इति निघातस्य ‘निपोत्तैर्यत्’ इत्यादिना निषेधात् । ततश्च अधेरत्र गतित्वान्निघात इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति, तेन गतित्वस्य बाधात् । अतोऽधेर्निघाताऽभावार्थमिदं सूत्रमिति सिद्धम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां विभक्त्यर्थनिरूपणम् । ************************अथ तिङन्ते कर्तृकर्मप्रक्रिया ।अथ कर्मकर्तृप्रक्रियां निरूपयिष्यन्कर्मणः कर्तृत्वं साधयितुमाह — यदेति ।फलव्यापारयोर्धातु॑रिति सिद्धान्तः । पचिर्हि विक्लित्यनुकूलव्यापारे वर्तते । तत्र विक्लित्तिः फलम् । तदाश्रय ओदनं कर्म.तदनुकूलो व्यापारः — अधिश्रयणादिः पुरुषप्रयत्नरूपो व्यापारः । तत्राधिश्रयणं चुल्ल्या उपरि तण्डुलयुक्तस्थाल्याः स्थापनम् । स्थापनं स्थित्यनुकूलव्यापारः । तत्र स्थितिः स्थालीतण्डुलनिष्ठा । तदनुकूलः पुरुषचेष्टाविशेषः । धातु#ऊपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वातन्त्र्यं प्रधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रयत्नपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यतिशयविवक्षया कर्त्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्लित्यादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकारकाण्यपि कर्तृसंज्ञा लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुषप्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मणः कर्तृत्वमित्यत आह — स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तंकर्मवत्कर्मणे॑त्यत्र भाष्ये — कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्ष#इत्तवात् इति । अत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षणम् । तेनेति । असिना छिनत्तीत्यादिप्रयोगदशायामसिकुठारादीनां करणत्वादिसत्त्वेऽपि, ‘असिश्छिनत्ती’ इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात्कर्तरि लकार इत्यर्थः । साध्वसिश्छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । ‘साधु’ इति क्रियाविशेषं सौकर्यातिशयद्योतनाय । अतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव असिश्छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राऽधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद्धमनफूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्यश्रपणतया सौकर्यं बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकास्तत्र कर्मणः कर्तृत्वविवक्षायां वृक्षश्छिनत्ती॑त्यादौ प्राक् सकर्मकत्वेऽपि संप्रति सर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । ये तु द्विकर्मकास्तत्र एकस्य कर्मणः कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मकत्वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा — सुधां क्षीरसागरो मथ्यते॑ । कर्तरि यथथा — सुधां क्षीरसागरो मथ्न#आति॑ । अथ यदुक्तम् — एककर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनाह — तेभ्यो भावे कर्तरि च लकारा इति । नतु कर्मणि, असंभवात् । अत एवअकर्मकेभ्यो भावे कर्तरि ल॑ इत्युक्तमिति भावः । तत्र एककर्मकेभ्यः कर्मणः कर्तत्वविवक्षायां भावे लकारमुदाहरति — पच्यते ओदनेनेति । ओदनकर्तृकः पाक इत्यर्थः । एवं भिद्यते काष्ठेनेत्यपि । यद्यपि पचेर्द्विकर्मकत्वं तथापि तण्डुलानामविवक्षायामेककर्मकत्वं पचेराश्रितम् । कर्तरि त्विति । एककर्मकेषु कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः ।
Tattvabodhini¶
विभाषा कृञि - यदत्रेति । यो मामधि करिष्यति=विनियोक्ष्यते तस्य मद्विनियोक्तुरीश्ररत्वं गम्यते इथ्यर्थः । तिङि चोदात्तेति । उदात्तविति तिङि परे गतिर्मिहन्यत इति सूत्रार्थः । अत्र करिष्यतीति तिङन्त उदात्तवान्,तिङ्ङतिङः॑ इथि निघातस्यनिपातैर्यद्यदि॑ इत्यादिना निषेधात् । निघातो नेति । मामिति द्वितीया तुकर्मणि द्वितीया॑ इत्यनेनैव सिध्यतीति भावः । इति सप्तमी । इति विभक्त्यर्थाः ।* इति ज्ञानेन्द्र भिक्षुविरचितायां तत्त्वबोधिन्यां कारकप्रकरणम् *अथ तिङन्ते कर्मकर्तृप्रक्रिया ।कर्मणस्त्विति । सौकर्यातिशयं द्योतयितुमित्यनुषह्गः । प्रायेणेति । ये भिदिच्छिदिप्रभृतय एककर्मकान्ते अकर्मका ये तु द्विकर्मकास्ते सकर्मका इति भावः । अकर्मकत्वस्य फलमाह — भावे कर्तरि चेति ।भावे चाऽकर्मकेभ्य॑ इत्युक्तत्वादिति भावः । द्विकर्मकेषु कर्मणः कर्तृत्वविवक्षायामुदाहरणम् — मथ्नाति सागरोऽमृतं॑स्वयं प्रदुग्धेऽस्य गुणैरुपरुआउता वसूपमानस्य वसूनि मेदिनी॑ति ।प्रदुग्धे॑ इत्यत्रकर्मवत्कर्मणे॑ ति प्राप्तस्यसकर्मकाणा॑मिति निषेधे दुहिपच्योरिति प्रतिप्रसूतस्य यकोन दुहस्नुनमा॑मिति निषेधः । उक्तप्रयोगानुरोधाद्द्वकर्मकेषु गौणस्यैव कर्मणः कर्तृत्वविवक्षा न मुख्यस्येत्याहुः । तच्चिन्त्यम् ।अजां ग्रामं नयती॑त्यत्र मुख्यकर्म णः कर्तृत्वविवक्षादर्शनात् । अत्रेदमवध्यम् — अदिकरणत्वाऽविवक्षायां व्रजो गौणकर्मेतिरुणिद्धि व्रजो गां स्वयमेवे॑ति भवति । यदा तु व्रजस्य न कर्मत्वं तदा मुख्यकर्मणोऽपि कर्तृत्वविवक्षा भवति । रुध्यते व्रजे गौः स्वयमेवेति । तथा गोरपादानत्वविवक्षायां गौर्दुह्रते पयः स्वयमेवेत्यादि ।
Padamanjari¶
ठधिरीश्वरेऽ इत्यनुवृतेः प्राप्ते विभाषेयम्। यदत्र मामधिकरिष्यतीति। अधिपूर्वः करोतिर्विनियोगे वर्तते, यथा - अधिकृतोऽयमिह ग्रामे।’स्वरितेनाधिकारः’ इति च, ईश्वरो भवत्येवमत्र मां विनियोक्ष्यत इत्यर्थः। कर्मणि द्वितीयैषा। यद्येवम्, संज्ञाविधानस्य किं प्रयोजनं तत्राह - कर्मप्रवचनीयसंज्ञापक्ष इति।’निपातैर्यद्यदि’ इति निधातप्रतिषेधात् स्यप्रत्ययस्वरेण तिङ्न्तमुदातवत्॥
Nyaas¶
अधिरीश्वर इति वर्तते। तेन प्राप्ते विभाषेयम्। अधिपूर्वः करोतिर्विनियोगे वर्तते। विनियुक्तस्यैवआर्यं सम्पद्यते। यदत्र मामधिकरिष्यति इति। मामिति कर्मणि द्वितीया। अधिकरिष्यतीति; अत्र निपातैर्यद्यदि (8.1.30) इत्यादिना निघाते प्रतिषिद्धेऽस्य प्रकृतिस्वरेणाद्युदात्तत्वं भवति॥
Prakriyasarvasvam¶
कृञ्योग ईश्वरार्थेऽधिर्वा कर्मप्रवचनीयः स्यात् । मामधि कृत्वा गतः । मामधिकृत्य गतः । अधिपतिं कृत्वेत्यर्थः । कर्मप्रवचनीयत्वाभावपक्षे गतित्वा- त्समासे ल्यप् स्यादिति भेदः । द्वितीया तूभयत्र कृञ्कर्मतया स्यादिति ॥