14081: छन्दसि परेऽपि ==================== **Padacheda:** छन्दसि | S | 7 | 1 | परे | S | 1 | 3 | अपि | S | 0 | 0 | Sutrartha --------- **वेदेषु उपसर्गाः तथा च गतिसंज्ञकाः धातोः अव्यवहितपरम् अपि प्रयुक्ताः दृश्यन्ते ।** **उपसर्गाः क्रियायोगे** (1.4.59) इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे **उपसर्ग**संज्ञकाः भवन्ति । एवमेव, **गतिश्च** (1.4.60) इत्यतः **जीविकोपनिषदावौपम्ये** (1.4.79) इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे **गति**संज्ञकाः भवन्ति । एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च **ते प्राग्धातोः** (1.4.80) इत्यनेन धातोः अव्यवहितपूर्वम् एव विधीयन्ते । परन्तु ** वेदेषु तु उपसर्गसंज्ञकाः गतिसंज्ञकाः च धातोः अनन्तरम् अपि प्रयुक्ताः दृश्यन्ते** - इति अस्य सूत्रस्य आशयः । धातोः पूर्वं तु एते अवश्यं हि प्रयुक्ताः दृश्यन्ते, परन्तु धातोः अनन्तरम् अपि दृश्यन्ते - इति अत्र अर्थः वर्तते । धातोः परं प्रयुक्तानाम् एतादृशानां गतिसंज्ञकानाम् उपसर्गसंज्ञकानां वा उपस्थितौ किमपि गतिसंज्ञाविशिष्टम् (स्वरकार्यादिकम्) उत उपसर्गसंज्ञाविशिष्टं (णत्वादिकं) कार्यं न हि भवति । केवलम् एतेषां **क्रियायोगः** अस्ति इति कारणात् एतेषाम् गतिसंज्ञा उपसर्गसंज्ञा वा दीयते । काशिकाकारेण अस्य सूत्रस्य द्वे उदाहरणे दत्ते स्तः -
  • 1. नियाति हस्तिना, निहन्ति मुष्टिना । अत्र "नि" इति उपसर्गः "याति" तथा "हन्ति" इति धात्वोः **प्राक्** प्रयुक्तः दृश्यते ।
  • 2. याति नि हस्तिना, हन्ति नि मुष्टिना । अत्र "नि" इति उपसर्गः "याति" तथा "हन्ति" इति धात्वोः **अनन्तरम्** प्रयुक्तः दृश्यते । Vasu English Summary -------------------- In the छन्दस् (Veda) these गति and उपसर्ग are employed indifferently after the verbal root, as well as before it. Vasu English Translation ------------------------ In the छन्दस् (Veda) these गति and उपसर्ग are employed indifferently after the verbal root, as well as before it. As.-- वायविन्द्रश्च सुन्वत आयातमुपनिष्कृतम् ॥ मक्ष्वित्था धिया नरा (*Rig*.I.2.6). In this we have आयातमुप instead of उपायतम् '*vayu* and thou *Indra*, ye heroes, come ye both quickly to the *soma* of the worshipper by this sincere prayer.' Kashika ------- प्राक् प्रयोगे प्राप्ते छन्दसि परेऽप्यभ्यनुज्ञायन्ते। छन्दसि विषये गत्युपसर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः। न च परेषां प्रयुज्यमानानां संज्ञाकार्यं किञ्चिदस्ति। केवलं परप्रयोगेऽपि क्रियायोग एषामस्तीति ज्ञाप्यते। याति नि हस्तिना, नियाति हस्तिना। हन्ति नि मुष्टिना, निहन्ति मुष्टिना॥ Padamanjari ----------- न च परेषामिति। नच'गतिर्गतौ' इत्यस्यापि सम्भवः, परभूतानामेकाकिनामेव दर्शनादिति मन्यते॥ Prakriyasarvasvam ----------------- ते गत्युपसर्गसंज्ञाः धातोः परे पूर्वेऽपि स्युः । एति प्रहोता । प्रैतु ब्रह्मणः ।