14081: छन्दसि परेऽपि¶
Padacheda: छन्दसि | S | 7 | 1 |
परे | S | 1 | 3 |
अपि | S | 0 | 0 |
Sutrartha¶
वेदेषु उपसर्गाः तथा च गतिसंज्ञकाः धातोः अव्यवहितपरम् अपि प्रयुक्ताः दृश्यन्ते ।
उपसर्गाः क्रियायोगे (1.4.59) इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्ग**संज्ञकाः भवन्ति । एवमेव, **गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गति**संज्ञकाः भवन्ति । एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च **ते प्राग्धातोः (1.4.80) इत्यनेन धातोः अव्यवहितपूर्वम् एव विधीयन्ते । परन्तु ** वेदेषु तु उपसर्गसंज्ञकाः गतिसंज्ञकाः च धातोः अनन्तरम् अपि प्रयुक्ताः दृश्यन्ते** - इति अस्य सूत्रस्य आशयः । धातोः पूर्वं तु एते अवश्यं हि प्रयुक्ताः दृश्यन्ते, परन्तु धातोः अनन्तरम् अपि दृश्यन्ते - इति अत्र अर्थः वर्तते । धातोः परं प्रयुक्तानाम् एतादृशानां गतिसंज्ञकानाम् उपसर्गसंज्ञकानां वा उपस्थितौ किमपि गतिसंज्ञाविशिष्टम् (स्वरकार्यादिकम्) उत उपसर्गसंज्ञाविशिष्टं (णत्वादिकं) कार्यं न हि भवति । केवलम् एतेषां क्रियायोगः अस्ति इति कारणात् एतेषाम् गतिसंज्ञा उपसर्गसंज्ञा वा दीयते । <spacer> काशिकाकारेण अस्य सूत्रस्य द्वे उदाहरणे दत्ते स्तः - <listsp> <li>1. <ex>नियाति हस्तिना</ex>, <ex>निहन्ति मुष्टिना</ex> । अत्र “नि” इति उपसर्गः “याति” तथा “हन्ति” इति धात्वोः प्राक् प्रयुक्तः दृश्यते । <li>2. <ex>याति नि हस्तिना</ex>, <ex>हन्ति नि मुष्टिना</ex> । अत्र “नि” इति उपसर्गः “याति” तथा “हन्ति” इति धात्वोः अनन्तरम् प्रयुक्तः दृश्यते । </listsp>
Vasu English Summary¶
In the छन्दस् (Veda) these गति and उपसर्ग are employed indifferently after the verbal root, as well as before it.
Vasu English Translation¶
In the छन्दस् (Veda) these गति and उपसर्ग are employed indifferently after the verbal root, as well as before it. As.– वायविन्द्रश्च सुन्वत आयातमुपनिष्कृतम् ॥ मक्ष्वित्था धिया नरा (Rig.I.2.6).
In this we have आयातमुप instead of उपायतम् ‘vayu and thou Indra, ye heroes, come ye both quickly to the soma of the worshipper by this sincere prayer.’
Kashika¶
प्राक् प्रयोगे प्राप्ते छन्दसि परेऽप्यभ्यनुज्ञायन्ते। छन्दसि विषये गत्युपसर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः। न च परेषां प्रयुज्यमानानां संज्ञाकार्यं किञ्चिदस्ति। केवलं परप्रयोगेऽपि क्रियायोग एषामस्तीति ज्ञाप्यते। याति नि हस्तिना, नियाति हस्तिना। हन्ति नि मुष्टिना, निहन्ति मुष्टिना॥
Padamanjari¶
न च परेषामिति। नच’गतिर्गतौ’ इत्यस्यापि सम्भवः, परभूतानामेकाकिनामेव दर्शनादिति मन्यते॥
Prakriyasarvasvam¶
ते गत्युपसर्गसंज्ञाः धातोः परे पूर्वेऽपि स्युः । एति प्रहोता । प्रैतु ब्रह्मणः ।