14082: व्यवहिताश्च

Padacheda: व्यवहिताः | S | 1 | 3 |

च | S | 0 | 0 |

Sutrartha

वेदेषु उपसर्गाः तथा च गतिसंज्ञकाः धातोः व्यवहितपूर्वं, व्यवहितपरं वा अपि प्रयुक्ताः दृश्यन्ते ।

उपसर्गाः क्रियायोगे (1.4.59) इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्ग**संज्ञकाः भवन्ति । एवमेव, **गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गति**संज्ञकाः भवन्ति । ** एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च शब्दाः यद्यपि क्रियायोगे एव विधीयन्ते, तथापि ते वेदेषु धातोः पूर्वं, धातोः धातोः अनन्तरं वा **व्यवहितरूपेण अपि प्रयुक्ताः दृश्यन्ते ** - इति अस्य सूत्रस्य आशयः । व्यवहितरूपेण इत्युक्ते उपसर्गधात्वोर्मध्ये, अथवा गतिधात्वोर्मध्ये अन्ये केचन शब्दाः व्यवधानरूपेण अपि भवितुम् अर्हन्ति - इति । <spacer> अस्य सूत्रस्य व्याख्यानेषु दत्तानि उदाहरणानि एतानि - <listsp> <li>1. ऋग्वेदे 3.45.1 - <ex>आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः</ex> । अत्र “आ” इति उपसर्गः “याहि” इति क्रियायाः योगे विधीयते, परन्तु सः अव्यवहितपूर्वं नास्ति अपितु तयोर्मध्ये “मन्द्रैरिनद्रहिरिभिः” इति व्यवधानं वर्तते । अनेन प्रकारेण अत्र उपसर्गः धातोः व्यवहितपूर्वं प्रयुक्तः अस्ति । <li>2. ऋग्वेदे 6.16.10 - <ex>आ याहि</ex> । अत्र “आ” इति उपसर्गः “याहि” इत्यस्मात् अव्यवहितपूर्वं प्रयुक्तः अस्ति । <li>2. ऋग्वेदे 7.32.4 - <ex>हरि॑भ्यां या॒ह्योक॒ आ</ex> । अत्र “याहि” तथा “आ” एतयोर्मध्ये “ओक” इति शब्दस्य व्यवधानं विद्यते । अनेन प्रकारेण अत्र “आ” इति उपसर्गः “याहि” इत्यस्मात् व्यवहितपरं प्रयुक्तः अस्ति । </listsp>

Vasu English Summary

In the छन्दस् (Veda) these गति and उपसर्ग are also seen separated from the verb by intervening words.

Vasu English Translation

In the छन्दस् (Veda) these गति and उपसर्ग are also seen separated from the verb by intervening words. As:– इन्द्र वायू इमे सुता उप प्रयोभिरागतम् ॥ इन्दवो वा मुशन्तिहि (Rig. I.2.4). “Indra and vayu, here are soma libations for you. Approach, ye with pleasures for us. For the libations are desiring you.” Here उप is separated from the word आगत by the intervening word प्रयोभिः.

Kashika

व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते। आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः (ऋ० ३.४५.१)। आ या॑हि (ऋ० ६.१६.१०)॥

Siddhanta Kaumudi

हरिभ्यां याह्योक आ (हरि॑भ्यां या॒ह्योक॒ आ) । आ मन्द्रैरिन्द्र हरिभिर्याहि(आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि) ॥

Padamanjari

दिक्च्छब्दानामव्यवहिते मुख्या वृत्तिरिति प्राक् परस्ताच्च व्यवहितानां प्रयोगार्थमिदं वचनम्। अत एव भाषायां व्यवहितानामप्रयोगः। कथं तर्हि गतिव्यवाये प्रयोगः-अभ्युद्धरति, समुदाहरतीति? न तुल्यजातीयं व्यवधायकं भवति, तद्यथा - किमनन्तरे एते ब्राह्मणकुले इति पृष्टः सन्नाह - नानन्तरे, वृषलकुलमनयोर्मध्य इति विजातीयं व्यवधायकं निर्दिशति, जातेर्वा समाश्रयणान्नास्ति व्यवधायकत्वम्। एवं च गतिरनन्तरग्रहणम्,’गतिर्गतौ’ इति वचनम्, ठभिप्रैतिऽ इतिनिर्देशश्चोपपन्नो भवति॥

Nyaas

छन्दसि व्यवहितानां प्रयोगवचनात् भाषयां व्यवहितानां प्रयोगो न भवतीत्युक्तं भवति। यद्येवम्, गतिव्यवधानेऽपि प्राक्प्रयोगो न प्राप्नोति - समाहरतीत्यादौ नैष दोषः; न हि तुल्यजातीयको व्यवधायको भवति। गत्युपसर्गजातेराश्रयणान्नास्ति व्यवधानम्। आ मन्द्रैः इत्यादि। अत्राङो मन्द्रैरित्यादिभिः पदैव्र्यधानेऽपि यातेर्धातोः प्राक्प्रयोगः। आयाहि इति। एतेनाङो याहीत्यनेन सम्बन्धं दर्शयति॥

Prakriyasarvasvam

वेदे ते धातुभ्यो व्यवहिताश्च स्युः । आमन्द्रैरिन्द्र हरिभिर्याहि ।