14068: अस्तं च¶
Padacheda: अस्तम् | S | 0 | 0 |
च | S | 0 | 0 |
Sutrartha¶
अव्ययसंज्ञकः “अस्तम्” इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - अस्तंगत्य ।
अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं नवमं सूत्रम् । अनेन सूत्रेण ****अव्ययसंज्ञकस्य <ex>अस्तम्</ex> (= अदर्शनस्य स्थितिः इत्यर्थः) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति ** । गतिसंज्ञायां सत्याम् कुगतिप्रादयः (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>अस्तङ्गत्य सविता पुनरुदेति </ex> (= सूर्यः अदृष्टः भूत्वा पुनः उदेति) । एवमेव <ex>**अस्तङ्गतानि** धनानि</ex> इति प्रयोगः अपि सिद्ध्यति । <note><ex>अस्तम्</ex> इति शब्दः पदसंज्ञकः अस्ति, अतः मकारस्य मोऽनुस्वारः (8.3.23) इत्यनेन अनुस्वारादेशे कृते, ततः अनुस्वारस्य परसवर्णः (ङकारः) वा पदान्तस्य (8.4.59) इत्यनेन विकल्पेन एव भवति । अतः अनुस्वारघटिताः <ex>अस्तंगतः</ex>, <ex>अस्तंगत्य</ex> इत्यादयः शब्दाः अपि साधु एव सन्ति ।</note>
**अव्ययम् इति किमर्थम् ?**
प्रकृतसूत्रे पूर्वसूत्रात् अव्ययम् इति शब्दः अनुवर्तते । अनेन <ex>अस्तम्</ex> इति यद् मकारान्तम् अव्ययम्, तस्य एव प्रकृतसूत्रे ग्रहणं भवति । तस्य स्थाने यदि “अस्” इति धातोः क्त-प्रत्ययान्तरूपस्य सुबन्तरूपम् <nex>अस्तम्</nex> (“अस् + क्त –> अस्त, अस्त + अम् –> अस्तम्” । क्षिप्तम् / अवसानप्राप्तम् इति अर्थः) इति प्रयुज्यते तर्हि तत्र प्रकृतसूत्रस्य उपयोगः न भवति । यथा - <nex>काण्डम् अस्तं कृत्वा गतः</nex> (काण्डं प्रक्षिप्य गतः इत्याशयः) । अत्र वाक्ये <nex>अस्तम्</nex> इति अव्ययं नास्ति अपितु “अस्त”-प्रातिपदिकस्य द्वितीयैकवचनम् अस्ति । अतः अत्र गतिसंज्ञा न भवति, अतश्च गतिसमासः अपि न कर्तुं शक्यते । <spacer> किञ्च, “अस्त” इति कश्चन अकारान्तपुंलिङ्गशब्दः अपि विद्यते । अस्य प्रयोगः “यत्र सूर्यस्य किरणाः अदृष्टाः भवन्ति” तादृशस्य स्थानस्य निर्देशार्थं क्रियते । यथा - “अस्ताचलः” = सः पर्वतः यत्र सूर्यः अदृश्यः भवति । अस्य शब्दस्य द्वितीयैकवचनम् अपि अव्ययसंज्ञकं नास्ति अतः तस्य विषये अपि प्रकृतसूत्रं न प्रवर्तते ।
Vasu English Summary¶
And the indeclinable word अस्तम् ‘at home’ is called गति , when in composition with a verb.
Vasu English Translation¶
And the indeclinable word अस्तम् ‘at home’ is called गति , when in composition with a verb. The word अस्तम् is an indeclinable as it ends in म् (1.1. 39); and means ‘not visible.’ As अस्तंगत्य सविता पुनरुदेति the sun having set, rises again अस्तंगतानि धनानि riches that have vanished. यदस्तं गच्छति, when not an indeclinable it is not gati as अस्तं काण्डम् the arrow has been thrown.
Kashika¶
अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्तते, स गतिसंज्ञो भवति। अस्तंगत्य सविता पुनरुदेति। अ॒स्तंग॑तानि धनानि। यद॑स्तं॒गच्छ॑ति। अव्ययमित्येव — अस्तं कृत्वा काण्डं गतः। क्षिप्तमित्यर्थः॥
Siddhanta Kaumudi¶
अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥
Balamanorama¶
अस्तं च - अस्तं च । पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह — मान्मव्ययमिति । अस्तङ्गत्येति । तिरोधानं प्राप्येत्यर्थः । अव्ययं किं । काण्डमस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । अच्छ गत्यर्थ । गत्यर्थधातुषु, वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात् ।
Padamanjari¶
अस्तं कृत्वेति। ठसु क्षेपणेऽ,निष्ठा, उदितो वाऽ’यस्यविभाषा’ इति इट्प्रतिषेधः। ननु लाक्षणिकत्वादेवात्र न भवति, किमव्ययग्रहणानुवृत्या? एवं तर्ह्यस्तंशब्दोः अव्ययमिति ज्ञाप्यते। न ह्ययं चादिषु स्वरादिषु वा पठ्यते॥
Nyaas¶
अस्तंशब्दो मकारान्तोऽव्ययम् इति। अव्ययमित्यत एव विशेषणोपादानससामर्थ्याददव्ययत्वं विज्ञेयम्। चादेशकृतिगणत्वाद्वा। अस्तं कृत्वा काण्डं गतः इति। असु क्षेपणे (धातुपाठः-1209), निष्ठा, पूर्ववदिट्प्रतिषेधः। चकारः अव्ययम् (1।4।क67) इत्यस्यानुकर्षणार्थः। यद्येवम्,चानुकृष्टत्वादुत्तरत्र तस्यानुवृत्तिर्न स्यात्? उत्तरत्रापि चकारस्तदनुकर्षणार्थोऽनुवर्तिष्यत इत्यदोषः॥
Praudhamanorama¶
अस्तं च ॥ अव्ययमिति किम् । अस्तं काण्डम् । प्रक्षिप्तमित्यर्थः ।
Prakriyasarvasvam¶
अस्तमित्यदर्शनार्थमव्ययं गतिः स्यात् । अस्तंगत्य । अस्तंकृत्य ॥