14069: अच्छ गत्यर्थवदेषु

Padacheda: अच्छ | S | 0 | 0 |

गति-अर्थ-वदेषु | S | 7 | 3 |

Sutrartha

अव्ययसंज्ञकः “अच्छ” इति शब्दः गत्यर्थकधातूनां योगे तथा च वद्-धातोः योगे गतिसंज्ञकः भवति । यथा - अच्छगत्य, अच्छोद्य ।

अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं दशमं सूत्रम् । अनेन सूत्रेण ****अव्ययसंज्ञकस्य <ex>अच्छ</ex> (= अभिमुखम् इत्यर्थः) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति ** । गतिसंज्ञायां सत्याम् कुगतिप्रादयः (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>अच्छगत्य पृच्छति</ex> (= अभिमुखं गत्वा पृच्छति) । एवमेव <ex>अच्छोद्य प्रणमति</ex> (= अभिमुखम् उक्त्वा प्रणमति) इति । एवमेव <ex>अच्छगतम्</ex>, <ex>अच्छोदितम्</ex>, <ex>अच्छगमनम्</ex>, <ex>अच्छवदनम्</ex> इत्यादयः शब्दाः अपि सिद्ध्यन्ति ।

**अच्छ इति अव्ययसंज्ञकः शब्दः**

अत्र यद्यपि सूत्रे अच्छ इति निर्देशः वर्तते, तथापि वस्तुतः अत्र मूलम् अव्ययम् अच्छम् इति अस्ति । “न च्छ्यति सम्मुखत्वात् (दृष्टिं न आवृणोति)” इति व्युत्पत्त्या छो-धातोः घञ्-प्रत्यये कृते अच्छम् इति अव्ययं सिद्ध्यति । परन्तु प्रकृतसूत्रस्य प्रयोगसमये अस्य अव्ययस्य अन्ते विद्यमानस्य मकारस्य लोपः भवति, अतश्च अच्छ इत्येव प्रयोगे दृश्यते । अयं लोपः सूत्रविधानसामर्थ्यात् (इत्युक्ते निपातनात्) एव साधु ज्ञेयः ।

**अव्ययम् इति किमर्थम् ?**

प्रकृतसूत्रे पूर्वसूत्रात् अव्ययम् इति शब्दः अनुवर्तते । अनेन <ex>अच्छ</ex> इति अव्ययस्य एव प्रकृतसूत्रे ग्रहणं भवति । परन्तु अन्येषु अर्थेषु विद्यमानः यः अव्ययभिन्नः “अच्छ”-शब्दः तस्य विषये प्रकृतसूत्रस्य उपयोगः न भवति । यथा - <nex>जलम् अच्छं गत्वा स्नाति</nex> (निर्मलं / शुद्धं जलं प्रति गत्वा स्नानं करोति - इत्यर्थः) । अत्र वाक्ये “अच्छम्” इति अव्ययं नास्ति अपितु “निर्मलम्” इत्यस्मिन् अर्थे विद्यमानस्य “अच्छ”शब्दस्य द्वितीयैकवचनस्य रूपम् अस्ति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, येन गतिसंज्ञा न विधीयते, येन गतिसमासः अपि न कर्तुं शक्यते ।

Vasu English Summary

The indeclinable word अच्छ ‘before in the presence of’ is called गति , when used in the composition with verbs denoting ‘motion’ or with the verb वद् ‘to speak’.

Vasu English Translation

The indeclinable word अच्छ ‘before in the presence of’ is called गति , when used in the composition with verbs denoting ‘motion’ or with the verb वद् ‘to speak’. The word अच्छ is an indeclinable and has the force of the word अभि. As अच्छगत्य, अच्छगतम्, and यदच्छगच्छति. So also अच्छोद्य अच्छोदितम् and यदच्छवदति when not an Avyaya, we have उदकमच्छं गच्छति.

Kashika

अच्छशब्दोऽव्ययमभिशब्दस्यार्थे वर्तते। स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति। अच्छगत्य। अच्छ॑गतम्। यद॑च्छ॒गच्छ॑ति। वदतौ — अच्छोद्य। अच्छो॑दितम्। यद॑च्छ॒वद॑ति। अव्ययमित्येव — उदकमच्छं गच्छति॥

Siddhanta Kaumudi

अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥

Balamanorama

अच्छ गत्यर्थवदेषु - अच्छगत्येति । गतिसमासे क्त्वो ल्यप् । अच्छोद्येति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यप् । अच्छेत्यव्ययमाभिमुख्ये । तद्यथा — बर्हिरच्छैतीति । तदाह — अभिमुखमिति । जलमच्छं गच्छतीति । अत्राऽच्छशब्दस्य नाव्ययत्वं, न गतिसंज्ञा, नापिप्राग्रीश्वरान्निपाताः॑ इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वाद्विभक्तिलुक् । स्यादिति भावः ।

Tattvabodhini

अच्छ गत्यर्थवदेषु - अच्छमिति । सत्यां हि गतिसंज्ञायां निपातसंज्ञावत्त्वेनाव्ययत्वात्सुब्लुक् स्यादिति भावः । अदःस कृत्येति । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् ।

Padamanjari

अच्छेत्यनुकरणत्वेऽविभक्तिको निर्देशः,’सुपां सुलुक्’ इति विभक्तेर्लु प्तत्वात्। अभिशब्दस्यार्थ इति। आभिमुख्ये। अच्छाएद्योति। यजादित्वात् संप्रसारणम्, उदकमच्छ्ंअ गच्छति, अकलुषमित्यर्थः॥

Nyaas

अच्छशब्दोऽव्ययमभिशब्दस्यार्थे`इति। अभिराभिमुख्ये। `अच्छोद्य इति। यजादित्वाद्वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। अच्छमित्यकलुषमित्यर्थः॥

Prakriyasarvasvam

अच्छेत्याभिमुख्येऽव्ययम् । तद् गत्यर्थे वदतौ च गतिसंज्ञम् । अच्छगत्य । अच्छोद्य ॥